भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.66

5.66.1

अथ शोकपराभूतौ तस्थतुर् दृढतापसौ ।
तापसंशुष्कसर्वाङ्गौ ताव् अरण्यद्रुमाव् इव ॥

5.66.2

विरक्तौ विपिने कालं क्षपयाम् आसतुर् द्विजौ ।
वियूथाव् इव सारङ्गाव् अनास्थाम् आगतौ पराम् ॥

5.66.3

जग्मुर् दिनानि मासाश् च वर्षाण्य् अथ तयोस् तदा ।
क्रमात् ताव् अपि संयातौ जरां श्वभ्रद्रुमाव् इव ॥

5.66.4

अप्राप्तविमलज्ञानौ चिराज् जरढतापसौ ।
ताव् एकदा सङ्घटिताव् इदम् अन्योऽन्यम् ऊचतुः ॥

5.66.5

जीवितोग्रद्रुमफल मदाश्वासामृताम्बुधे ।
जगत्य् अस्मिन् महाबन्धो भास स्वागतम् अस्तु ते ॥

5.66.6

एतावत्यो दिनावल्यो मद्वियोगवता त्वया ।
वद क्व क्षपितास् साधो कच्चित् ते विमलं तपः ॥

5.66.7

कच्चित् ते विज्वरा बुद्धिः कच्चिज् जातस् त्वम् आत्मवान् ।
कच्चित् फलितविद्यस् त्वं कच्चित् कुशलवान् असि ॥

5.66.8

इत्य् उक्तवन्तं संसारसमुद्विग्नम् अलं तदा ।
प्राहाप्राप्तमहाज्ञानं सुहृत् सुहृदम् आदरात् ॥

5.66.9

साधो स्वागतम् अद्याङ्ग दिष्ट्या दृष्टो ऽसि मानद ।
कुशलं तु कुतो ऽस्माकं संसारे तिष्ठताम् इह ॥

5.66.10

यावन् नाधिगतं ज्ञेयं यावत् क्षीणा न चित्तभूः ।
यावत् तीर्णं न संसारात् तावन् मे कुशलं कुतः ॥

5.66.11

यावन् नाधिगतं ज्ञानं यावन् न समतोदिता ।
यावन् नाभ्युदितो बोधस् तावन् नः कुशलं कुतः ॥

5.66.12

आशा यावद् अशेषेण न लूनाश् चित्तसम्भवाः ।
वीरुधो दात्रकेणेव तावन् नः कुशलं कुतः ॥

5.66.13

आत्मलाभं विना साधो विना ज्ञानमहौषधम् ।
उदेति पुनर् एवेयं दुस्संसृतिविषूचिका ॥

5.66.14

शैशवाङ्कुरितारम्भो नवयौवनपल्लवः ।
जराकुसुमितो ऽभ्येति पुनस् संसारदुर्द्रुमः ॥

5.66.15

कायजीर्णतरोर् अस्माद् बान्धवाक्रन्दषट्पदात् ।
जरापुष्पसितोदेति पुनर् मरणमञ्जरी ॥

5.66.16

भुक्तशुक्तर्तुविरसा पुराणदिवसोम्भिता ।
नीयते नीरसप्राया पुनस् संवत्सरावली ॥

5.66.17

महादरीषु देहाद्रेस् तृष्णाकण्टकितास्व् अति ।
हेलाव्यालासु च पुनः क्रियासु परिलुप्यते ॥

5.66.18

दुःखैस् सुखलवाकारैर् दीर्घदीर्घैश् शुभाशुभैः ।
अपर्यस्तागमप्रायाः प्रयान्त्य् आयान्ति रात्रयः ॥

5.66.19

अयथार्थक्रियारम्भैः कदाशावेशपल्लवैः ।
क्षीयते कर्मभिस् तुच्छैर् आयुर् आहतकर्तृभिः ॥

5.66.20

उन्मूलिताशयालानो मनोमत्तमतङ्गजः ।
तृष्णाकरेणुकोत्तब्धो दूरं विपरिधावति ॥

5.66.21

जिह्वादललतालग्नः कायद्रुमगुहालये ।
यत्रचिन्तामणौ वृद्धो गर्धगृध्रो विवर्धते ॥

5.66.22

नीरसा निस्सुखा लघ्वी पतत्पेलवगात्रिका ।
जीर्णपर्णसवर्णेयं क्षीयते दिवसावली ॥

5.66.23

अपमानरजोध्वस्तम् अस्तङ्गतवपुश्श्रि च ।
मुखं धूसरताम् एति हिमैः पद्मम् इवाहतम् ॥

5.66.24

शुष्यतः कायसरसः प्रगलद्यौवनाम्भसः ।
राजहंसः क्षणाद् आयुर् अनावर्ति पलायते ॥

5.66.25

कालानिलबलोद्धूताज् जर्जराज् जीवितद्रुमात् ।
भोगपुष्पाणि दिवसपर्णानि निपतन्त्य् अधः ॥

5.66.26

भोगभोगिश्रितेष्व् अन्तर् दुःखदर्दुरवारिषु ।
मनो मोहान्धकूपेषु दूरेषु विनिमज्जति ॥

5.66.27

नानानुरञ्जना स्पष्टा तृष्णा तरलपेलवा ।
चैत्यमग्नपताकेव दूरं समधिरोहति ॥

5.66.28

अस्य संसारतन्त्रस्य बृहत्कालबिलास्पदः ।
जीविताशामयांस् तन्तून् अन्तकाखुर् निकृन्तति ॥

5.66.29

यौवनोत्फालकल्लोला बहलोल्लासफेनिला ।
परावर्तमहावर्ता याति जीवितदुर्नदी ॥

5.66.30

कलाकुलकलत्कार्यकल्लोलकुलसङ्कुला ।
क्रियासरिद् अपर्यन्ता वहत्य् आकुलकोटरा ॥

5.66.31

अनन्ता बन्धुजनतानद्यो गम्भीरकोटरे ।
अजस्रं निपतन्त्य् एता वितते कालसागरे ॥

5.66.32

देहरत्नशलाकेयं नाशपङ्कार्णवोदरे ।
न ज्ञायते क्व मग्नेति तात जन्मनि जन्मनि ॥

5.66.33

चिन्ताचक्रे चिरं चञ्चच्चक्रिकाचारचञ्चुरे ।
चेतो भ्रमति सामुद्रे गर्तावर्ते तृणं यथा ॥

5.66.34

उह्यमानम् अनन्तेषु चेतः कार्यमहोर्मिषु ।
क्षणम् एति न विश्रामं चिन्ताताण्डविताशयम् ॥

5.66.35

इदं कृतं करोमीदं करिष्यामीदम् इत्य् अलम् ।
कलनाजालवलिता मूर्छिता मतिपक्षिणी ॥

5.66.36

अयं सुहृद् अयं शत्रुर् इति द्वन्द्वमहामयः ।
विनिकृन्तति मर्माणि नवानीवोत्पलानि मे ॥

5.66.37

चिन्तातुण्ड्या मदावर्तवीच्यैकनिचयं चरन् ।
क्षणाद् उच्छूनताम् एति मानमीनः क्षणात् क्षतिम् ॥

5.66.38

अनात्मीयानि दुःखानि बहून्य् एवंविधान्य् अलम् ।
आत्मबुद्ध्या विचिन्वानो जनो गच्छति दीनताम् ॥

5.66.39

बहुविधसुखदुःखमध्यपाती विततजरामरणप्रपातभग्नः ।
जगदुदरगिरौ लुठञ् जनो ऽयं गतरसपर्णवद् एति जर्जरत्वम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc