भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.61

5.61.1

एतां दृष्टिम् अवष्टभ्य न मनः परितप्यते ।
घोरे तमसि निर्मग्नं लब्धदीपश् शिशुर् यथा ॥

5.61.2

विवेकावस्थया चेतस् तन्व्यैवायाति निर्वृतिम् ।
पतञ् श्वभ्रे दृढतृणप्रचयालम्बनाद् इव ॥

5.61.3

बुद्ध्वैतां पावनीं दृष्टिं भावयित्वाप्य् उदाहरन् ।
नित्यम् एकसमाधानो भव भूषितभूतलः ॥

5.61.4

कथम् एकसमाधानं कीदृशं वा मुनीश्वर ।
वाताहतमयूराङ्गरुहलोलं मनो भवेत् ॥

5.61.5

शृणु तस्यैव सुरघोः प्रबुद्धस्य सतस् तदा ।
पर्णादस्य च राजर्षेस् संवादम् इमम् अद्भुतम् ॥

5.61.6

राघवैकसमाधानबोधितायोदितात्मनोः ।
परस्परसमालापम् इमं प्रकटयामि ते ॥

5.61.7

बभूव पारसीकानां पार्थिवः परवीरहा ।
परिघो नाम विख्यातः परिघस् स्यन्दने यथा ॥

5.61.8

स बभूव परं मित्रं सुरघो रघुनन्दन ।
नन्दनोद्यानसंस्थस्य मदनस्येव माधवः ॥

5.61.9

कदाचित् परिघस्याभूद् अकाण्डं मण्डले महत् ।
कल्पान्त इव संसारे प्रजादुष्कृतदोषजम् ॥

5.61.10

विनेशुर् जनतास् तत्र बह्व्यः क्षुत्क्षतजीविताः ।
ज्वलिते विपिने वह्नौ यथा भूतपरम्पराः ॥

5.61.11

तद्दुःखं परिघो दृष्ट्वा विषादम् अतुलं ययौ ।
तत्याज चाखिलं राज्यं दग्धं ग्रामम् इवाध्वगः ॥

5.61.12

प्रजानाशप्रतीकारेष्व् असमर्थो विरागवान् ।
जगाम विपिनं कर्तुं तपो जिनमुनीन्द्रवत् ॥

5.61.13

पौराणाम् अपरिज्ञातः कस्मिंश्चिद् दूरकानने ।
स उवास विरक्तात्मा लोकान्तर इवापरे ॥

5.61.14

तपश् चरञ् शान्तमतिर् दान्तः कन्दरमन्दिरः ।
स्वयं शीर्णानि शुष्काणि तत्र पर्णान्य् अभक्षयत् ॥

5.61.15

चिरं हुताशवच् छुष्कपर्णान्य् एवाथ भक्षयन् ।
पर्णाद इति नामासौ प्राप मध्ये तपस्विनाम् ॥

5.61.16

ततः प्रभृति पर्णादनामा राजर्षिसत्तमः ।
जम्बुद्वीपे बभूवासौ विख्यातो मुनिसद्मसु ॥

5.61.17

ततो वर्षसहस्रेण तपसा दारुणात्मना ।
प्रापद् अभ्यासवशतो ज्ञानम् आत्मप्रसादजम् ॥

5.61.18

बभूव विगतद्वन्द्वो नीरागस् समदर्शनः ।
निरीहो निरनुक्रोशो जीवन्मुक्तः प्रबुद्धधीः ॥

5.61.19

विजहार यथाकामं त्रिलोकीमठिकाम् इमाम् ।
सिद्धसाध्यैस् समं साधो सहंसो ऽलिर् इवाब्जिनीम् ॥

5.61.20

एकदा तस्य सदनं हेमचूडमहीपतेः ।
प्राप रत्नविनिर्माणं मेरोश् शृङ्गम् इवापरम् ॥

5.61.21

ते तत्र प्राक्तने मित्रे पूजाम् अकुरुतां मिथः ।
पूर्णां विज्ञातविज्ञेयौ मौर्ख्यगर्ताद् विनिर्गते ॥

5.61.22

अहो नु मम कल्याणैः फलितं बत पावनैः ।
सम्प्राप्तवान् अहं यत् त्वाम् इत्य् अन्योऽन्यम् अथोचतुः ॥

5.61.23

आलिङ्गितशरीरौ ताव् अन्योऽन्यानिन्दिताकृती ।
एकासने विविशतुश् चन्द्रार्काव् इव भूधरे ॥

5.61.24

परमानन्दम् आयातं चेतस् त्वद्दर्शनेन मे ।
चन्द्रबिम्ब इवोन्मग्नम् अन्तश्शीतलतां गतम् ॥

5.61.25

अकृत्रिमं सुहृत्प्रेम वियोगे शतशाखताम् ।
प्रयाति पल्वलतटे छिन्नरूढ इव द्रुमः ॥

5.61.26

विस्रब्धांस् तान् कथालापांस् ता लीलास् तच् च चेष्टितम् ।
संस्मृत्य प्राक्तनं साधो हृष्याम्य् एव पुनः पुनः ॥

5.61.27

ज्ञानम् एतन् मया प्राप्तं त्वया ज्ञानं यथानघ ।
माण्डव्यस्य प्रसादेन परमात्मप्रसादजम् ॥

5.61.28

अद्य कच्चिद् अदुःखस् त्वं कच्चिद् विश्रान्तवान् असि ।
परमे कारणे मेराव् इव भूमण्डलाधिप ॥

5.61.29

कच्चित् परमकल्याण स्वात्मारामतया तव ।
प्रसादो जायते चित्ते शरदीव सरोऽम्भसि ॥

5.61.30

कच्चित् करोषि समया सुप्रसन्नगभीरया ।
दृष्ट्या सुभग कार्याणि कार्याण्य् एव नराधिप ॥

5.61.31

निराधिव्याधयो धीराः कच्चित् सम्पन्नशालयः ।
जनतास् तव देशेषु तिष्ठन्ति विगतज्वरम् ॥

5.61.32

कच्चिद् उद्दामफलिनी फलिनीव लतानता ।
धरा तव फलापूरैर् भृशं धारयति प्रजाः ॥

5.61.33

कच्चित् तव दिगन्तेषु चन्द्रस्येवांशुपञ्जरम् ।
तुषारनिकराकारं प्रसृतं पावनं यशः ॥

5.61.34

कच्चिद् गुणशतैर् एता दिशो निर्विवरीकृताः ।
त्वया सरोऽम्भसा बन्धो बिसानाम् इव भित्तयः ॥

5.61.35

कच्चित् कलमकेदारकोणस्थाणुषु हर्षुलाः ।
प्रतिग्रामं कुमार्यस् ते गायन्त्य् आनन्ददं यशः ॥

5.61.36

कुशलं तव धान्येषु धनेषु विभवेषु च ।
भृत्येष्व् अथ कलत्रेषु पुत्रेषु नगरेषु च ॥

5.61.37

आधिव्याधिविहीनेयं कच्चित् कायलता तव ।
फलं फलति पुण्याख्यं यद् इहामुत्र चोदितम् ॥

5.61.38

आपातरमणीयेषु पर्यन्तात्यन्तवैरिषु ।
कच्चिद् विषयसर्पेषु सविरागं मनस् तव ॥

5.61.39

अहो बत चिरं कालम् आवां विश्लेषम् आगतौ ।
कालेन श्लेषितौ भूयो वसन्ताद्रितटाव् इव ॥

5.61.40

न ता जगति विद्यन्ते सुखदुःखदशास् सखे ।
जीवद्भिर् या न दृश्यन्ते संयोगजवियोगजाः ॥

5.61.41

तथैतास्व् अतिदीर्घासु दशास्व् अन्यत्वम् आगताः ।
भूयो वयम् अपि श्लिष्टाश् चित्रा हि नियतिर् विधेः ॥

5.61.42

भगवन् नियतेर् अस्या गतिं दीपगतेर् इव ।
दैविक्याः को हि जानाति गम्भीरां विस्मयप्रदाम् ॥

5.61.43

त्वम् अहं च वियोज्यातिदूरे दूरदशासु च ।
अद्य सङ्घटितौ भूयः किम् असाध्यम् अहो विधेः ॥

5.61.44

वयं त्व् अद्य महासत्त्व भृशं कुशलिनस् स्थिताः ।
त्वदागमनपुण्येन परां पावनतां गताः ॥

5.61.45

ईषत् त्वदागमक्षीणपापानां पुण्यपादपैः ।
तथा फलितम् अस्माकं न यथा वयम् आकुलाः ॥

5.61.46

सर्वास् सम्पत्तयो ऽस्माकं राजर्षे संस्थिताः पुरे ।
भवदागमनेनाद्य प्रयाताश् शतशाखताम् ॥

5.61.47

विकिरति परितो रसायनानाम् इव निकरं मधुरं महानुभाव ।
तव वचनम् अवेक्षणं च पुण्यं परमपदप्रतिमो हि साधुसङ्गः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc