भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.74

5.74.1

लीलयापश्यति वपुः कलनात्मनि जायते ।
रम्यस्यापश्यतो वक्त्रं हृदि दौरूप्यधीर् इव ॥

5.74.2

तद्वशाद् इयम् आयाता महती मेदुरोदरा ।
माया मदमहाशक्तिस् सुरास्वादलवाद् इव ॥

5.74.3

तयानया विकारिण्या तदतद्भावभूतया ।
इदं सम्पन्नम् अखिलं तापाद् इव मरौ पयः ॥

5.74.4

मनो बुद्धिर् अहङ्कारो वासनाश् चेन्द्रियाण्य् अपि ।
एवङ्कल्पितनामाङ्कस् स्फुरत्य् आत्माब्धिर् अम्बुभिः ॥

5.74.5

चित्ताहङ्कारयोर् द्वित्वं वचस्य् अस्ति न वस्तुतः ।
यच् चित्तं स ह्य् अहङ्कारो यो ऽहङ्कारो मनो हि तत् ॥

5.74.6

व्यतिरिक्तं हिमाच् छौक्ल्यम् इति सङ्कल्प्यते यथा ।
मुधैव कल्प्यते भेदश् चित्ताहङ्कारयोस् तथा ॥

5.74.7

मनोऽहङ्कारयोर् अन्तर् द्वयोर् एकतरक्षये ।
क्षीणे द्वे एव हि यथा पटशौक्ल्ये पटक्षये ॥

5.74.8

तुच्छां मोक्षधियं त्यक्त्वा बन्धबुद्धिं तथैषणाः ।
सुवैराग्यविवेकाभ्यां केवलं क्षपयेन् मनः ॥

5.74.9

मोक्षो मे ऽस्त्व् इति चिन्ता चेज् जाता तद् व्युत्थितं मनः ।
मननोत्के मनस्य् उच्चैर् वपुर् दोषाय केवलम् ॥

5.74.10

आत्मन्य् अतीते सर्वस्मात् सर्वरूपे ऽथ वा तते ।
को बन्धः कश् च वा मोक्षो निर्मूलं मननं कुतः ॥

5.74.11

वायुस् स्पन्दनधर्मत्वाद् यदा लगति देहके ।
तदा स्फुरति हस्ताङ्गरसनापल्लवावली ॥

5.74.12

पादपे पल्लवश्रेणीं चालयत्य् अनिलो यथा ।
तथैवाङ्गावलीं वायुर् देहे सञ्चालयत्य् अलम् ॥

5.74.13

चित् सर्वव्यापिनी सूक्ष्मा न चला न च चाल्यते ।
न स्वतस् स्पन्दम् आयाति देवाचल इवानिलैः ॥

5.74.14

प्रतिबिम्बितसर्वार्था केवलं स्वात्मनि स्थिता ।
प्रकाशयति बोधेन जगन्तीमानि दीपवत् ॥

5.74.15

तत्र को ऽयं मुधा मोहो भवताम् अतिदुःखदः ।
अयं सो ऽहं ममाङ्गानि ममेदं चेति दुर्धियाम् ॥

5.74.16

अनिच्छलोलत्वान् नुन्नदृषदारावराशिवत् ।
ज्ञत्वकर्तृत्वभोक्तृत्वक्रिया समुपलभ्यते ॥

5.74.17

तत्रायम् आत्मा सम्मन्ता भोक्ता कर्तेति जायते ।
मुधैवाज्ञानतापोत्था मृगतृष्णेव वासना ॥

5.74.18

अज्ञातैषा मनोमत्तमृगं विषयतर्षुलम् ।
असत्यैव हि सत्येव मृगतृष्णेव कर्षति ॥

5.74.19

विज्ञाता सत्यरूपेयं नाशं याति पलायते ।
विप्रमध्यात् परिज्ञाता यथा चण्डालकन्यका ॥

5.74.20

अविद्या सम्परिज्ञाता न मनः परिकर्षति ।
मृगतृष्णा परिज्ञाता तर्षुलं नापकर्षति ॥

5.74.21

परमार्थावबोधेन समूलं राम वासना ।
दीपेनेवान्धकारश्रीर् गलत्य् आलोक एति च ॥

5.74.22

नास्त्य् अविद्येति सञ्जाते निश्चये शास्त्रयुक्तितः ।
गलत्य् अविद्या तापेन तुषारकणिका यथा ॥

5.74.23

देहस्यास्य जडस्यार्थे किं भोगैर् इति निश्चयी ।
भिनत्त्य् आशामयं ज्ञानी पञ्जरं केसरी यथा ॥

5.74.24

आशापरिकरे राम नूनं परिहृते हृदः ।
पुमान् आगतसौन्दर्यो ह्लादम् आयाति चन्द्रवत् ॥

5.74.25

परां शीतलताम् एति वृष्टिधौत इवाचलः ।
निर्वृतिं परमां धत्ते प्राप्तराज्य इवाधनः ॥

5.74.26

शोभते ऽमलया लक्ष्म्या शरदीव नभस्तलम् ।
आत्मन्य् एव न मात्य् उच्चैः कल्पस्यान्त इवार्णवः ॥

5.74.27

भवत्य् अपेतसंरम्भो वृष्टमूक इवाम्बुदः ।
तिष्ठत्य् आत्मनि संवेत्ता प्रशान्त इव वारिधिः ॥

5.74.28

परं धैर्यम् उपादत्ते स्थैर्यं मेरुर् इवाचलः ।
राजते स्वस्थया लक्ष्म्या शान्तेन्धन इवानलः ॥

5.74.29

भवत्य् आत्मनि निर्वाणः प्रशान्त इव दीपकः ।
दृष्टिम् आयाति परमां नरः पीतामृतो यथा ॥

5.74.30

अन्तर्दीपो घट इव मध्यज्वाल इवानलः ।
स्फुरद्दीप्तिर् मणिर् इव प्रयात्य् अन्तः प्रकाशताम् ॥

5.74.31

सर्वात्मकं सर्वगतं सर्वेशं सर्वनायकम् ।
सर्वाकारं निराकारं स्वम् आत्मानं प्रपश्यति ॥

5.74.32

हसत्य् अलम् अतीतास् ताः पेलवा दिवसावलीः ।
यासु स्मरशरश्रेणीचपलं चित्तम् अच्छिनत् ॥

5.74.33

सङ्गरङ्गविनिष्क्रान्तश् शान्तमानमनोज्वरः ।
अध्यात्मरतिर् आसीनः पूर्णपावनमानसः ॥

5.74.34

निर्मृष्टकामपङ्काङ्कश् छिन्नजन्मनिबन्धनः ।
द्वन्द्वदोषभयोन्मुक्तस् तीर्णसंसारसागरः ॥

5.74.35

प्राप्तानुत्तमविश्रान्तिर् लब्धालभ्यपदास्पदः ।
अनिवर्तिपदं प्राप्तः कर्मणाम् अन्तम् आगतः ॥

5.74.36

सर्वाभिवाञ्छितारम्भो न किञ्चिद् अपि वाञ्छति ।
सर्वानुमोदितानन्दो न किञ्चिद् अनुमोदते ॥

5.74.37

न ददाति न चादत्ते न स्तौति न च निन्दति ।
नास्तम् एति न चोदेति न तुष्यति न शोचति ॥

5.74.38

सर्वारम्भफलत्यागी सर्वोपाधिविवर्जितः ।
सर्वाशासम्परित्यागी जीवन्मुक्त इति स्मृतः ॥

5.74.39

सर्वैषणाः परित्यज्य चेतसा भव मौनवान् ।
धारा निरवशेषेण यथा त्यक्त्वा पयोधरः ॥

5.74.40

तथा न सुखयत्य् अङ्गसंलग्ना वरवर्णिनी ।
यथा सुखयति स्वान्तम् इन्दुशीता निराशता ॥

5.74.41

न तथेन्दुस् सुखयति कण्ठलग्नो ऽपि राघव ।
नैराश्यं सुखयत्य् अन्तर् यथा सकलशीतलम् ॥

5.74.42

पुष्पघूर्णन्नवलतो न तथा राजते मधुः ।
यथोदारमतिर् मौनी नैराश्यसममानसः ॥

5.74.43

न हिमाद्रेर् न मुक्ताभ्यो न रम्भाभ्यो न चन्दनात् ।
न तच् चन्द्रमसश् शैत्यं नैराश्याद् यद् अवाप्यते ॥

5.74.44

अपि राज्याद् अपि स्वर्गाद् अपीन्दोर् अपि माधवात् ।
अपि कान्तासमासङ्गान् नैराश्यं परमं सुखम् ॥

5.74.45

तृणवन् नोपकुर्वन्ति यया त्रिभुवनश्रियः ।
सा परा निर्वृतिस् साधो नैराश्याद् उपलभ्यते ॥

5.74.46

आशाकरञ्जपरशुं पराया निर्वृतेः पदम् ।
पुष्पगुच्छं शमतरोर् आलम्बस्व निराशताम् ॥

5.74.47

गोष्पदं पृथिवी मेरुस् स्थाणुर् आशास् समुद्गिकाः ।
तृणं त्रिभुवनं राम नैराश्यालङ्कृताकृतेः ॥

5.74.48

दानादानसमाहारविहारविभवादिकाः ।
क्रिया जगति हस्यन्ते निराशैः पुरुषोत्तमैः ॥

5.74.49

पदं यस्य न बध्नाति कदाचित् कलना हृदि ।
तृणीकृतत्रिभुवनः केनासाव् उपमीयते ॥

5.74.50

इदम् एवास्त्व् इदं मास्तु ममेति हृदि रञ्जना ।
न यस्यास्ति तम् आत्मेशं तोलयन्ति कथं जनाः ॥

5.74.51

सर्वसङ्कटपर्यन्तम् असङ्कटमलं सुखम् ।
सौभाग्यं परमं बुद्धेर् नैराश्यम् अवलम्ब्यताम् ॥

5.74.52

न शास्तेह त्वम् आशानां विद्धि मिथ्याभ्रमं जगत् ।
वहद्रथस्थदिक्चक्रनेम्यावर्तवद् उत्थितम् ॥

5.74.53

किं मुह्यसि महाबाहो मूर्खवत् पण्डितो ऽपि सन् ।
ममेदं तद् अयं सो ऽहम् इत्य् उद्भ्रान्तेन चेतसा ॥

5.74.54

आत्मैवेदं जगत् सर्वं नानातेह न विद्यते ।
एकरूपं जगज् ज्ञात्वा धीरै राम न खिद्यते ॥

5.74.55

यथाभूतपदार्थौघदर्शनाद् एव राघव ।
परमाश्वासनं बुद्धेर् नैराश्यम् अधिगम्यते ॥

5.74.56

भावाभावविसंवादमुक्तम् आद्यन्तयोस् स्थितम् ।
यद् रूपं तत् समालम्ब्य पदार्थानां स्थितिं कुरु ॥

5.74.57

नैराश्यधीरमनसो मायेयम् अतिमोहिनी ।
पलाय्य याति संसारी मृगी केसरिणो यथा ॥

5.74.58

कान्ताम् उद्दाममदनां लोलां वनलताम् अपि ।
जर्जरोपलपालीं च समं पश्यति धीरधीः ॥

5.74.59

भोगा नानन्दयन्त्य् अन्तः खेदयन्ति न चापदः ।
दृश्यश्रियो हरन्त्य् अङ्ग न ज्ञम् अद्रिम् इवानिलाः ॥

5.74.60

रक्तबालाङ्गनस्यापि ज्ञस्योदारधियो मुनेः ।
कणशः खण्डतां यान्ति मनसि स्मरसायकाः ॥

5.74.61

रागद्वेषैस् स्वरूपज्ञो नावशः परिकृष्यते ।
स्पर्श एवास्य नैताभ्यां किम् उताक्रमणं भवेत् ॥

5.74.62

समदृष्टलतालोलवनिताद्रिशिलादिषु ।
रमते नैष भोगेषु पान्थो मरुमहीष्व् इव ॥

5.74.63

अयत्नोपनतं सर्वं लीलया मुक्तमानसः ।
भुङ्क्ते भोगभरं प्राज्ञस् त्व् आलोकम् इव लोचनम् ॥

5.74.64

काकतालीयवत् प्राप्ता भोगाली ललनादिका ।
सेविताप्य् अङ्ग धीरस्य न दुःखाय न तुष्टये ॥

5.74.65

सम्यग्दृष्टपदार्थं ज्ञं सुखदुःखगती मनाक् ।
द्वे वीच्याव् इव शैलेन्द्रं क्षोभं नेतुं न शक्नुतः ॥

5.74.66

हेलयालोकयन् भोगान् मृदुर् दान्तो गतज्वरः ।
स्वम् एव पदम् आलम्ब्य सर्वभूतान्तरस्थितम् ॥

5.74.67

ज्ञस् तिष्ठति गतव्यग्रं व्यग्रयापि समन्वितः ।
जगन्ति जनयन्न् एव ब्रह्मेवात्मपरायणः ॥

5.74.68

आपतत्सु यथाकामं यथाकालं यथाक्रमम् ।
सुखदुःखेषु न क्षोभम् एति भूभृद् ऋतुष्व् इव ॥

5.74.69

मज्जतो ऽपि बहुज्ञस्य राम कर्मेन्द्रियक्रमैः ।
असक्तमनसो नित्यं न किञ्चिद् अपि मज्जति ॥

