मोक्षोपाय · अध्याय 5.56
क्रमेणानेन रिपुहन् विचार्यात्मानम् आत्मना ।
विश्रान्तिम् एति वितते पदे पद्मदलेक्षण ॥
शास्त्रार्थगुरुचेतोभिस् तावत् तावद् विचार्यते ।
सर्वदृश्यक्षयाभ्यासाद् यावद् आसाद्यते परम् ॥
वैराग्याभ्यासशास्त्रार्थप्रज्ञागुरुयमक्रमैः ।
पदम् आसाद्यते पुण्यं प्रज्ञयैवैकयाथ वा ॥
सम्प्रबोधवती तीक्ष्णा कलङ्करहिता मतिः ।
सर्वसामग्र्यहीनापि प्राप्यं प्राप्नोति शाश्वतम् ॥
भगवन् भूतभव्येश कश्चिज् ज्ञातसमाधिकः ।
प्रबुद्ध इति विश्रान्तो व्यवहारपरो ऽपि सन् ॥
कश्चिद् एकान्तम् आश्रित्य समाधिनियतस् स्थितः ।
तयोस् तु कतरश् श्रेयान् इति मे भगवन् वद ॥
इमं गुणसमाहारम् अनात्मत्वेन पश्यतः ।
अन्तश्शीतलता यासौ समाधिर् इति कथ्यते ॥
दृश्यैर् मम न सम्बन्ध इति निश्चित्य शीतलः ।
कश्चित् संव्यवहारस्थः कश्चिद् ध्यानव्यवस्थितः ॥
द्वाव् एतौ राम सुसमाव् अन्तश् चेत् परिशीतलौ ।
अन्तश्शीतलता या स्यात् तद् धनं तत् तपःफलम् ॥
समाधिस्थानकस्थस्य चेतश् चेद् वृत्तिचञ्चलम् ।
तत् तस्य तत् समाधानं समम् उन्मत्तताण्डवैः ॥
उन्मत्तताण्डवस्थस्य चेतश् चेत् क्षीणवासनम् ।
तद् अस्योन्मत्तनृत्तं तत् समं बुद्धसमाधिना ॥
व्यवहारी प्रबुद्धो यः प्रबुद्धो यो वने स्थितः ।
द्वाव् एतौ पुरुषौ नूनम् असन्देहपदं गतौ ॥
अकर्तृ कुर्वद् अप्य् एतच् चेतः प्रतनुवासनम् ।
दूरे गतमना जन्तुः कथासंश्रवणे यथा ॥
अकुर्वद् अपि कर्त्र् एव चेतः प्रघनवासनम् ।
निस्स्पन्दाङ्गम् अपि स्वप्ने श्वभ्रपातस्थिताव् इव ॥
चेतसो यद् अकर्तृत्वं तत् समाधानम् उत्तमम् ।
तं विद्धि केवलीभावं सा शुभा निर्वृतिः परा ॥
चेतश्चलाचलत्वं हि परमं कारणं स्मृतेः ।
ध्यानाध्यानदृशोस् तेन तद् एवानङ्कुरं कुरु ॥
अवासनं स्थिरं प्रोक्तं मनो ध्यानं तद् एव च ।
स एव केवलीभावश् शान्तं तत्रैव तत् सदा ॥
तनुवासनम् अप्य् उच्चैःपदायोद्यतम् उच्यते ।
अवासनं मनो ऽकर्तृपदं तस्माद् अवाप्यते ॥
घनवासनम् एतत् तु चेतः कर्तृत्वभावनम् ।
सर्वदुःखप्रदं तस्माद् वासनास् तनुताम् नयेत् ॥
प्रशान्तजगदास्थो ऽन्तर् वीतशोकभयैषणः ।
स्वस्थो भवति येनात्मा स समाधिर् इति स्मृतः ॥
चेतसा सम्परित्यज्य सर्वभावान् सभावनान् ।
यथा तिष्ठसि तिष्ठ त्वं तथा शैले गृहे ऽथ वा ॥
गृहम् एव गृहस्थानां सुसमाहितचेतसाम् ।
शान्ताहङ्कृतिदोषाणां विजना वनभूमयः ॥
अरण्यसदने तुल्ये समाहितमनोदृशाम् ।
महताम् इह भूतानां भूतानां महताम् इव ॥
शाम्यच्चित्तमहाभ्रस्य जनजालोज्ज्वलान्य् अपि ।
नगराण्य् एव शून्यानि वनान्य् अवनिपात्मज ॥
वृत्तिमच्चित्तमत्तस्य निर्जनानि वनान्य् अपि ।
नगराणि महालोकपूर्णानि परवीरहन् ॥
व्युत्थितं चित्तम् अभ्येति भ्रमे शान्ते सुषुप्तताम् ।
निर्वाणम् एति निर्वाणं यथेच्छसि तथा कुरु ॥
सर्वभावपदातीतं सर्वभावात्मकं च वा ।
यः पश्यति सदात्मानं स समाहित उच्यते ॥
सहात्मना सदैवेदं जगत् पश्यति नो मनः ।
यथा स्वप्ने तथैवास्मिञ् जाग्रत्य् अपि जनेश्वर ॥
यथा विपिनगा लोका विहरन्तो ऽप्य् असत्समाः ।
असम्बन्धात् तथा ज्ञस्य ग्रामो ऽपि विपिनोपमः ॥
अन्तर्मुखमना नित्यं सुप्तो बुद्धो व्रजन् पठन् ।
पुरं जनपदं ग्रामम् अरण्यम् इव पश्यति ॥
सर्वम् आकाशताम् एति नित्यम् अन्तर्मुखस्थितेः ।
सर्वथानुपयोगित्वाद् भूताकुलम् इदं जगत् ॥
अन्तश्शीतलतायां तु लब्धायां शीतलं जगत् ।
विज्वराणाम् इव नृणां भवत्य् आ जीवितस्थितेः ॥
अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ।
भवत्य् अखिलजन्तूनां यद् अन्तस् तद् बहिस् स्थितम् ॥
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिर् अवस्थिताः ॥
वटधानावट इव अन्तर् अस्य यद् आत्मनः ।
तद् बहिर् भासते भास्वद् विकसत्पुष्पगन्धवत् ॥
न बहिष्ट्वं न चान्तस्त्वं क्वचित् किञ्चन विद्यते ।
यद् यथा कचितं चित्त्वात् तत् तथा तथ्यम् उत्थितम् ॥
आत्मतत्त्वोदरं भाति बहिष्ट्वेन जगत्तया ।
कर्पूरम् इव गन्धेन सङ्कोचि प्रविकासि च ॥
आत्मेदं स्फुरति स्फारं जगत्त्वेनाप्य् अहन्तया ।
बाह्यत्वेनान्तरत्वेन स च नासन् न सद्विभुः ॥
बहिष्ट्वेनाश्रितं बाह्यम् अन्तस्त्वेनान्तरं स्थितम् ।
यथाविदितम् आत्मायं स्वचित्त्वम् अनुपश्यति ॥
सबाह्याभ्यन्तरं शान्तम् आत्मनो ऽभेदनं जगत् ।
अहन्तादौ स्थिते देहे भूरिभङ्गं भयं तु सत् ॥
द्यौः क्षमा वायुर् आकाशं पर्वतास् सरितो दिशः ।
कल्पाग्निनेव ज्वलितं सर्वम् आधिहतात्मनः ॥
यस् त्व् आत्मरतिर् एवान्तः कुर्वन् कर्मेन्द्रियैः क्रियाः ।
न वशो हर्षशोकाभ्यां स समाहित उच्यते ॥
यस् सर्वगतम् आत्मानं पश्यन् समुपशान्तधीः ।
न शोचति ध्यायति वा स समाहित उच्यते ॥
सपूर्वापरपर्यन्ता यः पश्यञ् जागतीर् गतीः ।
दृष्टिष्व् एतासु हसति स समाहित उच्यते ॥
समे परे ऽस्ति नाहन्ता न जगज्जन्मनी मयि ।
वीचिवृन्देष्व् इवानप्त्वं न नाशे फेनधातवः ॥
यस्यान्तर् अस्ति नाहन्त्वं न विभागादि नो मम ।
न चेतनाचेतनते सो ऽस्ति नास्तीतरो जनः ॥
व्योमस्वच्छो भवन् स्वेहां सम्यग् आचरतीह यः ।
हर्षामर्षविकारेषु काष्ठलोष्टसमस् स सन् ॥
आत्मवत् सर्वभूतानि परद्रव्याणि लोष्टवत् ।
स्वभावाद् एव न भयाद् यः पश्यति स पश्यति ॥
अर्थो ऽतनुस् तनुर् वापि नासद्रूपेण चेत्यते ।
न सद्रूपेणानुभूतो ज्ञेनाज्ञेनेव तत्तया ॥
ईदृशाशयसम्पन्नो महासत्त्वपदं गतः ।
तिष्ठतूदेतु वा यातु मृतिम् एतु निहन्तु वा ॥
वसतूत्तमभोगाढ्ये स्वगृहे वा जनाकुले ।
सर्वभोगोज्झिताभोगे सुमहत्य् अथ वा वने ॥
उद्दाममर्दलं पानतत्परो वापि नृत्यतु ।
सर्वसङ्गपरित्यागी शमम् आयातु वा गिरौ ॥
चन्दनागुरुकर्पूरैर् वपुर् वा परिलिम्पतु ।
ज्वालाजटिलविस्तारे निपतत्व् अथ वानले ॥
पापं करोतु सुमहद् बहलं पुण्यम् एव वा ।
अद्यैव मृतिम् आयातु कल्पान्तनिचयेन वा ॥
नासौ किञ्चिन् न तत् किञ्चित् कृतं तेन महात्मना ।
नासौ कलङ्कम् आप्नोति हेम पङ्कगतं यथा ॥
संवित्पुरुषशब्दार्थैस् सकलङ्कैः कलङ्क्यते ।
अहन्त्ववासनारूपैश् शुक्तिकारजतोपमैः ॥
समस्तवस्तुप्रशमस् सम्यग्ज्ञानाद् यथास्थितेः ।
स एवास्योपशान्तो ऽन्तः कलङ्को ऽसत्तया यतः ॥
अहन्त्ववासनानर्थः प्रसूते संविदात्मनः ।
पुरुषस्य विचित्राणि सुखदुःखानि जन्मभूः ॥
रज्ज्वां सर्पभ्रमे शान्ते गेहिनो निर्वृतिर् यथा ।
अहन्त्वभावसंशान्तौ तथान्तस्समता मता ॥
यत् करोति यद् अश्नाति यद् ददाति जुहोति वा ।
न तज् ज्ञस्य न तत्र ज्ञो मा करोतु करोतु वा ॥
कर्मणास्ति न तस्यार्थो नार्थस् तस्यास्त्य् अकर्मणा ।
यथास्वभावं भगवान् स आत्मन्य् एव संस्थितः ॥
इच्छास् ततस् समुद्यन्ति न मञ्जर्य इवोपलात् ।
याश् चोद्यन्ति च तास् सर्वास् स एवाम्ब्व् इव वीचयः ॥
सकलम् इदम् असाव् असौ च सर्वं जगद् अखिलं न विभागितात्र काचित् ।
परमपुरुषपावनैकरूपी स सद् इति तत् सद् अकिञ्चिद् एव वासौ ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0