भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.65

5.65.1

मनसैव मनश् छित्त्वा यद्य् आत्मा नावलोक्यते ।
ममेत्य् अहम् इति त्यक्त्वा तत् तामरसलोचन ॥

5.65.2

नास्तम् एति जगद्दुःखं यथा चित्रगतो रविः ।
आपद् आयात्य् अनन्तत्वं महार्णववद् आतता ॥

5.65.3

पुनः पुनर् उपायाति जडकल्लोलकारिणी ।
मेघनीलतरुश्यामा संसृतिप्रावृड् आकुला ॥

5.65.4

अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ।
संवादं सुहृदोस् सह्यसानौ भासविलासयोः ॥

5.65.5

अस्त्य् उत्सेधजिताकाशः पीठेन जितभूतलः ।
तलेन जितपातालस् त्रिलोकविजयी गिरिः ॥

5.65.6

असह्यकुसुमापूरो ऽसह्यनिर्मलनिर्झरः ।
गुह्यकारक्षितनिधिस् सह्यनामाविषह्यभाः ॥

5.65.7

मुक्तापटलसम्पूर्णैर् धातुपाटलभित्तिभिः ।
भासुरः काञ्चनतटैः कटैर् इव सुरद्विपः ॥

5.65.8

क्वचित् पुष्पभराशारो धातुशारतरः क्वचित् ।
क्वचित् फुल्लसरश्शारो रत्नशारशिराः क्वचित् ॥

5.65.9

इतो रटन्निर्झरवान् इतः क्वणितकीचकः ।
इतो रटद्गुहावात इतष् षट्पदघुङ्घुमी ॥

5.65.10

सानौ गीताप्सरोवृन्दो वने मृदुखगारवः ।
अधित्यकायां मत्ताभ्रो गहनेषु मृगारवी ॥

5.65.11

विद्याधरोद्गीतगुहो भृङ्गगीताम्बुजाकरः ।
किरातागीतपर्यन्तः खगागीतवनद्रुमः ॥

5.65.12

स्कन्धेषु देवैर् वलितः पादेषु वलितो नरैः ।
पाताले वलितो नागैर् जगद्गेहम् इवापरम् ॥

5.65.13

कन्दरेषु श्रितस् सिद्धैर् निधानैर् अन्तर् आश्रितः ।
चन्दनेषु श्रितो नागैस् सिंहैश् शृङ्गशिखासु च ॥

5.65.14

पुष्पाभ्रसंवीतवपुः पुष्परेण्वभ्रपांसुलः ।
पुष्पपत्त्राभ्रभृद्वातः पुष्पपादपपाण्डुरः ॥

5.65.15

धातुधूल्यभ्रकपिलो रत्नोपलतलस्थितिः ।
स दारुजैर् इव सुरस्त्रीगणैर् अलम् आश्रितः ॥

5.65.16

अभ्रनीलांशुकच्छन्ना मूकरत्नविभूषणाः ।
शिलाकनकसुन्दर्यो यत्र शृङ्गाभिसारिकाः ॥

5.65.17

तत्रोत्तरतटे सानाव् आनमत्फलपादपे ।
रत्नपुष्करिणीजालवहन्निर्झरवारिणि ॥

5.65.18

चूतद्रुमलतोन्मुक्तपुष्पस्तबकदन्तुरे ।
विदुलाङ्कोल्लपुन्नागनीपनीरन्ध्रदिक्तटे ॥

5.65.19

लतावितानच्छन्नार्के रत्नांशुभरभासुरे ।
स्रवज्जम्बूरसक्नूते स्वर्लोकाह्लादकारिणि ॥

5.65.20

ब्रह्मलोकसमस् स्वर्गरम्यश् शिवपुरोपमः ।
अत्रेर् अस्त्य् आश्रमश् श्रीमान् सिद्धश्रमहरो महान् ॥

5.65.21

महत्य् अत्र्याश्रमे तस्मिंस् तापसौ द्वौ बभूवतुः ।
कौचिद् एव नभोमार्ग इव शुक्रबृहस्पती ॥

5.65.22

तयोर् अथैकास्पदयोस् तत्राभूतां सुताव् उभौ ।
कुलाङ्कुरौ शुद्धतनू सरस्वत्य् अम्बुजाव् इव ॥

5.65.23

विलासभासनामानौ वृद्धिम् आययतुः क्रमात् ।
तौ पित्रोः पल्लवौ शीघ्रं लतापादपयोर् इव ॥

5.65.24

आस्ताम् अन्योऽन्यसुहृदौ सुस्निग्धौ वल्लभौ मिथः ।
तिलतैलवद् आश्लिष्टौ तौ पुष्पामोदवत् स्थितौ ॥

5.65.25

नाभूतां विप्रयुक्तौ तौ सुरक्ताव् इव दम्पती ।
एकं द्वित्वम् इवापन्नं समम् आसीत् तयोर् मनः ॥

5.65.26

तौ तथान्योऽन्यमुदितौ मनोहरतराकृती ।
तस्थतुस् स्वाश्रमे मौने सरोज इव षट्पदौ ॥

5.65.27

प्रापतुर् यौवनं बाल्यम् उत्सृज्य जनवल्लभौ ।
कालेनाल्पतरेणैव चन्द्रसूर्याव् इवोदितौ ॥

5.65.28

जग्मतुर् देहम् उत्सृज्य ततस् तौ पितरौ तयोः ।
स्वर्गं जरार्ताव् उड्डीय नीडाद् इव विहङ्गमौ ॥

5.65.29

पञ्चत्वं गतयोः पित्रोर् दीनवक्त्रौ बभूवतुः ।
सन्नाङ्गौ विगतोत्साहौ पद्माव् इव जलोद्धृतौ ॥

5.65.30

तत्रौर्ध्वदैहिकं कृत्वा चक्राते परिदेवनम् ।
लोकस्थितिर् अलङ्घ्या हि महताम् अपि मानद ॥

5.65.31

कृत्वौर्ध्वदैहिकम् अथो व्यथयाभिभूतौ शोकोत्थया करुणम् आर्तगिरा विलप्य ।
चित्रार्पिताव् इव निरस्तसमस्तचेष्टौ तौ संस्थितौ सुसमशून्यहृदादिनान्तम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc