मोक्षोपाय · अध्याय 5.68
कीदृशो भगवन् सङ्गः कश् च बन्धाय वै नृणाम् ।
कश् च मोक्षाय कथितः कथं चैष चिकित्स्यते ॥
देहदेहिविभागैकपरित्यागे न भावना ।
देहमात्रे तु विश्वासस् सङ्गो बन्धार्ह उच्यते ॥
अनन्तस्यात्मतत्त्वस्य सपर्यन्तविनिश्चये ।
यत् सुखार्थित्वम् अन्तस् स सङ्गो बन्धार्ह उच्यते ॥
सर्वम् आत्मेदम् अखिलं किं वाञ्छामि त्यजामि किम् ।
इत्य् असङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थिताम् ॥
नाहम् अस्मि न चान्यो ऽस्ति मा भवन्तु भवन्तु वा ।
सुखान्य् असक्त इत्य् अन्तः कथ्यते मुक्तिभाङ् नरः ॥
नाभिनन्दति नैष्कर्म्यं न कर्मप्रकृतेहितः ।
सुसमो यः फलत्यागी सो ऽसंसक्त इति स्मृतः ॥
आत्मतत्त्वैकनिष्ठस्य हर्षामर्षवशं मनः ।
यस्य नायात्य् असक्तो ऽसौ जीवन्मुक्तश् च कथ्यते ॥
सर्वकर्मफलादीनां मनसैव न कर्मणा ।
निपुणं यः परित्यागस् सो ऽसंसङ्ग इति स्मृतः ॥
असंसङ्गेन सकलाश् चेष्टा नानाविजृम्भिताः ।
चिकित्सिता भवन्त्य् अङ्ग श्रेयस् सम्पादयन्ति च ॥
संसक्तिवशतस् सर्वे वितता दुःखराशयः ।
प्रयान्ति शतशाखत्वं श्वभ्रकण्टकवृक्षवत् ॥
रज्जुकृष्टघनघ्राणो यद् गन्त्र्याः पथि गर्दभः ।
भारं वहति भीतात्मा तत् संसक्तिविजृम्भितम् ॥
शीतवातातपक्लेशम् एकदेशनिषण्णया ।
तरुर् वहति यत् तन्वा तत् संसङ्गविजृम्भितम् ॥
धराविवरनिर्मग्नो यत् कीटः पीडिताङ्गकः ।
क्षिणोति विकलः कालं तत् संसङ्गविजृम्भितम् ॥
दूर्वाङ्कुरतृणाहारः किरातशरपीडया ।
जहाति यन् मृगो देहं तत् संसङ्गविजृम्भितम् ॥
वीरुत्तृणदशां याता लूयन्ते यत् पुनः पुनः ।
नानाविगतसञ्चारास् तत् संसक्तिविजृम्भितम् ॥
रसातलरसायोगात् तृणगुल्मलतादयः ।
जनयन्ति यद् आकारं तत् संसक्तिविजृम्भितम् ॥
उत्पत्योत्पत्य लीयन्ते तरङ्गिणि तरङ्गवत् ।
भूतानि यद् अनन्तानि तत् संसक्तिविजृम्भितम् ॥
शान्तैवानन्तसङ्काशा पदार्थशतसङ्कुला ।
यत् संसारनदी मत्ता तत् संसक्तिविजृम्भितम् ॥
सक्तिर् हि द्विविधा प्रोक्ता वन्ध्या वन्द्या च राघव ।
वन्ध्या सर्वत्र मूढानां वन्द्या तत्त्वविदां निजा ॥
आत्मतत्त्वावबोधेन हीना देहादिवस्तुजा ।
भूयस्संसारदा सक्तिर् दृढा वन्ध्येति कथ्यते ॥
आत्मतत्त्वावबोधेन सत्यभूता विवेकजा ।
वन्द्या हि कथ्यते सक्तिर् भूयस्संसारवर्जिता ॥
शङ्खचक्रगदाहस्तो देहो विविधयेहया ।
वन्द्यसंसक्तिवशतः परिपाति जगत्त्रयम् ॥
अनारतं निरालम्बे व्योमवर्त्मनि पान्थताम् ।
वन्द्यसंसक्तिवशतः करोति रविर् अन्वहम् ॥
महाकल्पसमाधानधीरकल्पितकल्पनम् ।
वन्द्यसंसक्तिवशतो ब्राह्मं स्फुरति वै वपुः ॥
लीलया ललनालाननिलीनं भूतिभूषितम् ।
वन्द्यसंसक्तिवशतश् शरीरं शाङ्करं स्थितम् ॥
विज्ञातगतयस् सिद्धा लोकपालास् तथेतरे ।
वन्द्यसंसक्तिवशतस् तिष्ठन्ति जगतां गणे ॥
धत्ते शरीरयन्त्रौघम् अन्येयं भूतसन्ततिः ।
वन्ध्यसंसक्तिवशतो जरामृतिविवर्तितम् ॥
मनः पतति भोगेषु गृध्रो मांसलवेष्व् इव ।
वन्ध्यसक्तिवशाद् एव व्यर्थया रस्यशङ्कया ॥
संसक्तिवशतो वाति वायुर् भुवनकोटरे ।
पञ्चभूतानि तिष्ठन्ति वहतीयं जगत्स्थितिः ॥
दिवि देवा भुवि नराः पाताले भोगिनो ऽसुराः ।
ब्रह्माण्डोदुम्बरफले स्फुरन्मषकवत् स्थिताः ॥
जायन्ते च म्रियन्ते च निपतन्त्य् उत्पतन्ति च ।
भूतान्य् अविरतं भूयो निर्झराम्बुकणा इव ॥
परस्परनिगीर्णाङ्गी जनता जाड्यजर्जरा ।
सम्भ्रान्ता प्रभ्रमत्य् अङ्ग शीर्णं पर्णम् इवाम्बरे ॥
नक्षत्रचक्रं गगने क्षमामषकसन्ततम् ।
स्फुरत्य् आवर्तवृत्त्यैव पातालगजलौघवत् ॥
पातोत्पातदशाजीर्णं कालबालककन्दुकम् ।
अद्यापि न जहातीन्दुर् जडिम्ना मलिनं वपुः ॥
नानायुगपरावर्तदुःखालोकनकर्कशम् ।
न लुनाति मनष्षण्डं दिवि गीर्वाणमण्डलम् ॥
वासनामात्रवशतः परे व्योमनि केनचित् ।
इदम् आरचितं चित्रं विचित्रं पश्य राघव ॥
मनस्सङ्गैकरङ्गेण शून्ये व्योम्नि जगन्मयम् ।
यद् इदं रचितं चित्रं न तत् सत्यं कदाचन ॥
संसक्तमनसाम् अस्मिन् संसारे व्यवहारिणाम् ।
अत्ति तृष्णा शरीराणि तृणान्य् अग्निशिखा यथा ॥
परिसक्तमतेर् देहान् सिकताः पत्युर् अम्भसाम् ।
कश् शक्तः परिसङ्ख्यातुं परमाणुगणं तथा ॥
मुक्तालताया गङ्गाया मेरोर् आपादमस्तकम् ।
तरङ्गमुक्ता गण्यन्ते न देहास् सक्तचेतसः ॥
संसक्तचित्तम् आयान्ति सर्वा दुःखपरम्पराः ।
जडकल्लोलवलिता महानद्य इवाम्बुधिम् ॥
संसक्तमनसाम् एता रम्यान्तःपुरपङ्क्तयः ।
रचिता रौरवावीचिकालसूत्रादिनामिकाः ॥
सक्तचित्तं जनं दुःखशुष्कम् इन्धनसञ्चयम् ।
ज्वलतां नरकाग्नीनां विद्धि तेन ज्वलन्ति ते ॥
दुःखजालम् इदं राम यत् किञ्चिज् जगतीगतम् ।
संसक्तमनसाम् अर्थे तत् सर्वं परिकल्पितम् ॥
मनस्संसङ्गधर्मिण्या भारभूतशरीरया ।
क्षयोदयदशार्थिन्या सर्वं ततम् अविद्यया ॥
असंसङ्गेन भोगानां सर्वा राम विभूतयः ।
परं विस्तारम् आयान्ति प्रावृषीव महापगाः ॥
अन्तस्संसङ्गम् अङ्गानाम् अङ्गारं विद्धि राघव ।
अनन्तस्सङ्गम् अङ्गानां विद्धि राम रसायनम् ॥
संसङ्गेनान्तरस्थेन दह्यते प्रकृतिस् स्वयम् ।
स्वफलोत्थेनैडकाक्षी पावकेन यथौषधिः ॥
सर्वत्रासक्तम् आशक्तम् अनन्तम् इव संस्थितम् ।
असङ्कल्पं सदाभासं सुखायैव मनो भवेत् ॥
विद्यादृशि प्रोदयम् आगतेन क्षयं त्व् अविद्याविषयं गतेन ।
सर्वत्र संसक्तिविवर्जितेन स्वचेतसा तिष्ठति यस् स मुक्तः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0