भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.58

5.58.1

अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ।
किरातेशस्य सुरघोर् वृत्तान्तं विस्मयप्रदम् ॥

5.58.2

उत्तरस्या दिशो मेदः कर्पूरपटलं भुवः ।
सम्भृतं हसनं शार्वं शुक्लो वा चान्द्र आतपः ॥

5.58.3

हिमाद्रेश् शृङ्गम् अस्तीह कैलासो नाम पर्वतः ।
शैलजालस्य सन्मुक्ताकलापस्येव नायकः ॥

5.58.4

विष्णोः क्षीरोदक इव स्वर्गस् सुरपतेर् इव ।
अब्जजस्येव नाभ्यब्जं गृहं यश् शशिमौलिनः ॥

5.58.5

रुद्राक्षवृन्ददोलाभिस् साप्सरोभिर् विभाति यः ।
लोलरत्नशलाकाभिर् लहरीभिर् इवार्णवः ॥

5.58.6

गणाङ्गनानाम् अनिशं मत्तानां चरणैर् हताः ।
अशोका इव राजन्ते यत्राशोका विकासिनः ॥

5.58.7

सञ्चरच्छङ्करे दिक्षु भृगुष्व् इन्दुमणिद्रवैः ।
निवर्तन्ते प्रवर्तन्ते यत्राजस्रं च निर्झराः ॥

5.58.8

यो लतागुल्मवृक्षौघवापीह्रदनदीनदैः ।
मृगपक्षिगणैर् भीतैर् ब्रह्माण्डवद् इहावृतः ॥

5.58.9

तस्य हेमजटा नाम किरातास् संस्थितास् तले ।
पिपीलका वरतरोर् मूलकोशगता इव ॥

5.58.10

कैलासपादारण्यान्यां जटालायां सुगुल्मकैः ।
वसन्ति यौकवत् क्षुद्रास् ते तन्निकटजीविनः ॥

5.58.11

आसीत् तेषाम् उदारात्मा राजा परपुरञ्जयः ।
जयलक्ष्म्या भुज इव यः प्रजायाश् च दक्षिणः ॥

5.58.12

सुरघुर् नाम बलवान् सुरघोरारिदर्पहा ।
मूर्तः पराक्रम इव मूर्तिमान् इव मारुतः ॥

5.58.13

जिनो वैराग्यविभवैर् धनैर् गुह्यकनायकः ।
शतक्रतुगुरुर् बोधैः काव्यैर् असुरदैशिकः ॥

5.58.14

स चक्रे राजकार्याणि निग्रहानुग्रहक्रमैः ।
यथाप्राप्तान्य् अखिन्नात्मा दिनानीव दिवाकरः ॥

5.58.15

तज्जाभ्यां सुखदुःखाभ्याम् अथ तस्याभ्यभूयत ।
सुमतिर् वागुराबन्धैश् श्लिष्टैर् ग्रीवेव पक्षिणः ॥

5.58.16

किम् आर्तं पीडयाम्य् एनं तिलयन्त्रम् इवौजसा ।
सर्वेषाम् एव भूतानां ममेवार्तिः प्रजायते ॥

5.58.17

धनम् अस्मै प्रयच्छामि धनेनानन्दवाञ् जनः ।
भवत्य् अहम् इवाशेषस् तद् अलं मे विनिग्रहैः ॥

5.58.18

अथ वा निग्रहं प्राप्तं करोम्य् एतेन वै विना ।
वर्तते न प्रजैवेयं विना वारि सरिद् यथा ॥

5.58.19

हा कष्टम् एष निग्राह्यो दिष्ट्यानुग्राह्य एष मे ।
दिष्ट्याद्य सुखवान् अस्मि कष्टम् अद्यास्मि दुःखवान् ॥

5.58.20

इति दोलायितं चेतो न विशश्राम भूपतेः ।
एकत्राम्बुमहावर्ते चिरं तृणम् इव भ्रमत् ॥

5.58.21

अथैकदा गृहं तस्य माण्डव्यो मुनिर् आययौ ।
भ्रान्ताशेषककुप्कुञ्जो वासवस्येव नारदः ॥

5.58.22

तम् असौ पूजयाम् आस पप्रच्छ च महामुनिम् ।
सन्देहदुर्द्रूमस्तम्भपरशुं सर्वकोविदम् ॥

5.58.23

भवदागमनेनास्मि मुने निर्वृतिम् आगतः ।
परमां वसुधापीठं सम्प्राप्त इव माधवे ॥

5.58.24

अद्य तिष्ठाम्य् अहं नाथ धन्यानां धुरि धर्मतः ।
विकासि रविणेवाब्जं यत् त्वयास्मि विलोकितः ॥

5.58.25

भगवन् सर्वधर्मज्ञ चिरं विश्रान्तवान् असि ।
तद् इमं संशयं छिन्द्धि ममार्कस् तिमिरं यथा ॥

5.58.26

महतां सङ्गमेनार्तिः कस्य नाम न नश्यति ।
सन्देहं तु पराम् आर्तिम् आहुर् आर्तिविदो जनाः ॥

5.58.27

मन्निग्रहानुग्रहजा मद्भृत्यवपुषि स्थिताः ।
कषन्ति माम् अलं चिन्ता गजं हरिनखा इव ॥

5.58.28

तद् यथा समतोदेति सूर्यांशुर् इव सर्वगा ।
मतौ मम मुने मान्य तथा करुणया कुरु ॥

5.58.29

स्वायत्तेन स्वसंस्थेन स्वेनोपायेन भूपते ।
एषा मनःपेलवता हिमवत् प्रविलीयते ॥

5.58.30

स्वविचारणयैवाशु शाम्यत्य् अन्तर् मनोज्वरः ।
शरदागममात्रेण मिहिका महती यथा ॥

5.58.31

स्वेनैव मनसा स्वानि स्वशरीरगतानि च ।
विचारयेन्द्रियाण्य् अन्तः कीदृशान्य् अथ कानि वा ॥

5.58.32

को ऽहं कथम् इदं किं वा कथं मरणजन्मनी ।
विचारयान्तर् एतत् त्वं महत्ताम् अलम् एष्यसि ॥

5.58.33

विचारेण परिज्ञातस्वभावस्य सतस् तव ।
हर्षामर्षदृशश् चेतस् तोलयिष्यन्ति नाचलम् ॥

5.58.34

मनस् स्वं रूपम् उत्सृज्य शमम् एष्यति विज्वरम् ।
भूतपूर्ववपुर् भूत्वा तरङ्गः पयसीव ते ॥

5.58.35

तिष्ठद् एव मनो रूपं परित्यक्ष्यति ते ऽनघ ।
कलङ्कविकलं काल ऋत्वन्तरगताव् इव ॥

5.58.36

अनुकम्प्या भविष्यन्ति श्रीमन्तस् सर्व एव ते ।
दृष्टतत्त्वस्य तुष्टस्य जनाः पितुर् इवावनौ ॥

5.58.37

विवेकदीपदृष्टात्मा मेर्वब्धिनभसाम् अपि ।
अधः करिष्यसि नृप महत्ताम् उत्तमार्थदाम् ॥

5.58.38

महत्ताम् आगतं चेतस् तव संसारवृत्तिषु ।
न निमङ्क्ष्यति हे साधो गोष्पदेष्व् इव वारणः ॥

5.58.39

कृपणं तु मनो राजन् पेलवे ऽपि निमज्जति ।
कार्ये गोष्पदतोये ऽपि जीर्णाङ्गो मषको यथा ॥

5.58.40

चेतो वासनया पङ्के कीटवत् परिमज्जति ।
दृश्यमात्रावलम्बिन्या स्वया दीनतया तया ॥

5.58.41

तावत् तावन् महाबाहो स्वयं सन्त्यज्यते ऽखिलम् ।
यावद् यावत् परालोकः परमात्मैव शिष्यते ॥

5.58.42

तावत् प्रक्षाल्यते धातुर् यावद् धेमैव शिष्यते ।
तावद् आलोक्यते सर्वं यावद् आत्मैव लक्ष्यते ॥

5.58.43

सर्वं सर्विकया बुद्ध्या स्वयं सर्वत्र सर्वदा ।
सर्वथा सम्परित्यज्य स्वात्मनात्मोपलभ्यते ॥

5.58.44

यावत् सर्वं न सन्त्यक्तं तावद् आत्मा न लभ्यते ।
सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते ॥

5.58.45

यावद् अन्यन् न सन्त्यक्तं तावत् सामान्यम् एव हि ।
वस्तु नासाद्यते साधो स्वात्मलाभे तु का कथा ॥

5.58.46

यत्र सर्वात्मना स्वात्मलाभाय पतति स्वयम् ।
त्यक्तान्यकार्यः प्राप्नोति तन् नाम नृप नेतरत् ॥

5.58.47

आत्मावलोकनार्थं तु तस्मात् सर्वं परित्यजेत् ।
सर्वं किञ्चित् परित्यज्य यच् छिष्टं तत् परं पदम् ॥

5.58.48

सकलकारणकार्यपरम्परामयजगद्गतवस्तुविजृम्भितम् ।
अलम् अपास्य मनस् स्ववपुस् ततः परिविलूय च यच् छुभम् अस्ति तत् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc