मोक्षोपाय · अध्याय 5.77
समासेन मुने भूयो दृष्टतत्त्वचमत्कृतिम् ।
कथयोदारवृत्तान्ते कस् ते वचसि तृप्यति ॥
जीवन्मुक्तस्य बहुधा कथितं लक्षणं मया ।
भूयो ऽपि च महाबाहो कथ्यमानम् इदं शृणु ॥
सुषुप्तवद् इदं नित्यं पश्यत्य् अपगतैषणः ।
असद्रूपं इवासक्तस् सर्वत्राखिलम् आत्मवान् ॥
कैवल्यम् इव सम्प्राप्तः परिसुप्तमना इव ।
घूर्णमान इवानन्दी तिष्ठत्य् अधिगतात्मदृक् ॥
न दत्तम् अप्य् उपादत्ते गृहीतम् अपि पाणिना ।
अन्तर्मुखतयोदात्तरूपया समया धिया ॥
यन्त्रपुत्रकसञ्चार इतीमं जनताक्रमम् ।
अन्तस्संलीनया दृष्ट्या पश्यन् हसति शान्तधीः ॥
नापेक्षते भविष्यच् च वर्तमाने न तिष्ठति ।
न संस्मरत्य् अतीतं च सर्वम् एव करोति च ॥
सुप्तः प्रबुद्धो भवति प्रबुद्धो ऽपि च सुप्तवत् ।
सर्वकर्मकरो ऽप्य् अन्तर् न करोतीव किञ्चन ॥
अन्तस् सर्वपरित्यागी नित्यम् अन्तर् अनेषणः ।
कुर्वन्न् अपि बहिः कार्यं सर्वम् एवावतिष्ठते ॥
बहिः प्रकृतसर्वेहो यथाप्राप्तक्रियोन्मुखः ।
स्वकर्मक्रमसम्प्राप्तद्वन्द्वकार्यानुवृत्तिमान् ॥
समग्रसुखभोगात्मा सर्वाशास्व् इव संस्थितः ।
करोत्य् अखिलकर्माणि त्यक्तकर्तृत्वविभ्रमः ॥
उदासीनवद् आसीनः प्रकृतिक्रमकर्मसु ।
नाभिवाञ्छति न द्वेष्टि न शोचति न हृष्यति ॥
अनुबन्धपरो जन्ताव् असंसक्तेन चेतसा ।
भक्ते भक्तसमाचारश् शठे शठ इव स्थितः ॥
बालो बालेषु वृद्धेषु वृद्धो वीरेषु वीर्यवान् ।
युवा यौवनवृत्तेषु दुःखितेषु तु दुःखितः ॥
प्रवृत्तवाक्पुण्यकथो दैन्याद् अपगताशयः ।
धीरधीर् उदितानन्दः पेशलः पुण्यकीर्तनः ॥
प्राज्ञः प्रसन्नमधुरः पूर्णस् सुप्रतिभोदयः ।
निरस्तखेददौर्गत्यस् सर्वस्मिन् स्निग्धबान्धवः ॥
उदारचरिताकारस् समस् सौख्यमहोदधिः ।
सुस्निग्धश् शीतलस्पर्शः पूर्णश् चन्द्र इवोदितः ॥
न तस्य सुकृतेनार्थो न भोगैर् न च कर्मभिः ।
न दुष्कृतैर् न भोगानां सन्त्यागेन न बन्धुभिः ॥
न कार्यकरणारम्भैर् न निष्क्रियतया तथा ।
न बन्धेन न मोक्षेण न पातालेन नो दिवा ॥
यथावस्तु यदा दृष्टं जगद् एकमयात्मकम् ।
तदा बन्धविमोक्षार्थं न क्वचित् कृपणं मनः ॥
सम्यग्ज्ञानाग्निना यस्य दग्धा सन्देहजालिका ।
निश्शङ्कम् अलम् उड्डीनस् तस्य चित्तविहङ्गमः ॥
यस्य भ्रान्तिविनिर्मुक्तं मनस् समरसं स्थितम् ।
स नास्तम् एति नोदेति व्योमवत् सर्ववृत्तिषु ॥
मञ्जूषायां निषण्णस्य यथा बालस्य चेष्टते ।
अङ्गावल्य् अनुसन्धानवर्जिता ज्ञस्य वै तथा ॥
घूर्णन् क्षीव इवानन्दी मन्दीकृतपुनर्भवः ।
अनुपादेयबुद्ध्या तु न स्मरत्य् अकृतं कृतम् ॥
सर्वं सर्वप्रकारेण गृह्णाति च जहाति च ।
अनुपादेयसर्वार्थो बालवच् च विचेष्टते ॥
स तिष्ठन्न् अपि कार्येषु देशकालक्रियाक्रमैः ।
न कार्यसुखदुःखाभ्यां मनाग् अपि हि गृह्यते ॥
बहिः प्रकृतसर्वार्थो ऽप्य् अन्तः पुनर् अनीहया ।
न सत्तां योजयत्य् अर्थे न फलान्य् अनुधावति ॥
नोपेक्षते दुःखदशां न सुखाशाम् अपेक्षते ।
कार्योदये नैति मुदं कार्यनाशे न खिद्यते ॥
अपि शीतरुचाव् अर्के सुकृष्णे ऽपीन्दुमण्डले ।
अप्य् अधः प्रसरत्य् अग्नौ विस्मयो ऽस्य न जायते ॥
चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः ।
इत्य् अस्याश्चर्यजालेषु नाभ्युदेति कुतूहलम् ॥
न दयादैन्यम् आदत्ते न क्रौर्यम् अनुधावति ।
न लज्जाम् अनुसन्धत्ते नालज्जत्वं च गच्छति ॥
न कदाचन दीनात्मा नोद्धतात्मा कदाचन ।
न प्रमत्तो न खिन्नात्मा नोद्विग्नो न च हर्षवान् ॥
नास्य चेतसि सुस्फारे शरदम्बरनिर्मले ।
कोपादयः प्रवर्तन्ते नभसीव नवाङ्कुराः ॥
अनारतपतज्जातभूतायां जगतस् स्थितौ ।
क्व कथं किल कास्य स्यात् सुखिता दुःखिताथ वा ॥
फेनाजवञ्जवीभावे जले भूतक्रमे तथा ।
क्व किलेह कुतः को ऽन्तः प्रसङ्गस् सुखदुःखयोः ॥
भावाभावैर् अपर्यन्तैर् अजस्रं जन्तुसम्भवैः ।
न विषीदन्ति नोद्यन्ति दृष्टसृष्टिक्रमा नराः ॥
निमेषं प्रति यामिन्या यथान्यास् स्वप्नदृष्टयः ।
यथोत्पन्नविनाशिन्यस् तथैता लोकदृष्टयः ॥
अनारतसमुत्पत्ताव् अनारतविनाशिनि ।
कः क्रमो दग्धसंसारे कारुण्यानन्दयोर् इह ॥
शुभाभावात् सुखाभावे स्थितिं याते विलक्षणाः ।
कीदृश्यः कथम् आयाताः का वा ता दुःखसंविदः ॥
सुखम् अन्ते तदन्तोत्था स्वबीजं वितनोति या ।
शान्तं दुःखदशा सेयं कथम् अन्तरिते सुखे ॥
क्षीणाभ्यां सुखदुःखाभ्यां हेयोपादेययोः क्षये ।
ईप्सितानीप्सिते क्व स्तो गलिते ऽथ शुभाशुभे ॥
रम्यारम्यदृशोर् नाशाच् छान्ते भोगाभिवाञ्छने ।
नैराश्यसन्ततिप्रौढे हिमवद् विगलेन् मनः ॥
आ मूलान् मनसि क्षीणे सङ्कल्पस्य कथैव का ।
तिलेष्व् एवातिदग्धेषु तैलस्य कलना कुतः ॥
भावेष्व् अभावघनभावनया महात्मा निर्मुक्तसङ्कलनम् अम्बरवत् स्थितेषु ।
चित्तं प्रति स्वमुदितो विदितैकरूपी ज्ञस् तिष्ठति स्वपिति जीवति नित्यतृप्तः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0