भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.54

5.54.1

इति निर्णीय ततया धिया धवलया मुनिः ।
बद्धपद्मासनस् तस्थाव् अर्धोन्मीलितलोचनः ॥

5.54.2

ओङ्कारम् अकरोत् तारस्वरम् ऊर्ध्वगतध्वनिम् ।
सम्यगाहतलाङ्गूलं घण्टाकुम्भम् इवारवम् ॥

5.54.3

ओमुच्चारयतस् तस्य संवित्तत्त्वे तदुन्मुखे ।
यावदोङ्कारम् ऊर्ध्वस्थे वितते विमलात्मनि ॥

5.54.4

सार्धत्र्यंशात्ममात्रस्य प्रथमे ऽंशे स्फुटारवे ।
प्रणवस्य मनाक्क्षुब्धप्राणारणितदेहके ॥

5.54.5

रेचकाख्यो ऽखिलं कायं प्राणनिष्क्रमणक्रमः ।
रिक्तीचकार पीताम्बुर् अगस्त्य इव सागरम् ॥

5.54.6

अतिष्ठत् प्राणपवनश् चिद्रसापूरिते ऽम्बरे ।
त्यक्तदेहः परित्यक्तनीडः खग इवाम्बरे ॥

5.54.7

हृदयाग्निर् ज्वलञ् ज्वाली ददाह मलिनं वपुः ।
उत्पातपवनोच्छूनो दावश् शुष्कम् इव द्रुमम् ॥

5.54.8

यावदिच्छम् अवस्थैषा प्रणवप्रथमे क्रमे ।
बभूव न हठाद् एव हठयोगो हि दुःखदः ॥

5.54.9

अथेतरांशावसरे प्रणवस्य समस्थितौ ।
निस्स्पन्दकुम्भको नाम प्राणानाम् अभवत् क्रमः ॥

5.54.10

न बहिर् नान्तरे नाधो नोर्ध्वे नाशासु तत्र ते ।
सङ्क्षोभम् अगमन् प्राणा अर्धसंस्तम्भिता इव ॥

5.54.11

दग्धदेहपुरो वह्निश् शशामाशनिवत् क्षणात् ।
अदृश्यत सितं भस्म शारीरं हिमपाण्डुरम् ॥

5.54.12

यत्र कर्पूरशय्यायां सुप्तानीव सुखोचितम् ।
शरीरास्थीनि लक्ष्यन्ते निस्स्पन्दानि सितानि च ॥

5.54.13

तद् भस्म पवनाधूतं सास्थि वायुर् अयोजयत् ।
स्वदेहे भृशम् उच्छूने त्रिनेत्रव्रतवान् इव ॥

5.54.14

तच् चण्डपवनोद्धूतम् आवृत्य गगनं क्षणात् ।
शरदीवाभ्रमिहिका क्वापि भस्मास्थिमद् ययौ ॥

5.54.15

यावदिच्छम् अवस्थैषा प्रणवस्यापरे क्रमे ।
बभूव न हठाद् एव हठयोगो हि दुःखदः ॥

5.54.16

ततस् तृतीयावसरे प्रणवस्योपशान्तिदे ।
पूरणात् पूरको नाम प्राणानाम् अभवत् क्रमः ॥

5.54.17

अस्मिन्न् अवसरे प्राणाश् चेतनामृतमध्यगाः ।
व्योम्नि शीतलताम् ईयुर् हिमसंस्पर्शसुन्दरीम् ॥

5.54.18

क्रमाद् गगनमध्यस्थाश् चन्द्रमण्डलतां ययुः ।
धूमा गगनकोशस्थाश् शीतलाम्बुदताम् इव ॥

5.54.19

कलाकलापसम्पूर्णे ते तस्मिंश् चन्द्रमण्डले ।
पुण्यराशाव् इवापूर्णे रसायनमहार्णवे ॥

5.54.20

रसायनमहाधारास् सम्पन्नाः प्राणवायवः ।
मणियष्टिसमाकारा जलेष्व् इन्दोर् इवांशवः ॥

5.54.21

सा पपाताम्बराद् धारा शेषे शारीरभस्मनि ।
रासायनी हरशिरःपतितेव सुरापगा ॥

5.54.22

उदभूद् इन्दुबिम्बाभं चतुर्बाहुवपुस् तया ।
प्रस्फुरन्मन्दराद् अब्धेः पारिजात इव द्रुमः ॥

5.54.23

उद्दालकशरीरं तन् नारायणतयोदितम् ।
प्रफुल्तचूतवत् कान्तम् आबभौ दीप्तिसुन्दरम् ॥

5.54.24

रसायनमयाः प्राणास् तच्छरीरम् अपूरयन् ।
सरिदोघा इव सरो वृक्षं मधुरसा इव ॥

5.54.25

अन्तः कुण्डलिनीं प्राणाः पूरयाम् आसुर् आदृताः ।
वक्रानुवक्रप्रसृतास् सरांसीव सरित्स्खदाम् ॥

5.54.26

प्रकृतिस्थं बभूवास्य तच् छरीरं द्विजन्मनः ।
प्रावृट्संरम्भविगमे धौतं तलम् इवावनेः ॥

5.54.27

अथ पद्मासनगतः कृत्वा देहे स्थितिं दृढाम् ।
आलान इव मातङ्गं निबध्येन्द्रियपञ्चकम् ॥

5.54.28

निर्विकल्पसमाध्यर्थं व्यवसायम् उपाददे ।
स्वभावं स्वच्छतां नेतुं शरत्काल इवामलः ॥

5.54.29

स्वस्वान्तवातहरिणम् आशादिग्गणगामिनम् ।
चिन्तया हृदयं निन्ये दूराद् रज्ज्वेव कीलकम् ॥

5.54.30

धावमानम् अधो मत्तं चित्तम् आबिलम् आकुलम् ।
बलात् संरोधयाम् आस सेतुर् जलम् इव द्रुतम् ॥

5.54.31

न्यमीमिलद् दृशाव् अर्धं परिपक्ष्मलपक्ष्मके ।
निस्स्पन्दतारामधुपे सन्ध्याकाल इवाम्बुजे ॥

5.54.32

सोम्यताम् अनयन् मौनी प्राणापानजवं मुखे ।
श्वसनं श्रेयसे देशे प्रशस्तस् समयो यथा ॥

5.54.33

तिलेभ्य इव तैलानि पृथक् चक्रे प्रयत्नतः ।
इन्द्रियाणीन्द्रियार्थेभ्यः कूर्मो ऽङ्गानीव गोपयन् ॥

5.54.34

बाह्यान् स्पर्शान् अशेषेण जहौ दूरे शनैर् अरीन् ।
सहसा कुण्डकच्छन्नो मणिर् दूरं त्विषो यथा ॥

5.54.35

विलीनान् आन्तरांश् चक्रे स्पर्शान् उज्झितदर्शनान् ।
रसान् विटपकोशस्थान् मार्गशीर्ष इव द्रुमः ॥

5.54.36

रुरोध गुदसङ्कोचान् नवद्वारानिलान् अथ ।
मुखसंस्थगनात् कुम्भरन्ध्रकोशान् इवेतरान् ॥

5.54.37

आत्मरत्नप्रकाशाढ्यां स्पष्टां कुसुमलाञ्छिताम् ।
दधार कन्धरां धीरां मेरुश् शृङ्गशिखाम् इव ॥

5.54.38

दधार हृदयाकाशे मनस् संयमम् आगतम् ।
विन्ध्यखात इवोन्मत्तं गजं युक्तिवशीकृतम् ॥

5.54.39

शरन्नभोवद् आसाद्य निर्मलाम् अतिसोम्यताम् ।
जहार परिपूर्णाब्धेर् मेरोश् चातरलां श्रियम् ॥

5.54.40

दुधावाथ विकल्पौघान् प्रतिभासम् उपेयुषः ।
पुरःपरिस्फुरद्रूपान् मषकान् इव मारुतः ॥

5.54.41

आगच्छतो यथाकामं प्रतिभासान् पुनः पुनः ।
अच्छिनन् मनसा शूरः खड्गेनेव रणे शरान् ॥

5.54.42

विकल्पौघे परालूने सो ऽपश्यद् धृदयाम्बरे ।
तमश् छन्नविवेकार्कं लोलकज्जलमेचकम् ॥

5.54.43

तद् अप्य् उत्सारयाम् आस सम्यक् स्वान्तविवस्वता ।
सम्यग्ज्ञानोदितेनाशु पवनेनेव कज्जलम् ॥

5.54.44

तमस्य् उपरते कान्तं तेजःपुञ्जं ददर्श सः ।
शार्वरे तिमिरे शान्ते प्रातस् सान्ध्यम् इवाम्बुदम् ॥

5.54.45

तं लुलाव स्थलाब्जानां वनं बाल इव द्विपः ।
अपिबच् चाप्य् असृक्पूरं वेताल इव वेगतः ॥

5.54.46

तेजस्य् उपरते तस्य घूर्णमानं मनो मुनेः ।
निशाब्जवद् अगान् निद्रां लोलं क्षीववद् एव वा ॥

5.54.47

मेघमालां इव मरुद् बालो नीलाब्जिनीम् इव ।
यामिनीम् इव तीक्ष्णांशुस् ताम् अप्य् आशु लुलाव सः ॥

5.54.48

निद्राव्युपशमे तस्य भावयाम् आस तन् मनः ।
व्योम श्यामलदृग् जन्तुर् नभसीव शिखण्डकम् ॥

5.54.49

पयोद इव तापिञ्छं नीहारम् इव मारुतः ।
तमो दीप इवाच्छात्मा तद् अप्य् आशु ममार्ज सः ॥

5.54.50

व्योमसंविदि भग्नायां मूढं तस्याभवन् मनः ।
निद्रायां प्रविलीनायां मैरेयमदवान् इव ॥

5.54.51

मोहम् अप्य् एष मनसस् तं ममार्ज महाशयः ।
यामिनीजनितं जाड्यं भुवनाद् इव भास्करः ॥

5.54.52

ततस् तेजस्तमोनिद्रामोहादिपरिवर्जितम् ।
काम् अप्य् अवस्थाम् आसाद्य विशश्राम मनः क्षणम् ॥

5.54.53

विश्रम्याशु पपाताङ्गसंविदं चित्स्वरूपिणीम् ।
सेतुरुद्धं सरोवारि प्रतीपं स्वम् इवास्पदम् ॥

5.54.54

चिरानुसन्धानवशात् स्वदनाच् च स्वसंविदः ।
ततश् चिन्मयताम् आगाद् धेम नूपुरताम् इव ॥

5.54.55

चित्तत्वम् अथ सन्त्यज्य चित्तं चित्त्वं ततं गतं ।
अन्यद् एव बभूवाशु पङ्कः कुम्भस्थिताव् इव ॥

5.54.56

चेत्यं सन्त्यज्य चिच् छुद्धा चित्सामान्यम् अथाययौ ।
त्यक्तवीच्यादिभेदे ऽब्धौ वार्सामान्यम् इवैकधीः ॥

5.54.57

त्यक्तभूतौघमननं ततो विश्वम्भरं बृहत् ।
चिदाकाशं ततं शुद्धं सो ऽभवद् बोधिम् आगतः ॥

5.54.58

तत्र प्राप महानन्दं दृश्यदर्शनवर्जितम् ।
अनन्तम् उत्तमास्वादं रसायनम् इवार्णवम् ॥

5.54.59

शरीरात् समतीतो ऽसौ काम् अप्य् अवनिम् आगतः ।
सत्तासामान्यरूपात्मा बभूवानन्दसागरः ॥

5.54.60

द्विजचेतनहंसो ऽसाव् आनन्दसरसि स्थिरे ।
अतिष्ठच् छरदच्छे खे कलापूर्ण इवोडुपः ॥

5.54.61

बभूवावातदीपाभो लिपिकर्मार्पितोपमः ।
वीतवेलाम्बुधिप्रख्यो वृष्टमूकाम्बुदस्थितिः ॥

5.54.62

अथैतस्मिन् महालोके तिष्ठन्न् उद्दालकश् चिरम् ।
अपश्यद् व्योमगान् सिद्धान् अमरान् इव भूरिशः ॥

5.54.63

आगतानि विचित्राणि सिद्धजालानि चाभितः ।
शक्रार्कपददातॄणि नीरन्ध्राण्य् अप्सरोगणैः ॥

5.54.64

तानि नादरयां चक्रे सिद्धवृन्दानि स द्विजः ।
गम्भीरमतिर् अक्षुब्धो विलासान् इव शैशवान् ॥

5.54.65

सिद्धसार्थम् अनादृत्य तस्मिन् स्वानन्दमन्दिरे ।
अतिष्ठद् अथ षण्मासान् दिक्तटे ऽर्क इवोत्तरे ॥

5.54.66

जीवन्मुक्तपदं तत् तद् यत् स सम्प्राप्तवान् द्विजः ।
तत्र सिद्धास् सुरास् साध्यास् स्थिता ब्रह्महरादयः ॥

5.54.67

आनन्दपरिणामित्वाद् अनानन्दपदं गताः ।
नानन्दे न निरानन्दे ततस् तत्संविद् आबभौ ॥

5.54.68

क्षणं वर्षसहस्रं वा तत्र लब्ध्वा स्थितिं मनः ।
रतिम् एति न भोगौघे दृष्टस्वर्ग इवावनौ ॥

5.54.69

तत् पदं सा गतिश् शान्ता तच् छ्रेयश् शाश्वतं शिवम् ।
तत्र विश्रान्तिम् आप्तस्य न भूयो जायते श्रमः ॥

5.54.70

तत् पदं साधवः प्राप्य दृश्यदृष्टिम् इमां पुनः ।
न यान्ति खदिरोद्यानं लब्धचैत्ररथा इव ॥

5.54.71

तां महानन्दपदवीं चित्तान्य् आसाद्य देहिनाम् ।
दृश्यं न बहु मन्यन्ते राजानो दीनताम् इव ॥

5.54.72

चेतस् तत्पदविश्रान्तं बुद्धं दृश्यदशां प्रति ।
कदर्थाद् बोधम् आयाति न यात्य् एवाथ वानघ ॥

5.54.73

उद्दालको ऽथ षण्मासान् दूरोत्सारितसिद्धभूः ।
उषित्वोन्मिषतो ऽम्भोदकोशाद् अर्को मधाव् इव ॥

5.54.74

ददर्श सम्प्रबुद्धात्मा पुनः परमतेजसः ।
प्रणामलालसान् सिद्धांश् चन्द्रबिम्बवपुर्धरान् ॥

5.54.75

रमणीर् गौरमन्दाररेण्वभ्रामलचामराः ।
स्फुरत्पताकापटला द्युविमानपरम्पराः ॥

5.54.76

अस्मदादीन् मुनीन् दर्भपवित्राङ्ककराम्बुजान् ।
विद्याधरीभिर् वलितान् विद्याधरपतीन् अपि ॥

5.54.77

ते तम् ऊचुर् महात्मानम् उद्दालकमुनिं तदा ।
प्रसादेन प्रणामान् नो भगवन्न् अवलोकय ॥

5.54.78

आरुह्येमं विमानं त्वम् एहि त्रैविष्टपं पुरं ।
स्वर्ग एव हि सीमान्तो जगत्सम्भोगसम्पदाम् ॥

5.54.79

आकल्पम् उचितान् भुङ्क्ष्व भोगान् अभिमतान् विभो ।
स्वर्गादिफलभोगार्थम् एवाशेषतपःक्रियाः ॥

5.54.80

हारचामरधारिण्यो विद्याधरवराङ्गनाः ।
पश्येमास् त्वाम् उपासीनाः करिण्यः करिणं यथा ॥

5.54.81

कामो धर्मार्थयोस् सारः कामसाराश् शुचिस्मिताः ।
वसन्त इव मञ्जर्यस् स्वर्ग एव भवन्ति ताः ॥

5.54.82

एवं कथयतस् सिद्धान् अतिथीन् इत्य् असौ मुनिः ।
परिपूज्य यथान्यायम् अतिष्ठद् गतसम्भ्रमम् ॥

5.54.83

नाभ्यनन्दन् न तत्याज तां विभूतिं स धीरधीः ।
भोस् सिद्धा व्रजतेत्य् उक्त्वा स्वव्यापारपरो ऽभवत् ॥

5.54.84

अथ स्वकर्मनिरतं भोगेष्व् अरतिम् आगतम् ।
तम् उपास्य ययुस् सिद्धा दिनैः कतिपयैस् स्वयम् ॥

5.54.85

जीवन्मुक्तस् स च मुनिर् विजहार यथासुखम् ।
यावदिच्छं वनान्तेषु मुनीनाम् आश्रमेषु च ॥

5.54.86

मेरुमन्दरकैलासहिमवद्विन्ध्यसानुषु ।
द्वीपोपवनदिक्कुञ्जजङ्गलारण्यभूमिषु ॥

5.54.87

ततः प्रभृति सम्प्राप्तपद उद्दालको द्विजः ।
गुहासु गिरिकुक्षीणां न्यवसद् ध्यानलीलया ॥

5.54.88

कदाचिद् अह्ना मासेन कदाचिद् वत्सरेण च ।
कदाचिद् वत्सरौघेन ध्यानासक्तो व्यबुध्यत ॥

5.54.89

उद्दालकस् तद् आरभ्य व्यवहारपरो ऽपि सन् ।
सुसमाहित एवासीच् चित्तत्त्वैकत्वम् आगतः ॥

5.54.90

चित्तत्त्वैकघनाभ्यासान् महाचित्त्वम् उपेत्य सः ।
दृश्ये ऽस्मिंश् चित्ररविवन् नास्तम् आयान् न चोदयम् ॥

5.54.91

समपरपदलाभप्राप्तिसंशान्तचेता दलितजननपाशः क्षीणसन्देहदोलः ।
शरदि खम् इव कान्तं व्याततं चोर्जितं च स्फुटम् अमलम् अलेखं तत् वपुस् स्वं बभार ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc