भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.73

5.73.1

एवंविचारया दृष्ट्या द्वैतत्यागेन राघव ।
स्वो भावः प्राप्यते तज्ज्ञैस् तज्ज्ञैश् चिन्तामणिर् यथा ॥

5.73.2

अथेमाम् अपरां दृष्टिं शृणु रामानया यथा ।
द्रक्ष्यस्य् आत्मानम् अचलं भविष्यसि च दिव्यदृक् ॥

5.73.3

अहं खम् अहम् आदित्यो दिशो ऽहम् अहम् अप्य् अधः ।
अहं दैत्या अहं देवाश् शैलाश् चाहम् अहं महः ॥

5.73.4

तमो ऽहम् अहम् अभ्राणि भूसमुद्रादिकं त्व् अहम् ।
रजो वायुर् अथाग्निश् च जगत् सर्वम् इदं त्व् अहम् ॥

5.73.5

जगत्त्रये ऽहं सर्वत्र स आत्मैव किल स्थितः ।
को ऽहं किम् अन्यद् इह हि द्वित्वम् एकस्य कीदृशम् ॥

5.73.6

इति निश्चयवान् अन्तर् नूनम् आत्मतया जगत् ।
पश्यन् हर्षविषादाभ्यां नावशः परिभूयते ॥

5.73.7

मन्मये ऽस्मिन् किल जगत्य् अखिले संस्थिते ऽनघ ।
किम् आत्मीयं परं किं स्यात् कमलेक्षण कथ्यताम् ॥

5.73.8

किं तज्ज्ञव्यतिरेकेण विद्यते यद् उपागमे ।
हर्षम् एतु विषादं वा विनाशे ज्ञो जगन्मयः ॥

5.73.9

अहङ्कारदृशाव् एते सात्त्विके द्वे विनिर्मले ।
तत्त्वज्ञानात् प्रवर्तेते मोक्षदे पारमार्थिके ॥

5.73.10

परो ऽणुस् सकलातीतरूपो ऽहं त्व् इत्य् अहङ्कृतिः ।
प्रथमा सर्वम् एवाहम् इत्य् अन्योक्ता रघूद्वह ॥

5.73.11

अहङ्कारदृग् अन्या तु तृतीया विद्यते ऽनघ ।
देहो ऽहम् इति तां विद्धि दुःखायैव न शान्तये ॥

5.73.12

अथ वैतत् त्रयम् अपि त्यक्त्वा सकलसिद्धये ।
यथेच्छं तद् उपालम्ब्य तिष्ठावष्टब्धतत्पदः ॥

5.73.13

सर्वातीतस्वरूपो ऽपि सर्वसत्तातिगो ऽपि च ।
स्वसत्तापूरितजगद् अस्त्य् एवात्मा प्रकाशकः ॥

5.73.14

स्वानुभूत्यैव पश्याशु स एवासि सदोदितः ।
संशयं हृदयग्रन्थिं त्यज तत्त्वविदां वर ॥

5.73.15

नात्मास्त्य् अनुमया राम न चाप्तवचनादिना ।
सर्वदा सर्वथा सर्वं स प्रत्यक्षानुभूतितः ॥

5.73.16

यद् इदं दर्शनं स्पन्दः किञ्चिद् यत् संविदाद्य् अपि ।
तत् सर्वम् आत्मा भगवान् दृश्यदर्शनवर्जितः ॥

5.73.17

न सन् नासद् असौ देवो नाणुर् नापि महान् असौ ।
नाप्य् एतयोर् दृशोर् मध्यं स एवेदं च सर्वशः ॥

5.73.18

स एवेदं च वदति स च वक्तुं न युज्यते ।
न तदन्यद् इदं नैतत् पश्य मायाम् अनामयाम् ॥

5.73.19

नात्मायम् अयम् अप्य् आत्मा सञ्ज्ञाभेद इति स्वयम् ।
तेनैव सर्वगतया शक्त्या स्वात्मनि कल्पितः ॥

5.73.20

संस्थितस् स हि सर्वत्र त्रिषु कालेषु भासुरः ।
सूक्ष्मत्वात् सुमहत्त्वाच् च केवलं न विभाव्यते ॥

5.73.21

सत्स्व् अनन्तपदार्थेषु जीवत्वेनाभिबिम्बति ।
आत्मा पुर्यष्टकादर्शे स्वभाववशतस् स्वतः ॥

5.73.22

पुर्यष्टकोदयाद् एव स्वयम् आत्मानुभूयते ।
सर्वदा सर्वसंस्थः खे घनस्पन्दाद् इवानिलः ॥

5.73.23

चिदात्मा सर्वगो व्यापी न क्वचिन् नाम न स्थितः ।
यद्वत् सर्वपदार्थानां सत्ता तद्वन् महेश्वरः ॥

5.73.24

सति पुर्यष्टके तस्मिञ् जीवस् स्फुरति नोपलः ।
सति वायाव् इव रजस् सति दीप इवेक्षणम् ॥

5.73.25

इयं पुर्यष्टकस्येच्छा स्वात्मन्य् एवात्मनि स्थिते ।
सति स्फुरत्य् अभ्युदिते भानाव् इव जनैषणा ॥

5.73.26

यदि सूर्ये स्थिते व्योम्नि तद्वशोदितसंस्थितिः ।
नश्यति व्यवहारो ऽयं भास्वतः किम् उपागतम् ॥

5.73.27

यद्य् आत्मनि स्थिते देवे तत्सत्तालब्धसंस्थितिः ।
देहो नाशम् उपायाति तत् किम् उन्नष्टम् आत्मनः ॥

5.73.28

न जायते न म्रियते नाभिवाञ्छति नोज्झति ।
न मुक्तो न च बद्धो ऽयम् आत्मा सर्वस्य सर्वदा ॥

5.73.29

आत्मावबोधाभ्युदिता निरात्मन्य् आत्मतां गता ।
सर्परज्जुभ्रमाकारा भ्रान्तिर् दुःखाय केवलम् ॥

5.73.30

अनादित्वान् न जातो ऽयम् अजातत्वान् न नश्यति ।
आत्मात्मव्यतिरिक्तं तु नाभिवाञ्छत्य् असम्भवात् ॥

5.73.31

दिक्कालाद्यनवच्छेदान् न बद्धो ऽयं कदाचन ।
बन्धाभावे ऽप्य् अमुक्तिस् स्याद् अमोक्षस् तेन स स्मृतः ॥

5.73.32

एवङ्गुणविशिष्टो ऽयम् आत्मा सर्वस्य राघव ।
अविचारवशान् मूढो लोको ऽयं परिरोदिति ॥

5.73.33

सम्यगालोकिताशेषपूर्वापरजगत्क्रमः ।
मा शोकं गच्छ सुमते मौर्ख्योपहतलोकवत् ॥

5.73.34

द्वे एव कलने त्यक्त्वा मोक्षबन्धात्मिके सदा ।
विदुषा व्यवहर्तव्यं यन्त्रेणेवात्ममौनिना ॥

5.73.35

न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
मोक्षो हि चेतो विमलं सम्यग्ज्ञानावबोधितम् ॥

5.73.36

सकलाशास्व् असंसक्त्या यस् स्वयं चेतसः क्षयः ।
स मोक्षनाम्ना कथितस् तत्त्वज्ञैर् आत्मदर्शिभिः ॥

5.73.37

यावत् प्रबोधो विमलो नोदितस् तावद् एव सः ।
मौर्ख्यदीनतया राम भक्त्या मोक्षो ऽभिवाञ्छ्यते ॥

5.73.38

चिरं प्रबोधम् आसाद्य चित्ते ऽवितततां गते ।
दश मोक्षा न वाञ्छ्यन्ते किम् उतैको हि मोक्षकः ॥

5.73.39

अयं मोक्षस् त्व् अयं बन्धः पेलवां कलनाम् इमाम् ।
परित्यज्य महात्यागी त्वं त्वम् एव भवाभवः ॥

5.73.40

परिगलितविकल्पतां प्रयातस् सगरसुतौघनिखातमेखलाङ्कम् ।
अवनिवलयम् अन्तरस्तसङ्गश् चिरम् अनुपालय सर्वदोदितश्रीः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc