मोक्षोपाय · अध्याय 5.64
सुरघुः परिघश् चैव विचार्येति जगद्भ्रमम् ।
मिथः प्रपूजितौ तुष्टौ स्वव्यापारपरौ गतौ ॥
तद् एव राघव श्रुत्वा परमं बोधकारणम् ।
अनेनैव विबोधेन भव लब्धास्पदस् स्फुटम् ॥
परया प्रज्ञया धीर विचारातततैक्ष्ण्यया ।
गलत्य् अलम् अहङ्कारकालमेघे हृदम्बरे ॥
समस्तलोकानुमते सफले ह्लादकारिणि ।
निर्मले वितते चेतश्शरत्काल उपस्थिते ॥
ध्येये शरण्ये सुसमे सकलानन्दसम्पदि ।
सुप्रशस्ते चिदाकाशे स्थीयते परमात्मनि ॥
यो नित्यम् अध्यात्ममयो नित्यम् अन्तर्मुखस् सुखी ।
नित्यं चिदनुसन्धानस् स न शोकेन बाध्यते ॥
व्यवहारपरो ऽप्य् उच्चै रागद्वेषमयो ऽपि सन् ।
नान्तः कलङ्कम् आदत्ते पद्मो जललवं यथा ॥
सम्यग्विज्ञानवान् बुद्ध्वा यो ऽन्तश् शान्तमना मुनिः ।
न बाध्यते स मनसा करिणेव मृगाधिपः ॥
भोगैकशरणं दीनं न चित्तं ज्ञस्य विद्यते ।
नन्दने दुर्द्रुम इव ज्ञचित्तं हिमवद्वपुः ॥
विरक्तजायामरणे यथा दुःखी न मानवः ।
परिज्ञाताखिलाविद्यं तथा चित्तं न दुःखदम् ॥
परिज्ञातमनोमोहो जगद्भानोद्भवात्मना ।
स्पृश्यते नैनसा साधू रजसेव नभस्तलम् ॥
अविद्यासम्परिज्ञानमात्रम् एव महौषधम् ।
अविद्याविततव्याधेस् तिमिरस्येव दीपकः ॥
अविद्या सम्परिज्ञाता यदैव हि तदैव हि ।
सा परिक्षीयते भूयस् स्वदते च न भोगभूः ॥
व्यवहारपरो ऽप्य् अन्तर् असक्तमतिर् एकधीः ।
स्पृश्यते नैनसा साधुर् मत्स्येक्षणम् इवाम्भसा ॥
प्राप्ते चिद्भास्करालोके प्रक्षीणाज्ञानयामिनी ।
चित्तभूः परमानन्दम् आगता ज्ञस्य राजते ॥
अज्ञाननिद्रोपशमे जनो ज्ञानार्कबोधितः ।
तं प्रबोधम् अवाप्नोति पुनर् येन न मुह्यति ॥
दिनानि जीव्यते तानि सानन्दास् ते क्रियाक्रमाः ।
आत्मचिन्तोदिता येषु चिज्ज्योत्स्ना हृदयाम्बरे ॥
नरो मोहसमुत्तीर्णस् सततस्वात्मचिन्तया ।
अन्तश्शीतलताम् एति स्वामृतेनेव चन्द्रमाः ॥
तानि मित्राणि शास्त्राणि तानि तानि दिनानि च ।
विरागोल्लासवान् यैस् स्याद् आत्मचिन्तोदयस् स्फुटम् ॥
चिरं शोचन्ति ते दीना जन्मजङ्गलवीरुधः ।
आत्मावलोकने हेला येषाम् अधिगतैनसाम् ॥
आशापाशशतैर् बद्धं भोगोलपसुलालसम् ।
जराजर्जरिताकारं शोकोच्छ्वासकदर्थितम् ॥
व्यूढदुःखमहाभारं जन्मजङ्गलजीविनम् ।
कुकर्मकर्दमालिप्तं मोहपल्वलशायिनम् ॥
रोगदंशावलीदष्टं कृष्टं तृष्णावरत्रया ।
मनोवाजिनकोत्तब्धं बन्धुबन्धननिश्चलम् ॥
पुत्रदारदरीजीर्णं मग्नोन्मग्नं कुकर्दमे ।
श्रान्तं विगतविश्रामं भग्नम् आदीर्घवर्त्मनि ॥
गमागमपरिक्षीणं संसारारण्यचारिणम् ।
अलब्धशीतलच्छायं तीव्रतापोपतापितम् ॥
आकारभासुरं दीनं वाहैर् आक्रान्तम् इन्द्रियैः ।
कर्मकर्णीरथाक्रान्तं तान्तं दुष्कृतताडनैः ॥
आविर्भावतिरोभावचक्रावर्तदुरुद्वहम् ।
अज्ञानविकटाटव्यां लुठन्तं भग्नगात्रकम् ॥
निजानर्थस्खदामग्नं सीदमानम् अकिञ्चनम् ।
सन्नाङ्गं कर्मभारेण करुणाक्रन्दकारिणम् ॥
राम जीवबलीवर्दम् इमं संसारपल्वलात् ।
परमं यत्नम् आस्थाय चिरम् उत्तारयेद् बलात् ॥
तत्त्वावलोकनात् क्षीणे चित्ते नो जायते पुनः ।
जीवः कदाचन तदा भवेत् तीर्णभवार्णवः ॥
महानुभावसम्पर्कात् संसारार्णवलङ्घने ।
युक्तिस् सम्प्राप्यते राम दृढा नौर् इव नाविकात् ॥
यस्मिन् देशमरौ राम नास्ति सज्जनपादपः ।
सफलश् शीतलच्छायो न तत्र निवसेद् बुधः ॥
स्निग्धशीतवचःपत्त्रे सच्छाये स्मितपुष्पिते ।
क्षणाद् विश्रम्यते राम भृशं सुजनषण्डके ॥
तदभावे महामोहदाहसन्ततिदायिनि ।
किञ्चिज्जातविवेकेन स्वप्तव्यं नेह धीमता ॥
आत्मैव ह्य् आत्मनो बन्धुर् आत्मनात्मानम् उद्धरेत् ।
नात्मानम् अवलेपेन जन्मपङ्कार्णवे क्षिपेत् ॥
किम् इदं कथम् आयातं किम्मूलं किमपक्षयम् ।
देहदुःखम् इति प्राज्ञैः प्रेक्षणीयं प्रयत्नतः ॥
न धनानि न मित्राणि न शास्त्राणि न बन्धवः ।
नराणाम् उपकुर्वन्ति मग्नस्वात्मसमुद्धृतौ ॥
मनोमात्रेण सुहृदा सदैव सहवासिना ।
सह किञ्चित् परामृश्य भवत्य् आत्मा समुद्धृतः ॥
वैराग्याभ्यासयत्नाभ्यां स्वपरामर्शजन्मना ।
तत्त्वालोकेन पोतेन तीर्यते भवसागरः ॥
शोच्यमानं जनैर् नित्यं दह्यमानं दुराशया ।
नात्मानम् अवमन्येत प्रोद्धरेद् एनम् आदरात् ॥
अहङ्कारमहालानं तृष्णारज्जुं मनोमदम् ।
जन्मजम्बालनिर्मग्नं जीवदन्तिनम् उद्धरेत् ॥
अयम् एतावतैवात्मा त्रातो भवति राघव ।
यद् अपास्य विमूढत्वम् अहङ्कारः प्रमार्ज्यते ॥
एतावतैव सन्मार्गो याति प्रकटताम् अलम् ।
यद् अपास्य मनोमोहम् अहम्भावो विलीयते ॥
एतावतैव देवेशः परमात्मावगम्यते ।
काष्ठलोष्टसमत्वेन देहो यद् अवलोक्यते ॥
अहङ्काराम्बुदे क्षीणे दृश्यते चिद्दिवाकरः ।
ततस् तत्परिणामेन तत् पदं समवाप्यते ॥
यथा ध्वान्तसमुच्छेदे स्वयम् आलोकवेदनम् ।
तथाहङ्कारविच्छेदे स्वयम् आत्मावलोकनम् ॥
अहङ्कारसमुच्छेदे यावस्था सुसमोदया ।
सा परा भरिताकारा सा सर्वव्यापिनी चितिः ॥
परिपूर्णार्णवप्रख्या न वाग्गोचरम् एति नः ।
नोपमानम् उपादत्ते नानुधावति रञ्जनम् ॥
केवलं चित्प्रकाशांशकलिता स्थिरतां गता ।
तुर्या चेत् प्राप्यते दृष्टिस् तत् तया सोपमीयते ॥
अदूरगतसादृश्या सुषुप्तस्योपलक्ष्यते ।
सावस्था भरिताकारा गगनश्रीर् इवाम्बुधेः ॥
मनोऽहङ्कारविलये सर्वभावान्तरस्थिता ।
समुदेति परानन्दा या तनुः पारमेश्वरी ॥
सा स्वयं योगसंसिद्ध्या सुषुप्तादूरभाविनी ।
न गम्या वचसां राम हृद्य् एवेहानुभूयते ॥
अखिलम् इदम् अनन्तम् आत्मतत्त्वं दृढपरिणामिनि चेतसि स्थिते ऽन्तः ।
बहिर् उपशमिते चराचरात्मा स्वयम् अनुभूयत एव देवदेवः ॥
तदनु विषयवासनाविनाशस् तदनु शुभः परमस्फुटः प्रकाशः ।
तदनु च समतावशात् स्वरूपे परिणमनं महताम् अचिन्त्यरूपे ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0