भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.57

5.57.1

यद् आत्ममरिचस्यान्तश् चित्त्वात् तीक्ष्णत्ववेदनम् ।
तद् अहन्त्वादि भेदादि देशकालादि वेत्त्य् अदः ॥

5.57.2

यद् आत्मलवणस्यान्तश् चित्त्वाल् लावण्यवेदनम् ।
तद् अहन्त्वादिभेदादिदेशकालादिमत् स्थितम् ॥

5.57.3

स्वतो यद् अन्तर् आत्मेक्षोश् चित्त्वान् माधुर्यवेदनम् ।
तद् अहन्त्वादि भेदादि जगत्तादीति जृम्भितम् ॥

5.57.4

स्वतो यद् आत्मदृषदश् चित्त्वात् काठिन्यवेदनम् ।
तद् अहन्त्वादिभेदादिदेशकालादितां गतम् ॥

5.57.5

स्वतो यद् आत्मशैलादिज्ञतया जाड्यवेदनम् ।
तद् अहन्त्वादि भेदादि भुवनादीति संस्थितम् ॥

5.57.6

स्वतो यद् आत्मतोयस्य चिद्द्रवत्वाद् विवर्तनम् ।
तद् आवर्ताद्य् अहन्तादि भेदाद्य् आकारितादि च ॥

5.57.7

स्वतो य आत्मवृक्षस्य शाखादिस् तस्य वेदनम् ।
तद् अहन्तादि भेदादि भुवनादीव संस्फुटम् ॥

5.57.8

यद् आत्मगगनस्यान्तश् चित्त्वाच् छून्यत्ववेदनम् ।
तद् अहन्तादि भेदादि भावनादीति भावितम् ॥

5.57.9

यद् आत्मगगनस्यान्तश् चित्त्वात् सौषिर्यवेदनम् ।
तद् अहन्तादि चित्तादि शरीरादीव दीपितम् ॥

5.57.10

स्वतो यद् आत्मकुड्यस्य नैरन्तर्यं निरन्तरम् ।
तद् अहन्तादिभेदेन चित्त्वाद् बहिर् इव स्थितम् ॥

5.57.11

स्वतो यद् आत्मसत्ताया वित्त्वात् सत्त्वैकवेदनम् ।
तद् अहन्त्वादि भेदादि चेतनादीति वा स्थितम् ॥

5.57.12

अन्तर् आत्मप्रकाशस्य स्वतो यद् अवभासनम् ।
तद् अहन्त्वादि वित्त्वादि जीव इत्य् एव वेत्त्य् असौ ॥

5.57.13

अन्तर् अस्ति यद् आत्मेन्दोश् चिद्रूपं चिद्रसायनम् ।
स्वत आस्वाद्यते तेन तद् अहन्तादिनोदितम् ॥

5.57.14

परमात्मगुडस्यान्तर् यच् चित्स्वादूदयात्मकम् ।
तद् एवास्वाद्यते तेन स्वतो ऽहन्तादिनान्तरे ॥

5.57.15

परमात्ममणेश् चित्त्वाद् यद् अन्तः कचनं स्वयम् ।
चेतनात्म तद् एवान्तर् अहम् इत्यादि वेत्त्य् असौ ॥

5.57.16

न च किञ्चन वेत्त्य् अन्तर् वेद्यस्यासम्भवाद् इह ।
न चास्वादयति स्वादु स्वाद्यस्यासम्भवाद् अलम् ॥

5.57.17

न च किञ्चिच् चिनोत्य् अन्तश् चेत्यस्यासम्भवे सति ।
वेद्यते न च वा किञ्चिद् वेद्यस्यासम्भवाद् असौ ॥

5.57.18

असदाभास एवात्मा अनन्तो भरिताकृतिः ।
स्थितस् सदैवैकघनो महाशैल इवात्मनि ॥

5.57.19

अनया तु वचोभङ्ग्या मया वो रघुनन्दन ।
नाहन्तादिजगत्तादिभेदो ऽस्तीति निदर्शितम् ॥

5.57.20

न चित्तम् अस्ति नो चेत्ता न जगत्तादिविभ्रमः ।
दृषदीवाम्बरम् अतश् शान्तं शाम्यति केवलम् ॥

5.57.21

यथावर्तादिताम् एति द्रवत्वाद् वारि वारिणि ।
तथाहन्तादिताम् एति ज्ञत्वाज् ज्ञप्तौ ज्ञ आत्मनि ॥

5.57.22

यथा द्रवत्वं पयसि यथा स्पन्दस् सदागतौ ।
अहन्तादेशकालादि तथा ज्ञे ज्ञप्तिमात्रके ॥

5.57.23

ज्ञो ज्ञतायां हि यज् ज्ञानं जानाति ज्ञानबृंहया ।
ज्ञायते तद् अहन्तादि जीवाद्य् अप्य् अभिजीवनैः ॥

5.57.24

यथोदेति यदा ज्ञस्य ज्ञप्तिर् ज्ञानेन यादृशी ।
अनन्यैवान्यतां बुद्ध्वा सा तदा जृम्भते तथा ॥

5.57.25

जीवस्य जीवितं ज्ञानं ज्ञतायां जीवजीवने ।
अणुर् अप्य् अस्ति नो भेदो विरूपत्वे ज्ञजीवयोः ॥

5.57.26

यथा ज्ञजीवयोर् नास्ति भेदो राम तथैतयोः ।
भेदो ऽस्ति न ज्ञजगतोर् विद्धि शान्तम् अखण्डितम् ॥

5.57.27

सर्वं प्रशान्तम् अजम् एकम् अनादिमध्यम् आभासनं स्वदनमात्रम् अचेत्यचिह्नम् ।
सर्वं प्रशान्तम् अति शब्दमयी तु दृष्टिर् बोधार्थम् एव हि मुधैव तद् ओम् इतीदम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc