भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.60

5.60.1

इति हेमजटाधीशो लेभे पदम् अनुत्तमम् ।
विवेकाध्यवसायेन ब्राह्मण्यम् इव गाधिजः ॥

5.60.2

अनन्ताकारकार्यासु नासीच् चेष्टासु खेदवान् ।
भूयो भूयः प्रयुक्तासु दिनमालास्व् इवेश्वरः ॥

5.60.3

ततः प्रभृति सो ऽतिष्ठत् सर्वेहाविगतज्वरम् ।
समासमे स्वके कार्ये जलौघो ऽग्र इवानते ॥

5.60.4

हर्षामर्षविनिर्मुक्तः प्रकृतं कार्यम् आचरन् ।
उदारगम्भीरवपुर् जहाराम्बुनिधेश् श्रियम् ॥

5.60.5

सुषुप्तसमधर्मिण्या चित्तवृत्त्या व्यराजत ।
निष्कम्पया प्रकाशिन्या दीपस् स्वशिखयेव सः ॥

5.60.6

न निर्घृणो दयावान् नो न द्वन्द्वी नाप्य् अमत्सरः ।
न सुखी नासुखी नार्थी नानर्थी स बभूव ह ॥

5.60.7

समदर्शनया नित्यं वृत्त्या चामलधीरया ।
अन्तश्शीतलया रेजे परिपूर्णेन्दुबिम्बवत् ॥

5.60.8

सर्वं चित्तत्त्वकचनं जगद् इत्य् अवलोक्य सा ।
प्रशान्तसुखदुःखश्रीस् तस्य पूर्णा मतिर् बभौ ॥

5.60.9

उल्लसन् विलसन् घूर्णंस् तिष्ठन् गच्छञ् श्वसन् स्वपन् ।
अभूत् स स्वसमाधिस्थः प्रबुद्धश् चिल्लयं गतः ॥

5.60.10

स कुर्वन् विगतासङ्गं राज्यं राजीवलोचनः ।
अतिष्ठद् अक्षताकारो भूरिवर्षशतान्य् अथ ॥

5.60.11

सन्निवेशम् इमं देहनामकं तदनु स्वयम् ।
स जहौ तेजसाक्रान्तो रूपं हिमकणो यथा ॥

5.60.12

विवेश परम् आद्यं तत् कारणं कारणेश्वरम् ।
प्रज्ञया सरिता वारिपूरः पूर्णम् इवाम्बुधिम् ॥

5.60.13

अधिगतविमलैकरूपतेजा गगनदशां समुपेत्य शान्तशोकः ।
अलम् अभवद् असौ परं स्वरूपं घटखम् इवाम्बरसंयुतं महात्मा ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc