भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.75

5.75.1

जनकस् संस्थितो राज्ये व्यवहारपरो ऽपि सन् ।
विगतज्वर एवान्तर् अनाकुलमतिस् सदा ॥

5.75.2

पितामहो दिलीपस् ते सर्वारम्भपरो ऽप्य् अलम् ।
वीतरागतयैवान्तर् बुभुजे मेदिनीं चिरम् ॥

5.75.3

जीवन्मुक्ताकृतिर् नित्यम् अजो राज्यम् अपालयत् ॥

5.75.4

विचित्रबलयुद्धेषु व्यवहारेषु भूरिषु ।
मान्धाता सुचिरं तिष्ठंस् त्यक्तवान् न परं पदम् ॥

5.75.5

बडिः पातालपीठस्थः कुर्वन् स्वां दिवसस्थितिम् ।
सदात्यागी सदासक्तो जीवन्मुक्तपदे स्थितः ॥

5.75.6

नमुचिर् दानवाधीशो देवद्वन्द्वपरस् सदा ।
नानाचारविहारेषु क्वचिन् नान्तर् अतप्यत ॥

5.75.7

वासवाजौ तनुत्यागी वृत्रो विततमानसः ।
अन्तश्शीतमना मानी चकार सुरसङ्गरम् ॥

5.75.8

कुर्वन् दानवकार्याणि पातालतलपालकः ।
अनपायं निराक्रोशं प्रह्लादो ह्लादम् आगतः ॥

5.75.9

शम्बरैकपरो ऽप्य् अन्तश् शम्बरैकतयोदितः ।
संसारशम्बरं राम शम्बरस् त्यक्तवान् इदम् ॥

5.75.10

असक्तबुद्धिर् हरिणा कुर्वन् दानवसङ्गरम् ।
परां संविदम् आसाद्य मुसलस् त्यक्तवांस् तनुम् ॥

5.75.11

सर्वामरमुखं वह्निः क्रियाजालपरो ऽप्य् अति ।
यज्ञलक्ष्मीं चिरं भोक्तुं मुक्त एवेह तिष्ठति ॥

5.75.12

पीयमानस् सुरैस् सर्वैस् सोमस् समरसाशयः ।
क्वचिद् एति न संसङ्गम् आक्रान्तो ऽप्य् अम्बरं यथा ॥

5.75.13

बृहस्पतिर् देवगुरुर् दारार्थं चन्द्रयोध्य् अपि ।
आचरन् दिवि चित्रेहामुक्त एव व्यवस्थितः ॥

5.75.14

शुक्रो ऽम्बरतलोद्द्योती लब्धसर्वार्थपालकः ।
निर्विकारमतिः कालं नयत्य् असुरदैशिकः ॥

5.75.15

जगद्भूतगणाङ्गानि चिरं सञ्चारयन्न् अपि ।
सर्वदा सर्वसञ्चारी मुक्त एव समीरणः ॥

5.75.16

लोकाजवञ्जवीभावे प्रोद्वेगार्हो ऽप्य् अखिन्नधीः ।
ब्रह्मा सममना राम क्षपयत्य् आयुर् आयतम् ॥

5.75.17

जरामरणयुद्धादिद्वन्द्वपञ्जरलीलया ।
चरतीह चिरं कालं मुक्तो ऽपि भगवान् हरिः ॥

5.75.18

मुक्तेनापि त्रिनेत्रेण सौन्दर्यतरुमञ्जरी ।
देहार्धे धार्यते गौरी कामुकेनेव कामुकी ॥

5.75.19

मुक्तयापि गले बद्धो गौर्या गौरस् त्रिलोचनः ।
सुशुद्ध इव मुक्तानां गणश् शशिकलामलः ॥

5.75.20

गुहो गहनधीर् वीरस् तारकादिरणक्रमम् ।
मुक्तो ऽपि कृतवान् सर्वज्ञानरत्नैकसागरः ॥

5.75.21

भृङ्गीशो रक्तमांसं स्वं स्वमात्रे प्रवितीर्णवान् ।
मुक्तयैव धिया राम धीरया ध्यानधौतया ॥

5.75.22

मुनिर् मुक्तस्वभावो ऽपि जगज्जङ्गलखण्डकम् ।
नारदो विजहारेमं लीलया कार्यशीलया ॥

5.75.23

जीवन्मुक्तमना मानी विश्वामित्रस् स्वयं प्रभुः ।
वेदोक्तां मखनिर्माणक्रियां समधितिष्ठति ॥

5.75.24

धारयत्य् अवनिं शेषः करोत्य् अर्को दिनावलीम् ।
यमो यमत्वं कुरुते जीवन्मुक्ततयैव हि ॥

5.75.25

अन्ये ऽप्य् अस्मिंस् त्रिभुवने यक्षामरनरासुराः ।
शतशो मुक्ततां यातास् सन्तस् तिष्ठन्ति संसृतौ ॥

5.75.26

संस्थिता व्यवहारेषु विविधाचारधारिषु ।
अन्तराशीतलाः केचित् केचिन् मूढाश् शिलासमाः ॥

5.75.27

परमं बोधम् आसाद्य केचित् काननम् आगताः ।
यथा भृगुभरद्वाजविश्वामित्रसहादयः ॥

5.75.28

केचित् राज्येषु तिष्ठन्ति च्छत्त्रचामरमालिताः ।
यथा जनकशर्यातिमान्धातृमगधादयः ॥

5.75.29

केचिद् व्योमनि तिष्ठन्ति धिष्ण्यचक्रान्तरस्थिताः ।
यथा बृहस्पत्युशनश्चन्द्रसूर्यमुनीश्वराः ॥

5.75.30

केचित् सुरपदं याता विमानावलिम् आस्थिताः ।
यथाग्निवायुवरुणयमतुम्बुरुनारदाः ॥

5.75.31

केचित् पातालकुहरे जीवन्मुक्ता व्यवस्थिताः ।
यथा बडिसुहोत्रान्धप्रह्लादह्लादपूर्वकाः ॥

5.75.32

तिर्यग्योनिष्व् अपि सदा वर्तन्ते कृतबुद्धयः ।
देवयोनिष्व् अपि प्राज्ञ वर्तन्ते मूर्खबुद्धयः ॥

5.75.33

सर्वं सर्वेण सर्वत्र सर्वथा सर्वदैव हि ।
सम्भवत्य् एव सर्वात्मन्य् आत्मनात्मस्वरूपिणि ॥

5.75.34

विधेर् विचित्रा नियतिर् अनन्तारम्भमन्थरा ।
सन्निवेशांशवैचित्र्यात् सर्वं सर्वत्र दृश्यते ॥

5.75.35

विधिर् दैवं विभुर् धाता सर्वेशश् शिव ईश्वरः ।
इति नामभिर् आत्मान्तः प्रत्यक्चेतन उच्यते ॥

5.75.36

अस्त्य् अवस्तुनि वस्त्व् अन्तः काञ्चनं सिकतास्व् इव ।
अस्ति वस्तुन्य् अवस्त्व् अन्तर् मलं हेमकणेष्व् इव ॥

5.75.37

अयुक्ते युक्तता युक्त्या प्रेक्ष्यमाणा प्रदृश्यते ।
पापस्य हि भयाल् लोको धर्मे राम प्रवर्तते ॥

5.75.38

असत्ये सत्यता साधो शाश्वती परिलक्ष्यते ।
शून्येन ध्यानयोगेन शाश्वतं पदम् आप्यते ॥

5.75.39

यन् नास्ति तद् उदेत्य् आशु देशकालविलासतः ।
शशकाश् शृङ्गवन्तो हि दृश्यन्ते शम्बरस्थितौ ॥

5.75.40

ये वज्रसारास् सुदृढा दृश्यन्ते ते क्षयं गताः ।
कल्पस्यान्ते यथेन्द्वर्कधराब्धिविबुधाद्रयः ॥

5.75.41

इति पश्यन् महाबाहो भावाभावभवक्रमम् ।
हर्षामर्षविषादेहास् सन्त्यज्य समतां व्रज ॥

5.75.42

असत् सद् अवभातीह सद् असच् चापि दृश्यते ।
आस्थानास्थे परित्यज्य तेनाशु समतां व्रज ॥

5.75.43

मुक्तौ राघव लोके ऽस्मिन् न प्राप्तिस् सम्भवत्य् अलम् ।
अप्रवृत्त्या विवेकस्य मग्ना हि जनकोटयः ॥

5.75.44

मुक्तौ राघव लोके ऽस्मिन् प्राप्तिर् अस्ति सदैव हि ।
प्रवृत्त्या हि विवेकस्य मुक्ताश् च जनकोटयः ॥

5.75.45

प्रविवेकाविवेकाभ्यां सुलभालभ्यतां गता ।
मुक्तिर् मनःक्षयप्राप्त्या विवेकं तेन दीपय ॥

5.75.46

आत्मावलोकने यत्नः कर्तव्यो भूतिम् इच्छता ।
सर्वदुःखशिरश्छेद आत्मालोकेन जायते ॥

5.75.47

नीरागा निरुपासङ्गा जीवन्मुक्ता महाधियः ।
सम्भवन्तीह बहवस् सुहोत्रजनका इव ॥

5.75.48

तस्मात् त्वम् अपि वै राम विवेकोदितधीरधीः ।
जीवन्मुक्तो विहर भोस् समलोष्टाश्मकाञ्चनः ॥

5.75.49

द्विविधा मुक्तता लोके विद्यते देहधारिणाम् ।
सदेहैका विदेहान्या विभागो ऽयं तयोश् शृणु ॥

5.75.50

असंसङ्गात् पदार्थानां मनश्शान्तिर् हि मुक्तता ।
सत्य् असत्य् अपि देहे सा सम्भवत्य् अनघाकृते ॥

5.75.51

स्नेहसङ्क्षयम् एवाङ्ग विदुः कैवल्यम् उत्तमाः ।
तत् सम्भवति देहस्य भावे चाभाव एव च ॥

5.75.52

यो जीवति गतस्नेहं स जीवन्मुक्त उच्यते ।
सस्नेहजीवितो बद्धो मुक्त एव तृतीयकः ॥

5.75.53

यत्नो यत्नेन कर्तव्यो मोक्षार्थं युक्तिपूर्वकम् ।
यत्नयुक्तिविहीनस्य गोष्पदं दुस्तरं भवेत् ॥

5.75.54

न त्व् अनध्यवसायस्य दुःखाय विपुलात्मने ।
आत्मा परवशः कार्यो मोहम् आश्रित्य केवलम् ॥

5.75.55

सुमहद् धैर्यम् आलम्ब्य मनसा व्यवसायिना ।
विचारयात्मनात्मानम् आत्मनश् चिरसिद्धये ॥

5.75.56

वितताध्यवसायस्य जगद् भवति गोष्पदम् ।
विहताध्यवसायस्य गोष्पदं वै जगद् भवेत् ॥

5.75.57

यद् उपगतस् सुगतः परं प्रधानं यद् उपगतो ध्रुवतां नृपश् च कश्चित् ।
यद् उपगताः पदम् उत्तमं महान्तः प्रयतनकर्मतरोर् महाफलं तत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc