मोक्षोपाय · अध्याय 5.76
ब्रह्मणस् समुपायान्ति जगन्तीमानि राघव ।
स्थैर्यं यान्त्य् अविवेकेन शाम्यन्त्य् अङ्ग विवेकतः ॥
जगज्जालजलावर्तवृत्तयो ब्रह्मवारिधौ ।
सङ्ख्यातुं केन शक्यन्ते भासां च त्रसरेणवः ॥
असम्यक्प्रेक्षणं विद्धि कारणं जगतस् स्थितौ ।
संसारशान्ताव् एकान्तकारणं सम्यगीक्षणम् ॥
अयं हि राम दुष्पारो घोरस् संसारसागरः ।
विना युक्तिप्रयत्नाभ्याम् अस्मान् नाम न तीर्यते ॥
अयं हि सागरः पूर्णो मोहाम्बुभरपूरितः ।
अगाधमरणावर्तः कल्लोलाकुलकोटरः ॥
प्रभ्रमत्पुण्यदिण्डीरो ज्वलन्नरकवाडवः ।
तृष्णाविलोललहरिर् मनोजलमतङ्गजः ॥
आलीनजीवितसरिद् भोगरत्नसमुद्गकः ।
क्रुद्धरोगोरगाकीर्ण इन्द्रियग्राहघर्घरः ॥
पश्यास्मिन् प्रसृता राम वीचयश् चारुचञ्चलाः ।
इमा मुग्धाङ्गनानाम्न्यश् शिखराकर्षणक्षमाः ॥
छदश्रीपद्मरागाढ्या नेत्रनीलोत्पलाकुलाः ।
दन्तमुक्ताफलाकीर्णास् स्मितफेनोपशोभिताः ॥
केशेन्द्रनीलवलया भ्रूविलासतरङ्गिताः ।
नितम्बपुलिनस्फीताः कण्ठकम्बुविभूषिताः ॥
ललाटमणिपट्टाढ्या विलासग्राहसङ्कुलाः ।
कटाक्षलोलशफरा वर्णकाञ्चनवालुकाः ॥
एवंविलोललहरीभीमात् संसारसागरात् ।
उत्तीर्यते चेन् मग्नेन तत् परं पौरुषं भवेत् ॥
सत्यां प्रज्ञामहानावि विवेके सति नाविके ।
संसारसागराद् अस्माद् यो न तीर्णो धिग् अस्तु तम् ॥
अपारावारम् आक्रम्य प्रमेयीकृत्य सर्वतः ।
संसाराब्धिं गाहते यस् स एव पुरुषस् स्मृतः ॥
विचार्यार्यैस् सहालोक्य धिया संसारसागरम् ।
एतस्मिंस् तदनु क्रीडा शोभते राम नान्यथा ॥
इह भव्यो भवान् साधो विचारपरया धिया ।
त्वया यूनैव येनायं संसारः प्रविचार्यते ॥
भवान् इव विचार्यादौ संसारम् अतिकान्तया ।
मत्या यो गाहते लोके नेहासौ परिमज्जति ॥
पूर्वं धिया विचार्यैते भोगा भोगिभयप्रदाः ।
भोक्तव्याश् चरमं राम गरुडेनेव पन्नगाः ॥
विचार्य तत्त्वम् आलोक्य सेव्यन्ते या विभूतयः ।
ता उदर्कोदया जन्तोश् शेषा दुःखाय केवलम् ॥
बलं बुद्धिश् च तेजश् च दृष्टतत्त्वस्य वर्धते ।
सवसन्तस्य वृक्षस्य सौन्दर्याद्या गुणा इव ॥
घनरसायनपूरणशीतया विमलया समया सततं धिया ।
शिशिररश्मिर् इवातिविराजते विदितवेद्यसुखं रघुनन्दन ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0