मोक्षोपाय · अध्याय 5.71
यावत् तुर्यपरामर्शस् तावत् केवलतापदम् ।
जीवन्मुक्तस्य विषयो वचसां च रघूद्वह ॥
अत ऊर्ध्वं सदेहानां मुक्तानां वचसां तथा ।
विषयो न महाबाहो पुरुषाणां इवाम्बरम् ॥
सा हि विश्रान्तिपदवी दूरेभ्यो ऽपि दवीयसी ।
गम्या विदेहमुक्तानां खलेखेव नभस्वताम् ॥
सुषुप्तावस्थया कञ्चित् कालं भुक्त्वा जगत्स्थितिम् ।
तुर्यताम् एत्य तदनु परमानन्दघूर्णिताः ॥
तुर्यातीतां दशां तज्ज्ञा यथा यान्त्य् आत्मकोविदाः ।
तथाधिगच्छ निर्द्वन्द्वं पदं रघुकुलोद्वह ॥
सुषुप्तावस्थया राम भव संव्यवहारवान् ।
चित्रेन्दोर् इव ते न स्तः क्षयोद्वेगाव् अरिन्दम ॥
शरीरसन्निवेशस्य क्षये स्थैर्ये च संविदम् ।
मा गृहाण भ्रमो ह्य् एष शरीरम् इति जृम्भते ॥
देहनाशेन को ऽर्थस् ते को ऽर्थस् ते देहसंस्थया ।
भव त्वं प्रकृतारम्भस् तिष्ठत्व् एष यथास्थितम् ॥
ज्ञातवान् असि तत् सत्यं बुद्धवान् असि तत् पदम् ।
प्राप्तवान् असि रूपं स्वं विशोको भव भूतये ॥
ईप्सितानीप्सितत्यक्तश् शीतलालोकशोभया ।
अन्धकारातपाम्भोदमुक्तं खम् इव शोभसे ॥
मनस् तवात्मा सम्पन्नं नाधस् समनुधावति ।
योगमन्त्रतपस्सिद्धः पुरुषः खाद् इवावनिम् ॥
इह शुद्धा चिद् एवास्ति पारावारविवर्जिता ।
अयं सो ऽहम् इदं तन् मे इति ते मास्तु विभ्रमः ॥
आत्मेति व्यवहारार्थम् अभिधा कल्पिता विभोः ।
नामरूपादिभेदास् तु दूरम् अस्माद् अलं गताः ॥
जलम् एव यथाम्भोधिर् न तरङ्गादिकं पृथक् ।
आत्मैवेदं तथा सर्वं न भूतौघादिकं पृथक् ॥
यथा समस्ताज् जलधेर् जलाद् अन्यन् न लभ्यते ।
तथैव जगतस् स्फाराद् आत्मनो ऽन्यन् न लभ्यते ॥
अयं सो ऽहम् इति प्राज्ञ क्व करोषि व्यवस्थितिम् ।
किं तत् त्वं किं च वा ते स्यात् किं न त्वं किं च वा न ते ॥
न द्वित्वम् अस्ति नो देहस् सम्बन्धो न च तैश् चितः ।
सम्भवत्य् अकलङ्काया भानोर् इव तमःपटैः ॥
द्वित्वम् अभ्युपगम्यापि कथयामि तवारिहन् ।
देहादिभिस् सद्भिर् अपि न सम्बन्धो विभोर् भवेत् ॥
छायातपप्रसरयोः प्रकाशतमसोर् यथा ।
न सम्भवति सम्बन्धस् तथा वै देहदेहिनोः ॥
यथा शीतोष्णयोर् नित्यं परस्परविरुद्धयोः ।
न सम्भवति सम्बन्धो राम देहात्मनोस् तथा ॥
अविनाभावितार्थस् तु सम्बन्धः कथम् एतयोः ।
जडचेतनयोर् देहदेहिनोर् अनुभूयते ॥
चिन्मात्रेणात्मना देहस् सम्बद्ध इति या कथा ।
सैषा दुरवबोधोत्था दावाग्नौ जलधीर् यथा ॥
सत्यावलोकनेनैषा मिथ्यादृष्टिर् विनश्यति ।
अवलोकनया सम्यग् आतपे जलधीर् यथा ॥
चिदात्मा निर्मलो नित्यस् स्वावभासो निरामयः ।
देहस् त्व् अनित्यो मलवांस् तेन सम्बध्यते कथम् ॥
स्पन्दम् आयाति वातेन भूतैर् आपीवरीकृतः ।
देहस् तेन न सम्बन्धो मनाग् एव महात्मनः ॥
सिद्धे द्वित्वे ऽपि देहस्य न सम्बन्धस्य सम्भवः ।
द्वित्वासिद्धौ तु सुमते कलनैवेदृशी कुतः ॥
इत्य् एतद् एव तत् सत्यम् अत्रैवाङ्ग स्थितिं कुरु ।
न बन्धो ऽस्ति न मोक्षो ऽस्ति कदाचित् कस्यचित् क्वचित् ॥
सर्वम् आत्ममयं शान्तम् इत्य् एव प्रत्ययं स्फुटम् ।
सबाह्याभ्यन्तरं राम सर्वत्र दृढतां नय ॥
सुखी दुःखी च मूढो ऽस्मीत्य् एता दुर्दृष्टयस् स्मृताः ।
आसु चेद् वस्तुबुद्धिस् ते तच् चिरं दुःखम् एष्यसि ॥
यः क्रमश् शैलतृणयोः कौशेयोपलयोस् तथा ।
साम्यं प्रति स एवोक्तः परमात्मशरीरयोः ॥
यथा शीतोष्णयोर् ऐक्यं कथास्व् अपि न दृश्यते ।
जडप्रकाशयोश् श्लेषो न तथात्मशरीरयोः ॥
यथा तेजस्तिमिरयोर् न सम्बन्धो न तुल्यता ।
अत्यन्तभिन्नयो राम तथा ह्य् आत्मशरीरयोः ॥
देहश् चलति वातेन तेनैवायाति गच्छति ।
शब्दं करोति तेनैव देहनाडीविलासिना ॥
शब्दः कचटतप्रायस् स्फुरत्य् अन्तस् समीरणे ।
यथा प्रजायते वंशाद् देहरन्ध्रात् तथैव हि ॥
कनीनिकापरिस्पन्दश् चक्षुस्स्पन्दश् च मारुतात् ।
इन्द्रियस्फुरणं चैव संवित् केवलम् आत्मनः ॥
आकाशोपलकुड्यादौ सर्वत्रात्मदशा स्थिता ।
प्रतिबिम्बम् इवादर्शे चित्त एव च दृश्यते ॥
शरीरालयम् उत्सृज्य यत्र चित्तविहङ्गमः ।
स्ववासनावशाद् याति तत्रैवात्मानुभूयते ॥
यत्र पुष्पं तत्र गन्धसंविदस् संस्थिता यथा ।
यत्र चित्तं हि तत्रात्मसंविदस् संस्थितास् तथा ॥
सर्वत्र स्थितम् आकाशम् आदर्शे प्रतिबिम्बते ।
यथा तथात्मा सर्वत्र स्थितश् चेतसि दृश्यते ॥
अपाम् अवनतं स्थानम् आस्पदं भूतले यथा ।
अन्तःकरणम् एवात्मसंविदाम् आस्पदं तथा ॥
सत्यासत्यं जगद्रूपम् अन्तःकरणबिम्बिता ।
आत्मसंवित् तनोतीदम् आलोकम् इव सूर्यभाः ॥
अन्तःकरणम् एवातः कारणं भूतसंसृतौ ।
आत्मा सर्वातिगत्वात् तु कारणं सद् अकारणम् ॥
अविचारणम् अज्ञानं मौर्ख्यम् आहुर् महाधियः ।
संसारसंसृतौ सारम् अन्तःकरणकारणम् ॥
असम्यक्प्रेक्षणान् मोहाच् चेतस् सत्तां गृहीतवत् ।
सम्मोहबीजकणिकां तमो ऽर्कद्रवणाद् इव ॥
यथाभूतात्मतत्त्वैकपरिज्ञानेन राघव ।
असत्ताम् एत्य् अलं चेतो दीपेनेव तमः क्षणात् ॥
संसारकारणम् अतस् स्वयं चेतो ऽविचारणात् ।
जीवो ऽन्तःकरणं चित्तं मनश् चेत्यादिनामकम् ॥
एतास् सञ्ज्ञाः प्रभो बह्व्यश् चेतसो रूढिम् आगताः ।
कथम् इत्य् एव कथय मयि मानद सिद्धये ॥
सर्वे भावा इमे नित्यम् आत्मतत्त्वैकरूपिणः ।
चित्रास् तरङ्गककणा जलैककलिता यथा ॥
आत्मा स्पन्दैकरूपात्मा स्थितस् तेषु क्वचित् क्वचित् ।
तरङ्गेषु विलोलेषु पयो व्योमामलं यथा ॥
क्वचिद् अस्पन्दरूपात्मा स्थितस् तेषु महेश्वरः ।
तरङ्गत्वम् अयातेषु जलभावो जलेष्व् इव ॥
तत्रोपलादयो भावा अलोला आत्मनि स्थिताः ।
सुराफेनवद् उत्स्पन्दा लोलास् तु पुरुषादयः ॥
तत्र तेषु शरीरेषु सर्वशक्तितयात्मना ।
कलिताज्ञानकलना तेनाज्ञानम् असौ श्रितः ॥
तद् अज्ञानम् अनन्तात्मरूषितं जीव उच्यते ।
स संसारी महामोहमायापञ्जरकुञ्जरः ॥
जीवनाज् जीव इत्य् उक्तो ऽहम्भावश् चाप्य् अहन्तया ।
बुद्धिर् निश्चायकत्वेन सङ्कल्पकलनान् मनः ॥
प्रकृतिः प्रकृतत्वेन देहो दिग्धतया स्थितः ।
जडः प्रकृतिभावेन चेतनस् स्वात्मसत्तया ॥
जडाजडदृशोर् मध्ये यत् तत्त्वं पारमात्मिकम् ।
तद् एतद् एव नानात्वं नानासञ्ज्ञाभिर् आगतम् ॥
एवं स्वरूपं जीवस्य बृहदारण्यकादिषु ।
बहुधा बहुषु प्रोक्तं वेदान्तेषु किलानघ ॥
अन्यैस् त्व् एतासु सञ्ज्ञासु कुविकल्पकुतार्किकैः ।
मोहाय केवलं मूढैर् व्यर्थम् अर्थाः प्रकल्पिताः ॥
एवम् एष महाबाहो जीवस् संसारकारणम् ।
मूकेनातिवराकेण देहकेनेह किं कृतम् ॥
आधाराधेययोर् एकनाशेनान्यस्य नष्टता ।
यथा तथा शरीरादिनाशे नात्मनि नष्टता ॥
एकपर्णरसे क्षीणे रसो नैति यथा क्षयम् ।
याति पर्णरसश् चार्करश्मिजालान्तरं यथा ॥
शरीरसङ्क्षये देही न क्षयं याति कस्यचित् ।
निर्वासनश् चेत् तद् व्योम्नि तिष्ठत्य् आत्मपदे तथा ॥
देहनाशे विनष्टो ऽस्मीत्य् एवं यस्यामतेर् भ्रमः ।
मातुस् स्तनतटात् तस्य मन्ये वेताल उत्थितः ॥
यस्य ह्य् आत्यन्तिको नाशस् स्याद् असाव् उदितस् स्मृतः ।
चित्तनाशो हि नाशस् स्यात् स मोक्ष इति कथ्यते ॥
मृतो नष्ट इति प्रोक्तम् अन्यैस् तच् च मृषा न सत् ।
स देशकालान्तरितो भूत्वा भूयो ऽनुभूयते ॥
इहोह्यते जनैर् ओघतरङ्गान्तस् तृणैर् इव ।
मरणव्यपदेशात् तु देशकालतिरोहितैः ॥
वासनावलितो जीवो यात्य् उत्सृज्य शरीरकम् ।
कपिर् वनतरुं त्यक्त्वा तर्वन्तरम् इवास्थितः ॥
पुनस् तद् अपि सन्त्यज्य प्रयात्य् अन्यद् अपि क्षणात् ।
अन्यस्मिन् वितते देशे काले ऽन्यस्मिंश् च राघव ॥
इतश् चेतश् च नीयन्ते जीवा वासनया स्वया ।
चिरं तदुपजीविन्या धूर्तधात्र्येव बालकाः ॥
वासनारज्जुवलिता जीर्णाः पर्वतकुक्षिषु ।
जरयन्त्य् अतिदुःखेन जीवितं जीवजीवकाः ॥
जरढजगदुपोढदुःखभाराः परिणतजर्जरजीविताश् श्वसन्त्यः ।
हृदयजनितवासनानुवृत्त्या नरकभरे जनताश् चिरं पतन्ति ॥
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0