भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.72

5.72.1

देहे जाते न जातो ऽसि देहे नष्टे न नश्यसि ।
त्वम् आत्मा निष्कलङ्कात्मा देहस् तव न कश्चन ॥

5.72.2

यः कुण्डबदरन्यायो या घटाकाशसंस्थितिः ।
तत्रैकस्मिन् क्षते क्षीणे द्वे इति व्यर्थकल्पना ॥

5.72.3

विनाशिनि विनष्टे ऽस्मिन् देहे स्वां स्थितिम् आगते ।
विनश्यामीति यः खेदी तं धिग् अस्त्व् अन्धचेतनम् ॥

5.72.4

यादृशो रश्मिरथयोस् स्नेहोद्वेगविवर्जितः ।
सम्बन्धस् तादृशो देहचित्तेन्द्रियसुखैश् चितः ॥

5.72.5

गतेतरेतरापेक्षस् सरःपङ्कोपलाम्भसाम् ।
यथा राघव सम्बन्धस् तथा देहेन्द्रियात्मनाम् ॥

5.72.6

यादृशो ऽब्धिधराद्यानां निरिच्छापरिदेवनः ।
संयोगो विप्रयोगश् च तादृशो देहदेहिनाम् ॥

5.72.7

यथा कल्पितवेतालविकारभयभीतयः ।
मिथ्यैव कल्पिता एते तथा स्नेहसुखादयः ॥

5.72.8

भूतपञ्चकसम्पिण्डाद् रचिता जनताः पृथक् ।
एकस्माद् एव विटपाद् विचित्रा इव पुत्रिकाः ॥

5.72.9

काष्ठेतरत् काष्ठनरे किञ्चिद् अन्यन् न विद्यते ।
भूतपिण्डेतरद् देहे किञ्चिद् अन्यन् न विद्यते ॥

5.72.10

भूतपञ्चकविक्षोभनाशोत्पादेषु हे जनाः ।
हर्षामर्षविषादानां किं भवन्तो वशं गताः ॥

5.72.11

को नामातिशयः पुंसां स्त्रीनाम्न्य् अपरनाम्नि वा ।
केवले भूतसङ्घाते प्रोद्भूते ऽर्जुनवातवत् ॥

5.72.12

सन्निवेशांशवैचित्र्यम् अज्ञानाम् एव तुष्टये ।
तज्ज्ञानां तु यथाभूतभूतपञ्चकदर्शनम् ॥

5.72.13

मिथश् शिलापुत्रिकयोर् यथैकोपलसंस्थयोः ।
श्लिष्टयोर् अपि नो रागस् तथा चित्तशरीरयोः ॥

5.72.14

मृत्पुंसां यादृशो ऽन्योऽन्यम् आशयस् सङ्गमे भवेत् ।
बुद्धीन्द्रियात्ममनसाम् सङ्गमे तादृशो ऽस्तु ते ॥

5.72.15

नान्योऽन्यस्नेहसम्बन्धभाजनं शैलपुत्रिकाः ।
देहेन्द्रियात्मप्राणाश् च कस्यात्र परिदेवना ॥

5.72.16

इतश् चेतश् च यातानि यथा संश्लेषयत्य् अलम् ।
तरङ्गस् तृणजालानि तथा भूतानि भूतकृत् ॥

5.72.17

संयुज्यन्ते वियुज्यन्ते तृणान्य् अब्धिजले यथा ।
मुक्तान्तःकलनं देहभूतान्य् आत्मनि वै तथा ॥

5.72.18

आत्मा चित्ततया देहभूतान्य् आश्लेषयन् स्थितः ।
तृणान्य् आवर्तवृत्त्यान्तःकलनोन्मुक्तम् अम्ब्व् इव ॥

5.72.19

प्रबोधाच् चित्ततां त्यक्त्वा व्रजत्य् आत्मात्मतां स्वयम् ।
स्वस्पन्दवशतो वारि त्यक्त्वावर्तम् इवाच्छताम् ॥

5.72.20

ततो विविक्तं भूतौघं देहसञ्ज्ञं प्रपश्यति ।
वातस्कन्धगतो जन्तुर् वसुधामण्डलं यथा ॥

5.72.21

पृथग्भूतगणं त्यक्त्वा देहातीतो भवत्य् अजः ।
परं प्रकाशम् आयाति सूर्यकान्त इवाहनि ॥

5.72.22

जानात्य् अथात्मनात्मानं मानमेयामयोज्झितम् ।
मुक्तः क्षीवतयेवान्तस् स्वां संविदम् अनुस्मरन् ॥

5.72.23

आत्मैकस् स्पन्दते चित्खे वस्तुजालैर् इवोदितः ।
तरङ्गकणकल्लोलैर् अनन्ताम्ब्व् अम्बुधाव् इव ॥

