भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.59

5.59.1

इत्य् उक्त्वा भगवान् एनं सुरघुं रघुनन्दन ।
ययौ स्वाम् एव ककुभं माण्डव्यो मौनमण्डनः ॥

5.59.2

गते वरमुनौ राजा गत्वैकान्तम् अनिन्दितम् ।
धिया सञ्चिन्तयाम् आस को नामाहम् इति स्वयम् ॥

5.59.3

नाहं मेरुर् न मे मेरुर् जगन् नाहं न मे जगत् ।
नाहं शैला न मे शैला न धराहं न मे धरा ॥

5.59.4

किरातमण्डलं नेदं मम नाहं च मण्डलम् ।
निजसङ्केतमात्रेण केवलं देश एष मे ॥

5.59.5

त्यक्तो मयैष सङ्केतो नाहं देशो न चैष मे ।
इदानीं नगरं शिष्टम् एष एवात्र निश्चयः ॥

5.59.6

पताकापुरपट्टाढ्या भृत्योपवनसङ्कुला ।
गजाश्वसामन्तयुता पुरी नाहं न मे पुरी ॥

5.59.7

व्यर्थसङ्केतसम्बद्धं सङ्केतविगमे क्षतम् ।
भोगवृन्दं कलत्रं च नाहं नैतन् ममाखिलम् ॥

5.59.8

एवं सभृत्यं सबलं सवाहनपुरान्तरम् ।
नाहं राज्यं न मे राज्यं सङ्केतो ह्य् अयम् आकुलः ॥

5.59.9

देहमात्रम् अहं मन्ये हस्तपादादिसंयुतम् ।
तद् एतत् तावद् आश्व् अन्तर् अहम् आलोकयाम्य् अलम् ॥

5.59.10

तद् अत्र तावन् मांसास्थि नाहम् एतद् अचेतनं ।
न चैतन् मम संश्लेषम् एत्य् अब्जस्य यथा जलम् ॥

5.59.11

मांसं जडं न तद् अहं नैवाहं रक्तम् अप्य् अलम् ।
जडान्य् अस्थीनि नैवाहं न चैतानि मम क्वचित् ॥

5.59.12

कर्मेन्द्रियाणि नैवाहं न च कर्मेन्द्रियाणि मे ।
जडं यत् किल देहे ऽस्मिंस् तद् अहं नैव चेतनः ॥

5.59.13

नाहं भोगा न मे भोगा न मे बुद्धीन्द्रियाणि च ।
जडान्य् असत्स्वरूपाणि न च बुद्धीन्द्रियाण्य् अहम् ॥

5.59.14

मूलं संसृतिदोषस्य मनो नाहं जडं हि तत् ।
अथ बुद्धिर् अहङ्कार इति दृष्टिर् मनोमयी ॥

5.59.15

मनोबुद्धीन्द्रियाद्यन्तो भूतकोशश् च तद् वपुः ।
नाहम् एवं शरीरादि शिष्टम् आलोकयाम्य् अहम् ॥

5.59.16

शेषस् तु चेतनाजीवस् स च चेत्येन चेतति ।
अन्येन बोध्यमानो ऽसौ नात्मतत्त्ववपुर् भवेत् ॥

5.59.17

एवं त्यजामि संवेद्यं चेत्यं नाहं हि तत् किल ।
शेषो विकल्परहितो विशुद्धा चिद् अहं स्थितः ॥

5.59.18

चित्रम् एषो ऽस्मि लब्धात्मा जातः कालेन कार्यवित् ।
एष सो ऽहम् अनन्तात्मा क्वान्तो ऽस्य परमात्मनः ॥

5.59.19

ब्रह्मणीन्द्रे यमे वायौ सर्वभूतगणे तथा ।
स एष भगवान् आत्मा तन्तुर् मुक्तास्व् इव स्थितः ॥

5.59.20

चिच्छक्तिर् अमला सैषा चेत्यामयविवर्जिता ।
भरिताशेषदिक्कुञ्जा भैरवाकारधारिणी ॥

5.59.21

सर्वभावगता सूक्ष्मा भावाभावविवर्जिता ।
आब्रह्मभुवनान्तस्था सर्वशक्तिसमुद्गिका ॥

5.59.22

सर्वसौन्दर्यसुभगा सर्वप्राकाश्यदीपिका ।
सर्वसंसारमुक्तानां तन्तुर् आततरूपिणी ॥

5.59.23

सर्वाकारविकाराढ्या सर्वाकारविवर्जिता ।
सर्वभूतौघतां याता सर्वदा सर्वतां गता ॥

5.59.24

चतुर्दशविधान्य् एषा भूतानि भुवनोदरे ।
एतन्मयीयं कलना जागती वेदनात्मिका ॥

5.59.25

मिथ्यावभासमात्रं तु सर्वदुःखदशागतिः ।
नानाकारमयाभासं सर्वम् आत्मैव चित् परा ॥

5.59.26

सेयम् आत्मा मम व्यापी सेयं मदवबोधनम् ।
सेयम् आकलिताङ्गेहा करोति नृपतिभ्रमम् ॥

5.59.27

अस्या एव प्रसादेन मनो देहरथस्थितम् ।
संसारजाललीलासु याति वल्गति नृत्यति ॥

5.59.28

इदं मनश् शरीरादि न किञ्चित् अपि वस्तुतः ।
नष्टे न किञ्चित् अप्य् अस्मिन् परिनश्यति पेलवे ॥

5.59.29

जगज्जालमयं नृत्तम् इदं चित्तनटैस् ततम् ।
एतयैवैकया पङ्क्त्या दृश्यते दीपलेखया ॥

5.59.30

कष्टं मुधैव मे चिन्ता निग्रहानुग्रहस्थितौ ।
बभूव देहनिष्ठैव न किञ्चिद् अपि देहकः ॥

5.59.31

नन्व् अहो सम्प्रबुद्धो ऽस्मि गतं दुर्दर्शनं मम ।
दृष्टं द्रष्टव्यं अखिलं प्राप्तं प्राप्यम् इदं मया ॥

5.59.32

सर्वं किञ्चित् इदं दृश्यं दृश्यते यज् जगद्गतम् ।
चिन्निष्ष्यन्दांशमात्रं तन् नान्यत् किञ्चन शाश्वतम् ॥

5.59.33

क्व तौ कीदृग्विधौ वापि किंनिष्ठौ वा किमात्मकौ ।
निग्रहानुग्रहौ लोके हर्षामर्षक्रमौ तथा ॥

5.59.34

किं सुखं किं च वा दुःखं सर्वं ब्रह्मेदम् आततम् ।
अहम् आसं मुधा मूढो दिष्ट्यामूढो ऽस्म्य् अहं स्थितः ॥

5.59.35

किम् अस्मिन्न् एवम् आलोके शोच्यते किं विमुह्यते ।
किं प्रेक्ष्यते किम् क्रियते स्थीयते क्व क्व गम्यते ॥

5.59.36

किञ्चित् इत्थम् इदं नाम चिदाभासं विराजते ।
नमो नमस् ते निस्तत्त्व दृष्टदृश्यो ऽसि सुन्दर ॥

5.59.37

अहो नु सम्प्रबुद्धो ऽस्मि सम्यग् ज्ञातम् अलं मया ।
नमो मह्यम् अनन्ताय सम्यग्ज्ञानोदयाय च ॥

5.59.38

विगतरञ्जननिर्विषयस्थितिर् गतभवभ्रम ईहितवर्जितः ।
स्थिरसुषुप्तकलातिगतस् ततस् समसमं निवसाम्य् अहम् आत्मनि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc