मोक्षोपाय · अध्याय 5.78
यथालातपरिस्पन्दाद् अग्निचक्रं प्रवर्तते ।
असद् एव सदाभासं चित्तस्पन्दात् तथा जगत् ॥
यथा जलपरिस्पन्दाद् व्यतिरिक्त इवाम्भसः ।
दृश्यते वर्तुलावर्तश् चित्तस्पन्दात् तथा जगत् ॥
यथा व्योम्नीक्षितस्पन्दात् पिञ्छमौक्तिकमण्डलम् ।
दृश्यते सद् इवासत्यं चित्तस्पन्दात् तथा जगत् ॥
येन प्रस्पन्दते चित्तं येन न स्पन्दते ऽथ वा ।
तद् ब्रह्मन् ब्रूहि मे येन चिकित्स्येत तद् एव हि ॥
यथा शौक्ल्यहिमे राम तिलतैललवौ यथा ।
यथा कुसुमसौगन्ध्ये तथौष्ण्यदहनौ यथा ॥
रघुनन्दन संश्लिष्टौ चित्तस्पन्दौ तथैव हि ।
अभिन्नौ केवलं मिथ्या भेदः कल्पित एतयोः ॥
चित्तचित्तपरिस्पन्दपक्षयोर् एकसङ्क्षये ।
स्वयं गुणगुणिस्थित्या नश्यतो द्वौ न संशयः ॥
द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव ।
योगस् तद्वृत्तिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥
कया कीदृक्षया वृत्त्या प्राणापाननिबद्धया ।
योगनाम्न्या मनश् शान्तिम् एत्य् अनन्तसुखप्रदाम् ॥
देहे ऽस्मिन् देहनाडीषु वातस् स्फुरति यो ऽभितः ।
स्खदास्व् इव भुवो वारि स प्राण इति कीर्तितः ॥
तस्य स्पन्दवशाद् अन्तः क्रियावैचित्र्यम् ईयुषः ।
अपानादीनि नामानि कल्पितानि कृतात्मभिः ॥
आमोदस्य यथा पुष्पं शौक्ल्यस्य तुहिनं यथा ।
तथैष रथ आधारश् चित्तस्याभिन्नतां गतः ॥
अन्तःप्राणपरिस्पन्दात् सङ्कल्पकलनोन्मुखी ।
संवित् सञ्जायते यैषा तच् चित्तं विद्धि राघव ॥
प्राणस्पन्दं विदुस् स्पन्दं तत्स्पन्दाद् एव संविदः ।
चक्रावर्तविधायिन्यो जलस्पन्दाद् इवोर्मयः ॥
चित्तं प्राणपरिस्पन्दम् आहुर् आगमभूषणाः ।
तस्मिन् संरोधिते नूनम् उपशान्तं भवेन् मनः ॥
मनस्स्पन्दोपशान्त्यायं संसारः प्रविलीयते ।
सूर्यालोकपरिस्पन्दशान्तौ व्यवहृतिर् यथा ॥
अनिशं चरतां देहगेहे गहनगामिनाम् ।
प्राणादीनां परिस्पन्दो वायूनां रोध्यते कथम् ॥
शास्त्रसज्जनसम्पर्काद् वैराग्याभ्यासयोगतः ।
अनास्थायां कृतास्थायां पूर्वं संसारवृत्तिषु ॥
यथाभिवाञ्छितध्यानाच् चिरम् एकतयोदितात् ।
एतत्तत्त्वघनाभ्यासात् प्राणस्पन्दो निरुध्यते ॥
पूरकादिनिजायामदृढाभ्यासाद् अखेदजात् ।
एकान्तध्यानसंयोगात् प्राणस्पन्दो निरुध्यते ॥
ओङ्कारोच्चारणप्रान्तशब्दतत्त्वानुधावनात् ।
सुषुप्ते संविदो जाते प्राणस्पन्दो निरुध्यते ॥
रेचके नूनम् अभ्यस्ते प्राणे स्फारं खम् आगते ।
न स्पृशत्य् अङ्गरन्ध्राणि प्राणस्पन्दो निरुध्यते ॥
कुम्भके पूर्ववत् कालम् अनन्तं परितिष्ठति ।
अभ्यासात् स्तम्भिते प्राणे प्राणस्पन्दो निरुध्यते ॥
तालुमूलगतां यत्नाज् जिह्वयाक्रम्य घण्टिकाम् ।
ऊर्ध्वरन्ध्रगते प्राणे प्राणस्पन्दो निरुध्यते ॥
समस्तकलनोन्मुक्ते नकिञ्चिन्नाम्नि सूक्ष्मखे ।
ध्यानात् संविदि लीनायां प्राणस्पन्दो निरुध्यते ॥
द्वादशाङ्गुलपर्यन्ते नासाग्रे विमलाम्बरे ।
सम्यग् दृशोः प्रशाम्यन्त्योः प्राणस्पन्दो निरुध्यते ॥
अभ्यासाद् ऊर्ध्वरन्ध्रेण तालूर्ध्वद्वादशान्तगे ।
