मोक्षोपाय · अध्याय 5.53
अपारपर्यन्तवपुः परमाण्वणुर् एव वा ।
चिद् अचेत्या तदाक्रान्तौ न शक्ता वासनादयः ॥
मनश्शेमुष्यहङ्कारप्रतिबिम्बैश् शठेन्द्रियैः ।
वासनोत्थापिता शून्यवेताली त्रासनोद्यता ॥
तत्कृतेभ्यो विकारेभ्यो भीतिं तान्य् एव भूरिशः ।
भूयो ऽप्य् अनुभवन्त्व् अन्तर् अहं हि चिद् अलेपिका ॥
चितो न जन्ममरणे सर्वगायाश् चितः किल ।
किं नाम म्रियते ब्रूत मार्यते केन वापि किम् ॥
चितो न जीवितेनार्थस् सर्वात्मा सैव जीवितम् ।
किं प्राप्स्यति कदात्मैष प्राङ्मृतो यदि जीवति ॥
जीव्यते म्रियते चेति कुविकल्पकलापिनाम् ।
कलना मनसाम् एव नात्मनो विततात्मनः ॥
यो ह्य् अहम्भावतां प्राप्तो भावाभावैस् स गृह्यते ।
आत्मनो नास्त्य् अहम्भावो भावाभावाः कुतो ऽस्य ते ॥
अहम्भावो मुधा मोहो मनश् च मृगतृष्णिका ।
जडः पदार्थसम्भारः कस्याहम्भावभावना ॥
रक्तमांसमयो देहो मनो नष्टं विचारणात् ।
जडाश् चित्तादयस् सर्वे कुतो ऽहम्भावभावना ॥
आत्मम्भरितया नित्यम् इन्द्रियाणि स्थितान्य् अलम् ।
पदार्थाश् च पदार्थत्वे कुतो ऽहम्भावभावना ॥
गुणा गुणेषु वर्तन्ते प्रकृतिः प्रकृतौ स्थिता ।
सद् एव सति विश्रान्तं कुतो ऽहम्भावभावना ॥
सर्वगं सर्वदेहस्थं सर्वकालमयं महत् ।
केवलं परमाभानं चिदात्मैव हि संस्थितम् ॥
एवं किमाकृतिः को वा किमादेयश् च किङ्कृतः ।
किंरूपः किम्मयः को ऽहं किं गृह्णामि त्यजामि किम् ॥
तेनाहं नाम नेहास्ति भावाभावोपपत्तिमान् ।
अनहङ्काररूपस्य सम्बन्धः केन मे कथम् ॥
असत्य् अलम् अहङ्कारे सम्बन्धः केन कस्य कः ।
सम्बन्धाभावसंसिद्धौ विलीना द्वित्वकल्पना ॥
एवं ब्रह्मात्मकम् इदं यत् किञ्चिज् जगति स्थितम् ।
ब्रह्मैवास्ति तद् एवास्मि परिशोचामि किं मुधा ॥
एकस्मिन्न् एव विमले पदे सर्वगते स्थिते ।
अहङ्कारकलङ्कस्य कथं नामोदयः कुतः ॥
नास्त्य् एव हि पदार्थश्रीर् आत्मैवास्तीह सर्वगः ।
पदार्थलक्ष्म्यां सत्यां च सम्बन्धो ऽस्ति न कस्यचित् ॥
इन्द्रियैर् इन्द्रियेष्व् अङ्गैर् मनो मनसि वल्गति ।
चिद् अलुप्तवपुः केन सम्बद्धं कस्य किं कथम् ॥
उपलायश्शलाकानां सम्बन्धो न यथा मिथः ।
तथैकत्रापि दृष्टानां देहेन्द्रियमनश्चिताम् ॥
असदभ्युत्थिते व्यर्थम् अहङ्कारमहाभ्रमे ।
ममेदम् इदम् अस्येति विपर्यस्तम् इदं जगत् ॥
अतत्त्वालोकजातेयम् अहङ्कारचमत्कृतिः ।
तापेन हिमलेखेव तत्त्वालोकेन लीयते ॥
आत्मनो व्यतिरेकेण न किञ्चिद् अपि विद्यते ।
शब्दब्रह्मेति तत् तत्त्वम् एतत् तद् भावयाम्य् अलम् ॥
अहङ्कारभ्रमस्यास्य जातस्याकाशवर्णवत् ।
अपुनस्स्मरणं मन्ये नूनं विस्मरणं वरम् ॥
समूलं परिविस्मृत्य चिरायाहङ्कृतिभ्रमम् ।
तिष्ठाम्य् आत्मनि सत्यात्मा शरत्खे शरदीव खम् ॥
ददात्य् अनर्थनिचयं विकासयति दुष्कृतम् ।
विस्तारयति सन्तापम् अहम्भावो ऽनुसंहितः ॥
स्फुरत्य् अहङ्कारघने हृद्व्योम्नि सलिलात्मनि ।
विकसत्य् अभितः कायकदम्बे दोषमञ्जरी ॥
मरणम् जीवितोपान्तं जीवितं मरणान्तगम् ।
भावो ऽभावावधिच्छिन्नः कष्टेयं दुःखवेदना ॥
इदं लब्धम् इदं प्राप्स्यामीत्य् अन्तर्दाहकारिणी ।
न शाम्यत्य् अर्करत्नानां ग्रीष्मे ऽर्चिर् इव दुर्धियाम् ॥
नास्तीदम् इदम् अस्तीति चिन्ता धावत्य् अहङ्कृतिम् ।
जडाशया जडाम् अभ्रमाला शैलावलीम् इव ॥
अहङ्कारे परिक्षीणे शुष्कस् संसारपादपः ।
भूयः प्रयच्छत्य् अरसो न पाषाणवद् अङ्कुरम् ॥
सुतृष्णाकृष्णभोगिन्यो देहद्रुमकृतालयाः ।
क्वापि यान्ति विचारात्मन्य् आगते विनतासुते ॥
असदभ्युत्थिते विश्वे तज्जा वयम् असन्मयाः ।
असन्मयपरिस्पन्दे त्वम् अहं चेति कः क्रमः ॥
इदं जगद् उदेत्य् आदाव् अकारणम् अकारणात् ।
यद् अकारणम् उच्छूनं तत् सद् इत्य् उच्यते कथम् ॥
अपर्यन्तं पुरा कालं मृदि कुम्भ इवाकृतः ।
देहो ऽभवद् इदानीं तु तथैवान्ते भविष्यति ॥
मध्ये नरवयोमात्रं कञ्चित् कालं तु चञ्चलम् ।
आद्यन्तसोम्यते त्यक्त्वा वारि वीचितया यथा ॥
अस्मिन् क्षणपरिस्पन्दे देहे विशरणोन्मुखे ।
तरङ्गे च निबद्धास्था ये हतास् ते कुदृष्टयः ॥
प्राक् पुरस्ताच् च सर्वाणि सन्ति वस्तूनि चाभितः ।
मध्यस्फुटत्व एतेषां केवास्था हतरूपिणि ॥
चित्त पूर्वं पुरस्ताच् च विदेहं शान्तम् इत्य् असि ।
सद् असद् वा खसंलीनं मध्ये ऽस्मिन् किं तवोग्रता ॥
यथा स्वप्नविकारेषु यथा सम्भ्रमदृष्टिषु ।
यथा वा मदलीलासु यथा नौयानसम्भ्रमे ॥
यथा धातुविकारेषु यथा वेन्द्रियविप्लवे ।
यथातिसम्भ्रमानन्ददोषावेशवशेषु च ॥
दृश्यते क्षीयते चैव रूपं सदसतोश् चलम् ।
तथैवेदम् इयं त्व् एषा काले न्यूनातिरिक्तता ॥
सा च त्वया कृता नित्यं चित्त दुःखसुखोदयैः ।
यथा वियोगसंयोगयामिन्योर् अनुरागिणाम् ॥
त्वम् अप्य् एवासदाभासं मिथ्या सद् इव लक्ष्यसे ।
मृगतृष्णेव तेनैतत् त्वत्कृतं सत् कथं भवेत् ॥
यद् इदं किञ्चिद् आभोगि तत् सर्वं दृश्यमण्डलम् ।
अवस्त्व् इति विनिर्णीय मनो याह्य् अमनःपदम् ॥
अवस्त्व् इदम् इति स्फारे रूढे मनसि निश्चये ।
हेमन्त इव पद्मिन्यः क्षीयन्ते भोगवासनाः ॥
चिता दृष्टात्मना नूनं सन्त्यक्तमननौजसा ।
मनसा वीतरागेण स्वयं स्वस्थेन भूयते ॥
परमात्मानले क्षिप्तसंवित्त्यवयवं स्वयम् ।
दग्धात्मकम् अलं चित्तं शुद्धताम् एति शाश्वतीम् ॥
देहम् अन्यतया दृष्ट्वा त्यक्त्वा विषयवासनाम् ।
विनाशम् उररीकृत्य मनो जयति वीरवत् ॥
मनश् शत्रुश् शरीरस्य शरीरं मनसो रिपुः ।
एकभावेन नश्येते आधाराधेयकार्यवत् ॥
रागद्वेषवतोर् नित्यम् अन्योऽन्यातिविरुद्धयोः ।
एतयोर् मूलकाषेण विनाशः परमं सुखम् ॥
एतयोर् एकसंस्थाने रतिर् इत्य् एव या कथा ।
सा व्योम्न्य् अयस्स्त्रिया भुक्ता धरेति कथया समा ॥
अकृत्रिमविरोधस्थौ यत्र सङ्घटिताव् उभौ ।
धारा इव पतन्त्य् एव तत्रानर्थपरम्पराः ॥
मिथोविरुद्धसंसर्गे रतिम् एत्य् अधमो हि यः ।
त्यक्तव्यस् स पतद्वाराव् अग्निराशाव् अपेलवे ॥
सङ्कल्पेन मनस् स्पृष्ट्वा शरीरं बालयक्षवत् ।
