मोक्षोपाय · अध्याय 5.63
राजन् नूनं प्रबुद्धो ऽसि प्राप्तवान् असि तत् पदम् ।
संशीतलान्तःकरणः पूर्णेन्दुर् इव राजसे ॥
आनन्दमधुसम्पूर्णो लक्ष्म्या च परया श्रितः ।
शीतलस्निग्धमधुरो राजीवम् इव राजसे ॥
निर्मलो विततः पूर्णो गम्भीरः प्रकटाशयः ।
वेलानिलबलोल्लासमुक्तो ऽब्धिर् इव राजसे ॥
स्वच्छस् स्वानन्दसम्पूर्णो गताहङ्कारवारिदः ।
स्फुटं विस्तीर्णगम्भीरश् शरत्खम् इव राजसे ॥
सर्वत्र लक्ष्यसे स्वस्थस् सर्वत्र परितुष्यसि ।
सर्वत्र वीतरागो ऽसि राजन् सर्वत्र राजसे ॥
सारासारपरिच्छेदपारगस् त्वं महाधिया ।
जानासि सर्वम् एवेदं यथास्थितम् अखण्डितम् ॥
भावाभावपरिच्छेदतत्त्वज्ञ मुदिताशय ।
समासमदशालौल्यमुक्तं तव वपुस् स्थितम् ॥
वस्तुनावस्तुनैवान्तर् अमृतेनेव सागरः ।
अपुनःप्रक्षयायैव परितृप्तो ऽसि सुन्दर ॥
न तद् अस्ति मुने वस्तु यत्रोपादेयतास्ति नः ।
यावत् किञ्चिद् इदं दृश्यं तावद् एव न किञ्चन ॥
उपादेयस्य चाभावाद् धेयम् अप्य् अस्ति किं किल ।
प्रतियोगिव्यवच्छेदं विना हेयं किम् उच्यते ॥
तुच्छत्वात् सर्वभावानाम् अतुच्छत्वाच् च कालतः ।
चिरं मम परिक्षीणे तुच्छातुच्छमनस्स्थिती ॥
देशकालवशाद् दृष्ट्वा तुच्छस्यातुच्छताम् इह ।
अतुच्छस्य तु तुच्छत्वं वर्ज्ये निन्दास्तुती बुधैः ॥
रागान् निन्दास्तुती लोके रागश् च परिवाञ्छनात् ।
वाञ्छ्यते च महोदारं वस्तु शोभनबुद्धिना ॥
त्रिलोक्यां च स्त्रियश् शैलास् समुद्रा वनराजयः ।
भूतानि च सुशून्यानि सारो नास्त्य् उत्तमस् ततः ॥
मांसार्बुदाभमृद्वर्तिमये जगति जर्जरे ।
वाञ्छनीयविहीने ऽस्मिञ् शून्ये किम् इव वाञ्छ्यते ॥
वाञ्छायां विनिवृत्तायां सङ्क्षयो द्वेषरागयोः ।
दिनलक्ष्म्यां व्यतीतायाम् आलोकातपयोर् इव ॥
अलम् अतिविततैर् वचःप्रपञ्चैर् इयम् उचितेह सुखाय दृष्टिर् एका ।
समुपशमितवासनं मनो ऽन्तर् यदि मुदितं हि तद् उत्तमा प्रतिष्ठा ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0