प्राणे गलितसंवित्तौ प्राणस्पन्दो निरुध्यते ॥
भ्रूमध्ये तारकालोकशान्ताव् अस्तम् उपागते ।
चेतने केतने बुद्धेः प्राणस्पन्दो निरुध्यते ॥
चिरं कालं हृदेकान्तव्योमसंवेदनान् मुनेः ।
अवासनमनोध्यानात् प्राणस्पन्दो निरुध्यते ॥
ब्रह्मञ् जगति भूतानां हृदयं तत् किम् उच्यते ।
इदं सर्वं महादर्शे यस्मिंस् तत् प्रतिबिम्बति ॥
साधो जगति भूतानां द्विविधं हृदयं स्थितम् ।
उपादेयं च हेयं च विभागो ऽयं तयोश् शृणु ॥
इयत्तया परिच्छिन्ने देहे यद् वक्षसो ऽन्तरे ।
हेयं तद् धृदयं विद्धि तनाव् एकतटे स्थितम् ॥
संविन्मात्रं तु हृदयम् उपादेयं नृणां स्मृतम् ।
तद् अन्तरे च बाह्ये च न च बाह्ये न चान्तरे ॥
तत् तत्प्रधानं हृदयं तत्रेदं समवस्थितम् ।
तद् आदर्शः पदार्थानां तत् कोशस् सर्वसम्पदाम् ॥
सर्वेषाम् एव जन्तूनां संविद् धृदयम् उच्यते ।
न देहावयवैकांशो जडो जीर्णोपलोपमः ॥
तस्मात् संविन्मये शुद्धे हृदये ऽत्र विवासनम् ।
बलान् नियोजिते चित्ते प्राणस्पन्दो निरुध्यते ॥
एभिः क्रमैर् अथान्यैश् च नानासङ्कल्पकल्पितैः ।
नानादैशिकवक्त्रस्थैः प्राणस्पन्दो निरुध्यते ॥
अभ्यासेन निराबाधम् एतास् ता योगयुक्तयः ।
उपायताम् उपायान्ति भव्यस्य भवभेदने ॥
अभ्यासाद् दृढतां याताद् वैराग्यपरिलाञ्छितात् ।
यथावासनम् आयामः प्राणानां सफलस् स्मृतः ॥
भ्रूनासातालुसंस्थासु द्वादशाङ्गुलकोटिषु ।
अभ्यासाच् छाम्यति प्राणो दूरे गिरिनदी यथा ॥
भूयो भूयश् चिराभ्यासाज् जिह्वाप्रान्तेन तालुनि ।
घण्टिका स्पृश्यते प्राणा येनोर्ध्वेन वहन्त्य् अलम् ॥
विकल्पबहुलास् त्व् एते स्वभ्यासेन समाधयः ।
परमोपशमायाशु सम्प्रयान्त्य् अविकल्पताम् ॥
आत्मारामो वीतशोको भवत्य् अन्तस्सुखः पुमान् ।
अभ्यासाद् एव नान्यस्मात् तस्माद् अभ्यासवान् भव ॥
अभ्यासेन परिस्पन्दे प्राणानां क्षयम् आगते ।
मनः प्रशमम् आयाति निर्वाणम् अवशिष्यते ॥
वासनावलितं जन्म मोक्षो निर्वासनं मनः ।
प्राणश् च राम गृह्णाति यथेच्छसि तथा कुरु ॥
प्राणस्पन्दो मनोरूपं तस्मात् संसृतिसम्भ्रमः ।
तस्मिन्न् एव शमं याते क्षीयते संसृतिज्वरः ॥
विकल्पसङ्क्षयाज् जन्तोः पदं तद् अवशिष्यते ।
यतो वाचो निवर्तन्ते समस्तकलनान्विताः ॥
यत्र सर्वं यतस् सर्वं यत् सर्वं सर्वतश् च यत् ।
यत्र नेदं यतो नेदं यन् नेदं नेदृशं च यत् ॥
विनाशित्वाद् विकल्पित्वाद् गुणित्वान् निर्गुणात्मनः ।
यस्य नो सदृशो दृश्ये दृष्टान्तः कश्चिद् एव हि ॥
स्वादनी सर्वशालीनां दीपिका सर्वतेजसाम् ।
कलना सर्वकामानां यतश् चिच्चन्द्रिकोदिता ॥
यत्सङ्कल्पतरोर् बह्व्यस् संसारफलपङ्क्तयः ।
अनारतं बहुरसा जायन्ते च पतन्ति च ॥
तत् पदं सर्वसीमान्तम् अवलम्ब्य महामतिः ।
यस् स्थितस् स्थिरधीस् तज्ज्ञस् स जीवन्मुक्त उच्यते ॥
विगतसर्वसमीहितकौतुकस् समुपशान्तहिताहितकल्पनः ।
सकलसंव्यवहारसमाशयो भवति मुक्तमनाः पुरुषोत्तमः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0