पात्रायेव धनान्य् अस्मै स्वदुःखानि प्रयच्छति ॥
तैर् दुःखैस् तापितो देहो मनो हन्तुम् अथेच्छति ।
पुत्रो ऽपि हन्ति पितरम् आततायिपदं गतम् ॥
नास्ति शत्रुः प्रकृत्यैव न च मित्रं कदाचन ।
सुखदं मित्रम् इत्य् उक्तं दुःखदाश् शत्रवस् स्मृताः ॥
देहो दुःखान्य् अनुभवन् स्वमनो हन्तुम् इच्छति ।
देहं मनस् स्वदुःखानां सत्कोशं कुरुते क्षणात् ॥
एवं मिथो दुःखदयोश् श्लिष्टयोः कस् सुखागमः ।
एतयोर् देहमनसोर् जात्यैवान्योऽन्यविद्धयोः ॥
मनस्य् एव परिक्षीणे न देहो दुःखभाजनम् ।
तत्क्षयोत्कतया नित्यं देहो ऽपि परिधावति ॥
नष्टं नष्टम् अनर्थाय शरीरं पदम् आपदाम् ।
अलब्धात्मविवेकेन मनसाशु विनिन्द्यते ॥
एते मनश्शरीरे हि मिथः पीवरतां गते ।
जडरूपे हि वर्षासु पयोदसरसी यथा ॥
मिथो दुःखाय सम्पन्ने एकरूपे द्विधा स्थिते ।
व्यवहारपरे सार्धं लोके वाय्वनलाव् इव ॥
चित्ते क्षयिणि सङ्क्षीणो देह आ मूलतो भवेत् ।
वर्धमाने तरुर् इव शतशाखः प्रवर्धते ॥
क्षीयते मनसि क्षीणे देहः प्रक्षीणवासनः ।
मनो न क्षीयते क्षीणे देहे तत् क्षपयेन् मनः ॥
सङ्कल्पपादपं तृष्णालतं छित्त्वा मनोवनम् ।
वितताम् भुवम् आसाद्य विहरामि यथासुखम् ॥
प्रक्षीयमाणम् एवेदं मम मन्ये मनस् स्थितम् ।
प्रशाम्यद्वासनाजालं प्रावृडन्त इवाम्बुदः ॥
धातूनां सन्निवेशो ऽयं देहनामा वपुर् मम ।
प्रक्षीयमाणे मनसि गलन्न् एवावतिष्ठतु ॥
यदर्थं किल भोगश्रीर् वाञ्छ्यते तत् कलेवरम् ।
न मे नापि च तस्याहं को ऽर्थस् सुखलवेन मे ॥
नाहं देह इति त्व् अस्मिन् युक्तिम् आकर्णय क्रमे ।
सर्वाङ्गेष्व् अपि सत्स्व् एव शवः कस्मान् न वल्गति ॥
तस्माद् देहाद् अतीतो ऽहं नित्यो ऽनस्तमितद्युतिः ।
यस् सङ्गं भास्वता प्राप्य वेद्मि व्योमनि भास्करम् ॥
ज्ञो ऽहं मे न सुखेनार्थो नानर्थेन च दुःखिता ।
शरीरम् अस्तु वा मास्तु स्थितो ऽस्मि विगतज्वरः ॥
यत्रात्मा तत्र न मनो नेन्द्रियाणि न वासनाः ।
पामराः परितिष्ठन्ति निकटे न महीभृतः ॥
पदं तद् अनुयातो ऽस्मि केवलो ऽस्मि जयाम्य् अहम् ।
निस्स्पृहो ऽस्मि निरंशो ऽस्मि निरीहो ऽस्मि निरीप्सितः ॥
नेदानीं मम सम्बन्धो मनोदेहेन्द्रियादिभिः ।
पृथक्कृतस्य तैलस्य तिलैर् विदलितैर् यथा ॥
स्वस्मात् पदवराद् अस्माल् लीलया चलितस्य मे ।
अध आक्रमतः किञ्चित् परिवारो ह्य् अयं शुभः ॥
स्वस्थतोर्जितता सत्ता हृद्यता सत्यता ज्ञता ।
आनन्दितोपशमिता मता च मुदितोदिता ॥
पूर्णतोदारता सत्या कान्तिमत्तैकतानता ।
सर्वैकता निर्भयता क्षीणद्वित्वविकल्पता ॥
एता नित्योदितास् स्वस्थास् सुन्दर्यस् सुभगोदयाः ।
ममैकात्मरतेः कान्ता नित्यं हृदयवल्लभाः ॥
सर्वथा सर्वदा सर्वं सर्वस्मिन् सम्भवत्य् अतः ।
सर्वं प्रति मम क्षीणे वाञ्छावाञ्छे सुखासुखम् ॥
विगतमोहतया विमनस्तया गतविकल्पनचित्ततया स्फुटम् ।
उपरमाम्य् अहम् आत्मनि शीतले घनलवश् शरदीव नभस्तले ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0