भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.62

5.62.1

अथैवम्प्रायया तत्र विश्रम्भकथया चिरम् ।
प्राक्तनस्नेहगर्भिण्या स्थित्वोवाचायुधाभिधः ॥

5.62.2

यद् यत् संसारजाले ऽस्मिन् क्रियते कर्म भूमिप ।
तत् समाहितचित्तस्य सुखायान्यस्य नानघ ॥

5.62.3

कच्चित् सङ्कल्परहितं परं विश्रमणास्पदम् ।
परमोपशमश्रेयस् समाधिम् अनुतिष्ठसि ॥

5.62.4

एतन् मे ब्रूहि भगवन् सर्वसङ्कल्पवर्जितम् ।
परमोपशमश्रेयस् समाधिर् हि किम् उच्यते ॥

5.62.5

यो ज्ञो महात्मन् सततं तूष्णीं व्यवहरंश् च वा ।
असमाहितचित्तो ऽसौ कदा भवति कः किल ॥

5.62.6

नित्यप्रबुद्धचित्तास् तु कुर्वन्तो ऽपि जगत्क्रियाः ।
आत्मैकतत्त्वतन्निष्ठास् सदैव सुसमाधयः ॥

5.62.7

बद्धपद्मासनस्यापि कृतब्रह्माञ्जलेर् अपि ।
अविश्रान्तस्वभावस्य कस् समाधिः कथं च वा ॥

5.62.8

तत्त्वावबोधो भगवन् सर्वाशातृणपावकः ।
प्रोक्तस् समाधिभेदेन न तु तूष्णीम् अवस्थितिः ॥

5.62.9

समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी ।
साधो समाधिशब्देन परा प्रज्ञोच्यते बुधैः ॥

5.62.10

अक्षुब्धा निरहङ्कारा द्वन्द्वेष्व् अनभिपातिनी ।
प्रोक्ता समाधिशब्देन मेरोस् स्थिरतरा स्थितिः ॥

5.62.11

निश्चिन्ता विगताभीष्टा हेयोपादेयवर्जिता ।
प्रोक्ता समाधिशब्देन परिपूर्णा मनोगतिः ॥

5.62.12

यतः प्रभृति बोधेन युक्तम् आत्यन्तिकं मनः ।
तद् आरभ्य समाधानम् अव्युच्छिन्नं महात्मनः ॥

5.62.13

न हि प्रबुद्धमनसो भूत्वा विच्छिद्यते पुनः ।
समाधिर् दूरम् आकृष्टो बिसतन्तुश् शिशोर् इव ॥

5.62.14

समग्रं दिनम् आलोकाद् विरमत्य् अक्षि नो यथा ।
आजीवितान्तं मे प्रज्ञा तथा तत्त्वावलोकनात् ॥

5.62.15

अजस्रम् अम्बु वहनाद् यथा नद्या न रुध्यते ।
तथा विज्ञानदृग् बोधात् क्षणमात्रं न रुध्यते ॥

5.62.16

न विस्मरत्य् अविरतं यथा कालकला गतिम् ।
न विस्मरत्य् अविरतं स्वात्मानं प्राज्ञधीस् तथा ॥

5.62.17

न विस्मरति सर्वत्र यथा सततगो गतिम् ।
न विस्मरति निश्चेत्यं चिन्मात्रं प्राज्ञधीस् तथा ॥

5.62.18

गतिं कालकला यद्वच् चिन्वाना समवस्थिता ।
चिच् चिरं चेत्यरहितं चिन्वानाङ्गं तथा स्थिता ॥

5.62.19

यथा सत्ताविहीनात्मा पदार्थो नोपलभ्यते ।
तथात्मज्ञानहीनात्मा कालो ज्ञस्य न लभ्यते ॥

5.62.20

न सम्भवति संसारे गुणहीनो गुणी यथा ।
न सम्भवत्य् आत्मसंविद्वर्जितो ह्य् आत्मवांस् तथा ॥

5.62.21

सर्वदैवास्मि सम्बुद्धस् सर्वदैवास्मि निर्मलः ।
सर्वदैवास्मि शान्तात्मा सर्वदास्मि समाहितः ॥

5.62.22

भेदः केन समाधेर् मे जन्यते कथम् एव वा ।
आत्मनो व्यतिरिक्तेन नित्यम् एवासदात्मना ॥

5.62.23

तस्मात् कदाचिद् अपि मे न समाधिमयं मनः ।
न चासमाहितं नित्यम् आत्मतत्त्वैकसम्भवात् ॥

5.62.24

सर्वगस् सर्वदैवात्मा सर्वम् एव च सर्वथा ।
असमाधिर् हि को ऽसौ स्यात् समाधिर् अपि कस् स्मृतः ॥

5.62.25

नित्यं समाहितधियस् सुशमा महान्तस् तिष्ठन्ति कार्यपरिणामविभागमुक्ताः ।
तेनासमाहितसमाहितभेदभङ्ग्या मिथ्योदितं न तु मदुत्तमवाक्प्रपञ्चः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc