भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.79

5.79.1

योगयुक्त्यास्य चित्तस्य शम एवं निरूपितः ।
सम्यग्ज्ञानम् इदानीं मे कथयानुग्रहात् प्रभो ॥

5.79.2

अनाद्यन्तावभासात्मा परमात्मेह विद्यते ।
इत्य् एकनिश्चयस् स्फारस् सम्यग्ज्ञानं विदुर् बुधाः ॥

5.79.3

इमा घटपटाकारपदार्थशतशक्तयः ।
आत्मैव नान्यद् अस्तीति निश्चयस् सम्यगीक्षणम् ॥

5.79.4

असम्यग्वेदनाज् जन्म मोक्षस् सम्यगवेक्षणात् ।
असम्यग्वीक्षणाद् रज्जुस् सर्पो नो सम्यगीक्षणात् ॥

5.79.5

सङ्कल्पांशविनिर्मुक्ता संवित् संवेद्यवर्जिता ।
संविद् आद्याभिर् आख्याभिर् मुक्तास्तीह हि नेतरत् ॥

5.79.6

सा शुद्धरूपा विज्ञाता परमात्मेति कथ्यते ।
बुद्धा त्व् अशुद्धरूपान्तर् अविद्येत्य् उच्यते बुधैः ॥

5.79.7

संवित्तिर् एव संवेद्यं नानयोर् द्वित्वकल्पना ।
चिनोत्य् आत्मानम् आत्मैव रामैवं नान्यद् अस्ति हि ॥

5.79.8

यथाभूतार्थदर्शित्वम् एतावद्भुवनत्रये ।
यद् आत्मैव जगत् सर्वम् इति निश्चित्य पूर्णता ॥

5.79.9

सर्वम् आत्मैव किंनिष्ठौ भावाभावौ क्व वास्थितौ ।
क्व बन्धमोक्षकलने किम् अन्यद् राम शोच्यते ॥

5.79.10

न चित्तम् अन्यन् नो चेत्यं ब्रह्मैवेदं विजृम्भते ।
सर्वं एकं परं व्योम क्व मोक्षः कस्य बद्धता ॥

5.79.11

ब्रह्मेदं बृंहिताकारं बृहद् बृंहद् अवस्थितम् ।
दूरम् अस्तमितद्वित्वं भवात्मैव त्वम् आत्मना ॥

5.79.12

सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् ।
मनाग् अपि न भेदो ऽस्ति क्वापि सङ्कल्पनोन्मुखः ॥

5.79.13

आदाव् अन्ते च संशान्तं स्वरूपम् अविनाशि यत् ।
वस्तूनाम् आत्मनश् चैव तन्मयो भव राघव ॥

5.79.14

द्वैताद्वैतसमुद्भूतैर् जरामरणविभ्रमैः ।
स्फुरत्य् आत्मभिर् आत्मैव चित्रैर् अम्ब्व् इव वीचिभिः ॥

5.79.15

शुद्धम् आत्मानम् आलम्ब्य नित्यम् अन्तस्स्थया धिया ।
यस् स्थितस् तं क आत्मेशं भोगो वञ्चयितुं क्षमः ॥

5.79.16

कृतस्फारविचारस्य मनो भोगादयो ऽरयः ।
मनाग् अपि न भिन्दन्ति शैलं मन्दानिला इव ॥

5.79.17

अविचारिणम् अज्ञानं मूढम् आशापरायणम् ।
निगिरन्तीह दुःखानि बका मत्स्यम् इवाजलम् ॥

5.79.18

जगद् आत्मैव सकलम् अविद्या नास्ति कुत्रचित् ।
इति दृष्टिम् अवष्टभ्य सम्यग्रूपां स्थिरो भव ॥

5.79.19

नानात्वम् अस्ति कलनासु न वस्तुतो ऽन्तर् नानाविधासु सरसीषु जलाद् इवान्यत् ।
इत्य् एकनिश्चयमयः पुरुषो विमुक्त इत्य् उच्यते समवलोकितसम्यगर्थः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc