मोक्षोपाय · अध्याय 5.55
आत्मज्ञानदिनैकार्क मत्संशयतृणानल ।
अज्ञानदाहशीतांशो सत्तासामान्यम् ईश किम् ॥
यदा सङ्क्षीयते चित्तम् अभावात्यन्तभावनात् ।
चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा ॥
नूनं चेत्यांशरहिता चिद् यदात्मनि लीयते ।
असद्रूपवद् अत्यच्छं सत्तासामान्यता तदा ॥
यदा सर्वाणि दृश्यानि संशान्तान्योऽन्यवेदनम् ।
स्वरूपेण स्वरूपाभं भाव्यन्ते समता तदा ॥
कूर्माङ्गानीव दृश्यानि लीयन्ते स्वात्मनात्मनि ।
अभावितान्य् एव यदा सत्तासामान्यता तदा ॥
दृष्टिर् एषा हि परमा सदेहादेहयोस् सदा ।
मुक्तयोस् सम्भवत्य् एव तुर्यातीतपदोपमा ॥
व्युत्थितस्य भवत्य् एषा समाधिस्थस्य चानघ ।
ज्ञस्य केवलम् अज्ञस्य न भवत्य् एव बोधजा ॥
अस्यां दृशि स्थितास् सर्वे जीवन्मुक्ता महाशयाः ।
सिद्धा रसा इव भुवि व्योमवीथ्याम् इवानिलाः ॥
अस्मत्प्रभृतयस् सर्वे नारदाद्याश् च राघव ।
ब्रह्मविष्ण्वीश्वराद्याश् च दृष्टाव् अस्यां व्यवस्थिताः ॥
एताम् आलम्ब्य पदवीं समस्तभयनाशिनीम् ।
उद्दालको ऽसाव् अवसद् यावदिच्छं जगद्गृहे ॥
अथ कालेन महता बुद्धिस् तस्य बभूव ह ।
विदेहमुक्तस् तिष्ठामि देहं त्यक्त्वेति निश्चला ॥
एवं निश्चयवान् अद्रेर् गुहायां पल्लवासने ।
बद्धपद्मासनस् तस्थाव् आमीलितविलोचनः ॥
संयम्य गुदसंरोधाद् द्वाराणि नव चेतसः ।
मात्रास्पर्शान् अचिन्वानो भावितस्वाङ्गचिद्घनः ॥
संरुद्धप्राणपवनस् समसंस्थानकन्धरः ।
तालुमूलतलालग्नजिह्वामूलोल्लसन्मुखः ॥
न बहिर् नान्तरे नाधो नोर्ध्वे नार्थे न शून्यके ।
संयोजितमनोदृष्टिर् दन्तैर् दन्तान् असंस्पृशन् ॥
प्राणप्रवाहसंरोधसमस् स्वच्छाननच्छविः ।
अङ्गचित्संविदुत्तानरोमकण्टकिताङ्गभूः ॥
अङ्गचित्संविदभ्यासाच् चित्सामान्यम् उपाददे ।
तदभ्यासाद् अवापान्तर् आनन्दस्यन्दम् उत्तमम् ॥
तदास्वादनतो लीनचित्सामान्यदशाक्रमः ।
विश्वम्भरम् अनन्तात्म सत्तासामान्यम् आययौ ॥
तत्स्थस् समसमाभोगः परां विश्रान्तिम् आगतः ।
अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः ॥
संशान्तानन्दपुलकः पदं प्राप्याप्य् अलं गतः ।
चिरकालपरिक्षीणमननादिभवभ्रमः ॥
बभूव स महासत्त्वो लिपिकर्मार्पितोपमः ।
समः कलावपूर्णेन शरदच्छाम्बरेन्दुना ॥
उपशशाम शनैर् दिवसैर् असौ कतिपयैस् स्वपदे विमलात्मनि ।
तरुरसश् शरदन्त इवामले रविकरौजसि जन्मदशातिगः ॥
गतसकलविकल्पो निर्विकारो ऽभिरामस् सकलमलविलासोपाधिनिर्मुक्तमूर्तिः ।
विगलितसुखम् आद्यं तत् सुखं प्राप यस्मिंस् तृणम् इव जलराशाव् उह्यते शक्रलक्ष्मीः ॥
अपरिमितनभोऽन्तर्व्यापिदिग्व्यापि पूर्णं भुवनभरणशीलं भूरिभाग्योपसेव्यम् ।
कथनगुणम् अतीतं सत्यम् आनन्दम् आद्यं सुखम् असुखम् अनन्तं ब्राह्मणो ऽसौ बभूव ॥
गतवति पदम् आद्यं चेतसि स्वस्वभावं द्विजतनुर् अथ मासैस् सोपविष्टा च षड्भिः ।
रविकरपरितप्ता वातझाङ्काररम्या तनुतरबहुतन्त्री शैलवीणा बभूव ॥
अथ बहुतरकालेनैनम् अद्रेर् भुवं ताम् उपययुर् अगकन्यासंयुता मातरः खात् ।
अभिमतफलसिद्ध्यै संयुता एव सर्वा अनलम् इव शिखानां पङ्क्तयः पिङ्गकेश्यः ॥
दिनकरकरशुष्कं विप्रकङ्कालकं तज् झगिति च करकोटौ बद्धखट्वाङ्गसङ्गा ।
सकलविबुधवन्द्या खिङ्खिनी देवदेवी निशि नवरतनृत्ता काचकान्तिं चकार ॥
इत्य् उद्दालकदेहको ऽद्य विलसन्मायूरबर्हव्रजव्यालोलाब्दलवे नवे विवलिते मन्दारमालागणैः ।
शेते खिङ्खिनिकामहाभगवतीलीलाललामे लताजाले भृङ्ग इवान्तपुष्पपटले पश्चाद् उपागच्छति ॥
एषोद्दालकचित्तवृत्तिकलनावल्ली विवेकस्फुरत्स्वानन्दप्रविकासभासिकुसुमा हृत्कानने विस्तृते ।
रूढा यस्य कदाचिद् एव विलसद्रम्येव सच्छायया नासाव् एति वियोगम् एति च फलेनोच्चैस्तरां सङ्गमम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0