5.74.70

कलङ्क्य् अन्तःकलङ्केन प्रोच्यते हेम नान्यथा ।
भावासक्त्या समासक्त उक्तो जन्तुर् हि नान्यथा ॥

5.74.71

शरीरात् प्रविविक्तं स्वं पश्यतः प्रविवेकिनः ।
विकर्तिताङ्गकस्यापि न किञ्चित् प्रविकर्तितम् ॥

5.74.72

सकृत्प्रभातं विमलं यज् ज्ञातं ज्ञातम् एव तत् ।
न हि बन्धुः परिज्ञातः पुनर् अज्ञाततां व्रजेत् ॥

5.74.73

सर्पभ्रान्तौ निवृत्तायां न रज्ज्वां सर्पभावना ।
पुनर् एति यथा प्रावृण्नदी गिरितटच्युता ॥

5.74.74

न हेम तापशुद्धाङ्गं स्वाभासम् अलम् आगतम् ।
कर्दमे मग्नम् अपि सत् समादत्ते मलं पुनः ॥

5.74.75

क्षीणे स्वहृदयग्रन्थौ न बन्धो ऽस्ति पुनर् गुणैः ।
यत्नेनापि पुनर् बद्धं केन वृन्ते च्युतं फलम् ॥

5.74.76

अयश्छेदविचाराभ्याम् अभितः खण्डशो गतम् ।
पाषाणं च मनश् चैव सन्धातुं कस्य शक्तता ॥

5.74.77

विज्ञातायाम् अविद्यायां कः पुनः परिमज्जति ।
परिज्ञाय श्वपाकानां यात्रां कः प्रेक्षते द्विजः ॥

5.74.78

सुधाम्भसि यथा क्षीरधीर् विचारान् निवर्तते ।
संसारवासना तद्वद् धीविचारान् निवर्तते ॥

5.74.79

मध्वम्बुशङ्कया तावद् विषवारि प्रपीयते ।
यावत् तन् न परिज्ञातं परिज्ञातं विहीयते ॥

5.74.80

रूपलावण्ययुक्तापि चित्रकान्तेव कामिनी ।
द्रव्यमात्रसमारम्भात् तत्त्वविद्भिर् विलोक्यते ॥

5.74.81

यथा मषीकुसुम्भादि स्त्रियाश् चित्रे तथैव हि ।
जीवन्त्या अपि केशोष्ठं कस् तां प्रति किल ग्रहः ॥

5.74.82

अनुभूतो गुडस् स्वादुर् अपि दाहविकर्तनैः ।
न शक्यते ऽन्यथा कर्तुं तत्त्वालोकस् तथात्मनः ॥

5.74.83

परव्यसनिनी नारी व्यग्रापि गृहकर्मणि ।
तद् एवास्वादयत्य् अन्तर् नवसङ्गरसायनम् ॥

5.74.84

एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिम् आगतः ।
न शक्यते चालयितुं देवैर् अपि सहासुरैः ॥

5.74.85

परव्यसनिनी नारी केन भर्त्रा बलीयसा ।
विस्मारिता स्वसङ्कल्पकान्तसङ्गमहोत्सवम् ॥

5.74.86

जगत् समरसानन्तचिदालोकावलम्बनम् ।
केन विस्मार्यते बुद्धिस् तत्त्वज्ञस्य महात्मनः ॥

5.74.87

समग्रसुखदुःखाभ्यां व्यवहारम् अखण्डितम् ।
कुर्वन् गुरुजनायत्तो भर्तृश्वशुरखेदितः ॥

5.74.88

यथा सङ्कल्पकान्तेन भवत्य् आनन्दमन्थरः ।
वधूलोको व्यसनवान् दुःखजालैर् न खेद्यते ॥

5.74.89

तथा विगलिताविद्यो व्यवहारपरो ऽपि सन् ।
सम्यग्दृष्टिसमाचारो मुदम् एत्य् अन्तर् आत्मना ॥

5.74.90

छिद्यते न निकृत्ताङ्गो गलदस्रुर् न रोदिति ।
दह्यते न प्रदग्धो ऽपि नष्टो ऽपि न विनश्यति ॥

5.74.91

व्यपगतसुखदुःखसन्निपातो विधिविधुरेष्व् अपि सङ्कटेष्व् अखिन्नः ।
निवसतु सदने पुरोत्तमे वा विततगिरौ विपिने तपोवने वा ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc