मोक्षोपाय · अध्याय 5.70
असंसङ्गसुखध्यानसंस्थितैर् विदितात्मभिः ।
व्यवहारिभिर् अप्य् अन्तर् वीतशोकैर् अवस्थितम् ॥
प्रक्षुब्धाक्षुब्धदेहस्य विसंवेदनसंविदः ।
अन्तःपूर्णस्य वदने श्रीर् इन्दोर् इव लक्ष्यते ॥
चेत्यहीनचिदालम्बि मनो यस्य गतज्वरम् ।
तेनाम्बु कतकेनेव जनता सम्प्रसीदति ॥
नित्यम् आत्मदृगालीनो ज्ञस् स्वस्थश् चञ्चलो ऽपि सन् ।
क्षुब्धो दृश्यत एवासौ प्रतिबिम्बार्कवन् मुधा ॥
आत्मारामा महात्मानः प्रबुद्धाः परमोदयाः ।
बहिः पिञ्छाग्रतरला अन्तर् मेरुर् इवाचलाः ॥
चित्तम् आत्मत्वम् आयातं सुखदुःखानुरञ्जनाम् ।
नोपैति रङ्गसंयोगं मसृणस् स्फटिको यथा ॥
संसारदृष्टिर् उदिता ज्ञातलोकपरावरम् ।
न रञ्जयति सच्चित्तं जललेखा यथाम्बुजम् ॥
आत्मध्यानमयो ऽध्यानी प्रबोधं परम् आगतः ।
कलनामलनिर्मुक्तस् त्व् असक्त इति कथ्यते ॥
आत्मारामतया जीवो यात्य् असंसक्तताम् इह ।
आत्मज्ञानेन संसङ्गस् तनुताम् एति नान्यथा ॥
जाग्रत्य् एव सुषुप्तस्थो जीवो भवति राघव ।
अस्यां दृशि गतद्वन्द्वो नित्यानस्तमयोदयः ॥
अत्र प्रौढिम् उपायातस् तुर्यताम् एति पावनीम् ।
परिणामवशाद् इन्दुर् अमावस्यार्कताम् इव ॥
चित्त्वे चेत्यदशाहीने या स्थितिः क्षीणचेतसः ।
सोच्यते शान्तकलना जाग्रत्य् एव सुषुप्तता ॥
तां च सुप्तदशाम् एत्य जीवन् व्यवहरन् नरः ।
सुखदुःखवरत्राभिर् न कदाचन कृष्यते ॥
जाग्रत्य् एव सुषुप्तस्थो यः करोति जगत्क्रियाम् ।
तं यन्त्रपुत्रकम् इव नायाति सुखदुःखदृक् ॥
चित्तस्य बाधिका सक्तिर् भावाभावोपतापदा ।
आत्मताम् आगते चित्ते कस्य किं बाधते कथम् ॥
सुषुप्तबुद्धिः कर्माणि पूर्वहेवाकहेलया ।
कुर्वन् न बध्यते जीवो जीवन्मुक्ततया स्थितः ॥
सौषुप्तीं वृत्तिम् आश्रित्य कुरु मा कुरु वानघ ।
कर्म प्रकृतिहेवाकवशाद् उपगतं स्वकम् ॥
नादानं न परित्यागः कर्मणो ज्ञाय रोचते ।
तिष्ठन्त्य् अधिगतात्मानो यथाप्राप्तानुवर्तिनः ॥
कुर्वन्न् अपि न कर्तासि सुषुप्तैकस्थया धिया ।
अकर्तापि च कर्तासि यथेच्छसि तथा कुरु ॥
यथा न किञ्चित् कलयन् मञ्चके स्पन्दते शिशुः ।
तथा फलाद्य् अकलयन् कुरु कर्माणि राघव ॥
अचेत्यचित्पदस्थत्वाज् जाग्रत्य् अपि सुषुप्तधीः ।
यद् यत् करोति लब्धात्मा तस्मिंस् तस्य न कर्तृता ॥
दशाम् आसाद्य सौषुप्तीं स्वविदैव विवासनः ।
अन्तश्शीतलताम् एति ज्ञो रसेन यथा शशी ॥
सुषुप्तस्थो महातेजा घूर्णन् पूर्णेन्दुबिम्बवत् ।
समस् सर्वास्व् अवस्थासु भवत्य् अद्रिर् यथर्तुषु ॥
सुषुप्तसंस्थो धीरात्मा बहिर् आयाति लोलताम् ।
क्रियासु नान्तर् भूकम्पप्रस्पन्दित इवाचलः ॥
सुषुप्तावस्थितो भूत्वा देहं विगतकल्मषः ।
घातयाश्व् अथ वा दीर्घं कालं धारय शैलवत् ॥
एषैव राम सौषुप्ती स्थितिर् अभ्यासयोगतः ।
प्रौढा सती तुर्यम् इति कथिता तत्त्वकोविदैः ॥
आनन्दमय एवात्र प्रक्षीणसकलामयः ।
अत्यन्तास्तङ्गतमना भवति ज्ञो महोदयः ॥
अत्रस्थो ज्ञः प्रमुदितः परमानन्दघूर्णितः ।
लीलाम् इवेमां रचनां सांसारीम् अनुपश्यति ॥
वीतशोकभयायासो गतसंसारसम्भ्रमः ।
तुर्यावस्थाम् उपारूढो भूयः पतति नात्मवान् ॥
प्राप्तुं स्वां पदवीं पुण्यां यत्नवन्तम् इमं जनम् ।
शैलसंस्थ इवाधस्स्थं हसन् पश्यति धीरधीः ॥
अस्यां तु तुर्यावस्थायां स्थितिं प्राप्याविनाशिनीम् ।
आनन्दैकान्तलीनत्वाद् अनानन्दपदं गतः ॥
अनानन्दमहानन्दः कलातीतस् ततो ऽपि हि ।
मुक्त इत्य् उच्यते योगी तुर्यातीतपदं गतः ॥
परिगलितसमस्तजन्मपाशस् सकलविहीनमनोमयाभिमानः ।
परमरसमयीं प्रयाति सत्तां जलगतसैन्धवखण्डवन् महात्मा ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0