5.72.24

एवम्प्रायमहाबोधा वीतरागा गतैनसः ।
जीवन्मुक्ताश् चरन्तीह महासत्त्वपदं गताः ॥

5.72.25

यथा कचन्ति विविधैर् मणिरत्नैर् महोर्मयः ।
निरस्तवासनं चित्रैर् व्यवहारैर् नरोत्तमाः ॥

5.72.26

न कूलकाषैर् जलधिर् न रजोभिर् नभस्तलम् ।
न म्लायति निजैर् लोकव्यवहारैर् इहात्मवान् ॥

5.72.27

गतैर् अभ्यागतैस् स्वच्छैर् मलिनैश् चपलैर् जडैः ।
न रागो नाम्बुधेर् द्वेषो भोगैश् चाधिगतात्मनः ॥

5.72.28

यन् मनोमननं किञ्चित् समग्रे जगति स्थितम् ।
तच् चेत्योन्मुखचित्तत्त्वविलासोल्लसनं विदुः ॥

5.72.29

यद् अहं यच् च भूतादि कालत्रितयभावि यत् ।
दृश्यदर्शनसम्बन्धविस्तारस् तद् विजृम्भते ॥

5.72.30

यद् दृश्यं तद् असत् सद् वा दृष्टिम् एकाम् उपाश्रितम् ।
अन्यत् त्व् अलेपकं तस्माद् धर्षशोकदशे कुतः ॥

5.72.31

असत्यम् एवासत्यं हि सत्यं सत्यं सदैव हि ।
सत्यासत्यम् असद् विद्धि तदर्थं किं विमुह्यसि ॥

5.72.32

असम्यग्दर्शनं त्यक्त्वा सम्यक् पश्य सुलोचन ।
न क्वचिन् मुह्यति प्रौढस् सम्यग्दर्शनवान् इह ॥

5.72.33

दृश्यदर्शनसम्बन्धे यत् सुखं पारमार्थिकम् ।
अनुभूतिमयं तस्मात् परं ब्रह्मेति कथ्यते ॥

5.72.34

दृश्यदर्शनसम्बन्धसुखसंविद् अनुत्तमा ।
ददात्य् अज्ञाय संसारं ज्ञाय मोक्षं सुखोदया ॥

5.72.35

दृश्यदर्शनसम्बन्धसुखम् आत्मवपुर् विदुः ।
तद् दृश्यावलितं बद्धं तन्मुक्तं मुक्तम् उच्यते ॥

5.72.36

दृश्यदर्शनसम्बन्धसुखसंविद् अनामया ।
क्षयातिशयमुक्ता चेत् तन् मुक्तिस् सोच्यते बुधैः ॥

5.72.37

दृश्यदर्शनसम्बन्धे यानुभूतिस् स्वगोचरा ।
दृश्यदर्शननिर्मुक्ता ताम् आलम्ब्य भवाभवः ॥

5.72.38

सौषुप्ती दृष्टिर् एषा हि यात्य् एवं सम्प्रकाशताम् ।
एवं च याति तुर्यत्वम् एवं मुक्तिर् इति स्मृता ॥

5.72.39

दृश्यदर्शनमुक्तायां युक्तायां परया धिया ।
दृश्यदर्शनसम्बन्धसंविद्य् अस्यां तु राघव ॥

5.72.40

नात्मा स्थूलो न चैवाणुर् न प्रत्यक्षो न चेतनः ।
नाचेतनो न च जडो न चैवासन् न सन्मयः ॥

5.72.41

नाहं नान्यो न चैवैको नानेको नाप्य् अनेकवान् ।
नाभ्याशस्थो न दूरस्थो नैवास्ति न च नास्ति च ॥

5.72.42

नाप्राप्यो नापि च प्राप्यो न चासर्वो न सर्वगः ।
न पदार्थो नापदार्थो नापञ्चात्मा न पञ्च च ॥

5.72.43

यद् इदं दृश्यतां प्राप्तं मनष्षष्ठेन्द्रियास्पदम् ।
तदतीतं पदं यत् स्यात् तन् न किञ्चिद् इवेहितम् ॥

5.72.44

यथाभूतम् इदं सम्यग् ज्ञस्य सम्पश्यतो जगत् ।
सर्वम् आत्ममयं विद्वन् नास्त्य् अनात्ममयं क्वचित् ॥

5.72.45

काठिन्यद्रवणस्पन्दस्वावकाशावलोकने ।
आत्मैव सर्वं सर्वेषु भूवार्यनिलखाग्निषु ॥

5.72.46

सत्तैवास्ति न वस्तूनां यया नाम विना चिता ।
व्यतिरिक्तं ततो ऽस्तीति विद्धि प्रोन्मत्तजल्पितम् ॥

5.72.47

एको जगन्ति सकलानि समस्तकालकल्पक्रमान्तरगतानि गतागतानि ।
आत्मैव नेतरकलाकलनास्ति काचिद् इत्थम्मतिर् भव भवातिगतो महात्मन् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc