भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.69

5.69.1

सर्वदा सर्वसंस्थेन सर्वेण सह तिष्ठता ।
सर्वकर्मरतेनापि मनः कार्यं विजानता ॥

5.69.2

न सक्तम् इह चिन्तासु न चेष्टासु न वस्तुषु ।
नाकाशे नाप्य् अधोभागे न दिक्षु न लतासु च ॥

5.69.3

न बहिर् विपुलाभोगे न चैवेन्द्रियवृत्तिषु ।
नाभ्यन्तरे न च प्राणे न मूर्धनि न तालुनि ॥

5.69.4

न भ्रूमध्ये न नासान्ते न मुखे न खतारके ।
नान्धकारे न चाभासे न चास्मिन् हृदयाम्बरे ॥

5.69.5

न जाग्रति न च स्वप्ने न सुषुप्ते न निर्मले ।
नासिते न च वा पीते रक्तादौ शबले ऽपि च ॥

5.69.6

न स्थिरे न चले नादौ न मध्ये नेतरत्र च ।
न दूरे नान्तिके नाङ्गे न पदार्थे न चात्मनि ॥

5.69.7

न शब्दस्पर्शरूपेषु न मोहानन्दवृत्तिषु ।
न गमागमचेष्टासु न कालकलनासु च ॥

5.69.8

केवलं चिति विश्रम्य किञ्चिच् चेत्यावलम्बतः ।
सर्वत्र नीरसम् इव तिष्ठत्व् आत्मरसं मनः ॥

5.69.9

तत्रस्थो विगतासङ्गो जीवो ऽजीवत्वम् आगतः ।
व्यवहारम् इमं सर्वं मा करोतु करोतु वा ॥

5.69.10

अकुर्वन् वापि कुर्वन् वा जीवस् स्वात्मरतिक्रियाम् ।
क्रियाफलैर् न सम्बन्धम् आयाति खम् इवाम्बुदैः ॥

5.69.11

अथ वा तम् अपि त्यक्त्वा चेत्यांशं शान्तचिद्घनः ।
जीवस् तिष्ठतु संशान्तं ज्वलन् मणिर् इवात्मनि ॥

5.69.12

निर्वाणम् आत्मनि गतस् सततोदितात्मा जीवो भुवि व्यवहरन्न् अपि रामभद्र ।
नासङ्गम् एति गतसङ्गतया फलेन कर्मोद्भवेन हसतीव च देहम् आरात् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc