भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.67

5.67.1

एवं तौ कुशलप्रश्नं कृतवन्तौ परस्परम् ।
कालेनासाद्य विमलं ज्ञानं मोक्षं ततो गतौ ॥

5.67.2

अतो वच्मि महाबाहो यथा ज्ञानेतरा गतिः ।
नास्ति संसारतरणे पाशबद्धस्य चेतसः ॥

5.67.3

इदं भव्यमतेर् दुःखम् अनन्तम् अपि पेलवम् ।
कुखगस्यातरो ऽम्भोधिस् सर्पारेर् गोष्पदायते ॥

5.67.4

देहातीता महात्मानश् चिन्मात्रे स्वात्मनि स्थिताः ।
दूरद् देहं हसन्ति स्वं प्रेक्ष्यार्को जनताम् इव ॥

5.67.5

देहे दुःखिनि सङ्क्षुब्धे का नः क्षतिर् उपस्थिता ।
रथे विधुरिते भग्ने सारथेः केव खण्डना ॥

5.67.6

मनसि क्षुब्धतां याते चित्त्वस्याङ्ग किम् आगतम् ।
तरङ्गे रजसा म्लाने वैपरीत्यं किम् अम्बुधेः ॥

5.67.7

के भवन्त्य् अयसां हंसाः पयसाम् उपलाश् च के ।
काश् शिलाः किल दारूणां के भोगाः परमात्मनः ॥

5.67.8

सम्बन्धः क इवाग्राशाशैलापरसमुद्रयोः ।
अन्तरे दूरसम्बाधे कश् च चित्तत्त्वबन्धयोः ॥

5.67.9

अप्य् उत्सङ्गोह्यमानानि काष्ठानि सरिदम्भसाम् ।
कानि नाम भवन्तीह शरीराणि तथात्मनः ॥

5.67.10

सङ्घट्टात् काष्ठपयसां यथोत्तुङ्गाः कणादयः ।
देहात्मनोस् समायोगात् तथैताश् चित्तवृत्तयः ॥

5.67.11

सम्बन्धाद् दारुपयसां प्रतिबिम्बानि दारुतः ।
यथा पयसि लक्ष्यन्ते शरीराणि तथात्मनि ॥

5.67.12

यथा दर्पणवार्यादौ प्रतिबिम्बानि वस्तुतः ।
नासत्यानि न सत्यानि शरीराणि तथात्मनि ॥

5.67.13

दारुवार्युपलास्फोटे दुःखिता न यथा क्वचित् ।
संयुक्तेषु वियुक्तेषु न तथा पञ्चसु क्षतिः ॥

5.67.14

दारुसंवेल्लितात् तोयात् कम्पशब्दादयो यथा ।
प्रजायन्ते तथैवास्माद् देहाच् चित्परिबोधितात् ॥

5.67.15

न बुद्धजडयोर् एतास् संविदश् चिच्छरीरयोः ।
एता ह्य् अज्ञानमात्रस्य तस्मिन् नष्टे तद् एव ताः ॥

5.67.16

यथा न कस्यचिद् दारुवारिश्लेषे ऽनुभूतयः ।
तथा न कस्यचिद् देहदेहिसङ्गे ऽनुभूतयः ॥

5.67.17

अज्ञस्यायं यथा दृष्टस् संसारस् सत्यतां गतः ।
तज्ज्ञस्यायं तथा नष्टस् संसारो ऽसत्यतां गतः ॥

5.67.18

अन्तस्सङ्गविहीनास् ते यथा स्नेहा दृषत्तले ।
तथासक्तमनोवृत्तौ बाह्याभोगानुभूतयः ॥

5.67.19

अन्तस्सङ्गेन रहितो यद्वत् सलिलकाष्ठयोः ।
सम्बन्धस् तद्वद् एवान्तर् असङ्गो देहदेहिनोः ॥

5.67.20

अन्तस्सङ्गेन रहितस् सम्बन्धो जलकाष्ठयोः ।
ज्ञदेहदेहिनोश् चैव प्रतिबिम्बाम्भसोस् तथा ॥

5.67.21

स्थिता सर्वत्र संवित्तिश् शुद्धा संवेद्यवर्जिता ।
द्वित्वोपलाञ्छिता त्व् अन्या दुस्संवित्तिर् न विद्यते ॥

5.67.22

अदुःखम् एति दुःखत्वम् अन्तस्संवेदनात् स्फुटम् ।
स्थाणुर् भवति वेतालो वेतालत्वेन भावितः ॥

5.67.23

असम्बन्धो हि सम्बन्धो भवत्य् अन्तर्विनिश्चयात् ।
स्वप्नाङ्गनासुरतवत् स्थाणुवेतालभङ्गवत् ॥

5.67.24

असत्प्रायो हि सम्बन्धो यथा सलिलकाष्ठयोः ।
तथैव मिथ्या सम्बन्धश् शरीरपरमात्मनोः ॥

5.67.25

अन्तस्सङ्गं विना नाम्बु काष्ठाघातैः प्रमुह्यते ।
आत्मान्तस्सङ्गरहितो देहदुःखैर् न दह्यते ॥

5.67.26

देहभावनयैवात्मा देहदुःखवशे स्थितः ।
तत्त्यागेन ततो मुक्तो भवतीति विदुर् बुधाः ॥

5.67.27

अन्तस्सङ्गविहीनत्वाद् दुःखवन्त्य् अङ्ग नो यथा ।
पत्त्राम्बूपलदारूणि श्लिष्टान्य् अपि परस्परम् ॥

5.67.28

अन्तस्सङ्गेन रहिता यान्ति निर्दुःखतां पराम् ।
श्लिष्टा अपि तथैवात्मा देहेन्द्रियमनांस्य् अलम् ॥

5.67.29

अन्तस्सङ्गो हि संसारे सर्वेषां नाम देहिनाम् ।
जरामरणमोहानां तरूणां बीजकारणम् ॥

5.67.30

अन्तस्संसङ्गवाञ् जन्तुर् मग्नस् संसारसागरे ।
अन्तस्संसङ्गमुक्तस् तु तीर्णस् संसारसागरात् ॥

5.67.31

अन्तस्संसङ्गवच् चित्तं शतशाखम् इहोच्यते ।
अन्तस्संसङ्गरहितं विलीनं चित्तम् उच्यते ॥

5.67.32

भग्नस्फटिकवद् विद्धि मनस् सक्तम् अपावनम् ।
अभग्नस्फटिकाभासम् असक्तं विद्धि वै मनः ॥

5.67.33

असक्तं निर्मलं चित्तं मुक्तं संसार्य् अपि स्फुटम् ।
सक्तं तु दीर्घतपसा युक्तम् अप्य् अतिबन्धवत् ॥

5.67.34

अन्तस्सक्तं मनो बद्धं मुक्तं सक्तिविवर्जितम् ।
अन्तस्संसक्तिर् एवैकं कारणं बन्धमोक्षयोः ॥

5.67.35

अन्तस्संसक्तिमुक्तस्य कुर्वतो ऽपि न कर्तृता ।
सुखदुःखवति स्वप्ने सम्भ्रमोन्मुखता यथा ॥

5.67.36

चित्ते कर्तरि कर्तृत्वम् अदेहस्यापि विद्यते ।
स्वप्नादाव् इव विक्षुब्धसुखदुःखदशामयम् ॥

5.67.37

अकर्तरि मनस्य् अन्तर् अकर्तृत्वं स्फुटं भवेत् ।
शून्यचित्तो हि पुरुषः कुर्वन्न् अपि न चेतति ॥

5.67.38

चेतसा कृतम् आप्नोषि चेतसा न कृतं न तु ।
न क्वचित् कारणं देहो न चित्तम् अपि कर्तृ वै ॥

5.67.39

असंसक्तम् अकर्त्र् एव कुर्वद् एव मनो विदुः ।
न कर्मफलभोक्तृत्वम् असक्तं प्रतिपद्यते ॥

5.67.40

ब्रह्महत्याश्वमेधाभ्याम् असंसक्तो न लिप्यते ।
दूरस्थकान्तासंसक्तमनाः कार्यैर् इवाग्रगैः ॥

5.67.41

अन्तस्संसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् ।
बहिः कुर्वन्न् अकुर्वन् वा कर्ता भोक्ता न हि क्वचित् ॥

5.67.42

अन्तस्संसक्तिमुक्तं यन् मनस् स्यात् तद् अकर्तृकम् ।
तद् वियुक्तं प्रशान्तं तत् तद् युक्तं तद् अलेपकम् ॥

5.67.43

तत् स्यात् सर्वपदार्थानां श्लिष्टानां निश्चितं बहिः ।
सर्वदुःखकरीं क्रूराम् अन्तस्सक्तिं विवर्जयेत् ॥

5.67.44

विरहितम् अलम् अन्तस्सङ्गदोषेण चेतश् शमम् उपगतम् आद्यं व्योमवन् निर्मलाभम् ।
सकलकलनमुक्तेनात्मनैकत्वम् एति स्थिरम् अलिनिभम् अम्भो वारिणीवालिनीले ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc