भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.52

5.52.1

स तां विवेश धर्मात्मा गन्धमादनकन्दराम् ।
चिरभ्रमणसम्प्राप्ताम् अलिः पद्मकुटीम् इव ॥

5.52.2

समाधानोन्मुखतया प्रविशन् स व्यराजत ।
सर्गव्यापारविरताव् आत्मपुर्याम् इवाब्जजः ॥

5.52.3

चकारासनम् आनीलैः पत्त्रैर् अन्तस्स्थगुच्छकम् ।
मृदु मेघविधिर् वृन्दम् आम्भोदम् इव तत्र सः ॥

5.52.4

तस्य प्रसारयाम् आस पृष्ठे चारु मृगाजिनम् ।
नीलरत्नतटे मेरोस् ताराशारम् इवाम्बरम् ॥

5.52.5

तत्रोपाविशद् आवेशं चैतसं तनुतां नयन् ।
अन्तश्शुद्धवपुश् शृङ्गे वृष्टमूक इवाम्बुदः ॥

5.52.6

बुद्धवत् सुदृढाबद्धपद्मासन उदङ्मुखः ।
पार्ष्णिभ्यां वृषणौ धृत्वा चकार ब्राह्मम् अञ्जलिम् ॥

5.52.7

वासनाभ्यस् समाहृत्य मनोमृगपरिप्लुतम् ।
निर्विकल्पसमाध्यर्थं चकारेमां विचारणाम् ॥

5.52.8

अयि मूर्ख मनः को ऽर्थस् तव संसारवृत्तिभिः ।
धीमन्तो न निषेवन्ते पर्यन्ते दुःखदां क्रियाम् ॥

5.52.9

अनुधावति यो भोगांस् त्यक्त्वा शमरसायनम् ।
स त्यक्तमन्दारवनः प्रयाति विषजङ्गलम् ॥

5.52.10

यदि यासि महीरन्ध्रं ब्रह्मलोकम् अथापि वा ।
तन् न निर्वृतिम् आयासि त्वं विनोपशमामृतम् ॥

5.52.11

आशाशतावपूर्णत्वं त्वम् इदं सर्वदुःखदम् ।
त्यज याहि परं श्रेयः पदम् एकान्तसुन्दरम् ॥

5.52.12

इमा विचित्राः कलना भावाभावमयात्मिकाः ।
दुःखायैव तवोग्राय न सुखाय कदाचन ॥

5.52.13

शब्दादिकाभिर् एताभिः किं मूढ हतवृत्तिभिः ।
भ्रमस्य् अविरतं व्यर्थम् एव मण्डूकिका यथा ॥

5.52.14

मनोमण्डूकिके व्यर्थम् इयन्तं कालम् अन्धया ।
भ्रमन्त्या भुवनं विष्वक् किं समासादितं त्वया ॥

5.52.15

यस्मात् किञ्चित् तद् आप्नोषि यस्मिन् भजसि निर्वृतिम् ।
तस्मिंश् चित्त शमे मूर्ख नानुबध्नासि किं पदम् ॥

5.52.16

आगत्य श्रोत्रतां मूर्ख व्यर्थोत्थानोपबृंहिताम् ।
धिया शब्दानुसारिण्या मृगवन् मा क्षयं व्रज ॥

5.52.17

त्वक्ताम् आगत्य दुःखाय स्पर्शोन्मुखतयानया ।
मूर्ख मा बद्धताम् एहि गजीलुब्धगजेन्द्रवत् ॥

5.52.18

रसनाभावम् आगत्य गर्धेनान्ध दुरन्धसाम् ।
मा नाशम् एहि बडिशपिण्डीलम्पटमत्स्यवत् ॥

5.52.19

चाक्षुषीं वृत्तिम् आश्रित्य स्त्र्यादिरूपामयोन्मुखीम् ।
मा गच्छ दग्धतां मुग्ध कान्तिलुब्धपतङ्गवत् ॥

5.52.20

घ्राणमार्गम् उपाश्रित्य शरीराम्भोजकोटरे ।
गन्धोन्मुखतया बन्धं मा समाश्रय भृङ्गवत् ॥

5.52.21

कुरङ्गालिपतङ्गेभमीनास् त्व् एकैकशो हताः ।
सर्वैर् एतैर् अनर्थैस् तु व्याप्तस्याज्ञ कुतस् सुखम् ॥

5.52.22

हे चित्त वासनाजालं बन्धाय भवतोम्भितम् ।
स्वात्मनस् सहजः फेनस् तान्तवः क्रिमिणा यथा ॥

5.52.23

शरदभ्रवद् आगत्य शुद्धिं त्यक्तमलामयाम् ।
यदि शाम्यसि निर्मूलं तद् अनन्ता जयास् तव ॥

5.52.24

क्षयोदयदशादात्रीः पर्यन्तपरितापिनीः ।
जानन्न् अपि जगद्दृष्टीर् न त्यक्ष्यसि विनङ्क्ष्यसि ॥

5.52.25

करोम्य् अथ किमर्थं वा तवैतद् अनुशासनम् ।
विचारणवतः पुंसश् चित्तम् अस्ति हि नानघ ॥

5.52.26

यावद् अज्ञानघनता तावत् प्रघनचित्तता ।
यावत् प्रावृट्प्रबलता तावन् नीहारभूरिता ॥

5.52.27

यावद् अज्ञानतनुता तावच् चित्तस्य तानवम् ।
प्रावृट्परिक्षयो यावत् तावन् नीहारसङ्क्षयः ॥

5.52.28

यावत् तानवम् आयातं शुद्धं चित्तं विचारवत् ।
तावत् तत् क्षीणम् एवाहं मन्ये शारदमेघवत् ॥

5.52.29

अनुशासनम् एतद् यद् असतो नश्यतो ऽथ वा ।
क्रियते तन् नभोवारिपवनाहननैस् समम् ॥

5.52.30

तस्मात् सङ्क्षीयमाणं त्वां त्यजाम्य् अहम् असन्मयम् ।
मौर्ख्यं परमम् एवाहुः परित्याज्यानुशासनम् ॥

5.52.31

निर्विकल्पो ऽस्मि चिद्दीपो निरहङ्कारवासनः ।
त्वयाहङ्कारबीजेन न सम्बद्धो ऽस्म्य् असन्मय ॥

5.52.32

अयं सो ऽहम् इति व्यर्थं दुर्दृष्टिर् अवलम्बिता ।
त्वया मूढ विनाशाय शङ्काविषविषूचिका ॥

5.52.33

अनन्तस्यात्मतत्त्वस्य तन्वी मतिमती स्थितिः ।
न सम्भवति बिल्वान्तर् वासिता दन्तिनो यथा ॥

5.52.34

महास्खदेव गम्भीरा दुःखदा वासनाश्रिता ।
त्वयैषा तद् असत्पातिर् नैनाम् अनुसराम्य् अहम् ॥

5.52.35

कः किलायं मुधा मोहो बालस्येवाविचारिणः ।
अयं सो ऽहम् इति भ्रान्तिसन्दर्भपरिकल्पितः ॥

5.52.36

पादाङ्गुष्ठाच् छिरो यावत् कणशः प्रविचारितम् ।
न लब्धो ऽसाव् अहं नाम कस् स्याद् अहं इति स्थितः ॥

5.52.37

भरिताशेषदिक्कुञ्जं पश्याम्य् एकं जगत्त्रये ।
संवेदनम् असंवेद्यं सर्वत्र विततात्मकम् ॥

5.52.38

दृश्यते तस्य नेयत्ता न नाम परिकल्पना ।
नैकता नान्यता चैव न महत्ता न चाणुता ॥

5.52.39

वेदनं त्वम् असंवेद्यं मयि चेद् दुःखकारणम् ।
विवेकजेन भेदेन तद् इदं हन्यसे मया ॥

5.52.40

इदं मांसं इदं रक्तम् इमान्य् अस्थीनि देहके ।
इमे ते श्वासमरुतः को ऽसाव् अहम् इति स्थितः ॥

5.52.41

मांसम् अन्यद् असृक् चान्यद् अस्थीन्य् अन्यानि चित्त हे ।
बोधो ऽन्यस् स्पन्दनं चान्यत् को ऽसाव् अहम् इति स्थितः ॥

5.52.42

इदं घ्राणम् इयं जिह्वा त्वग् इयं श्रवणे इमे ।
इदं चक्षुर् अयं स्पन्दः को ऽसाव् अहम् इति स्थितः ॥

5.52.43

यथाभूततया नाहम् अस्मि न त्वं न वासना ।
आत्मा शुद्धश् चिदाभासः केवलो ऽयं विजृम्भते ॥

5.52.44

अहम् एवेह सर्वत्र नाहं किञ्चिद् अपीह वा ।
इत्य् एव सन्मयी दृष्टिर् नेतरो विद्यते क्रमः ॥

5.52.45

चिरम् अज्ञानधूर्तेन पोथितो ऽस्म्य् अत्य् अहन्तया ।
वृकेण दृप्तेनाटव्यां लब्ध्वेव पशुपोतकः ॥

5.52.46

दिष्ट्येदानीं परिज्ञातो मयैषो ऽज्ञानतस्करः ।
पुनर् न संश्रयाम्य् एनं स्वरूपार्थापहारिणम् ॥

5.52.47

निर्दुःखो दुःखयोग्यस्य नाहम् अस्य न चैष मे ।
कश्चिद् भवति शैलस्य तत्स्थ एव यथाम्बुदः ॥

5.52.48

नाहं भूत्वा त्व् अहं हीदं वच्मि तिष्ठामि यामि वा ।
आत्मावलोकनेनाहम् अनहङ्कारतां गतः ॥

5.52.49

नूनम् एवान्य एवैते मत्तो ऽज्ञाश् चक्षुरादयः ।
यान्तु तिष्ठन्तु वा देहे ममैते तु न केचन ॥

5.52.50

कष्टं को ऽयम् अहं नाम कथं केनोपकल्पितः ।
जगद्बालकवेतालस् तालोत्तालातुलाकृतिः ॥

5.52.51

एतावन्तं चिरं कालं व्यर्थम् आलुठितो ऽवटे ।
अहम् अम्बुतृणोन्मुक्ते दुरद्रौ हरिणो यथा ॥

5.52.52

स्वार्थैकालोकने चक्षुर् यदि तून्मुखतां गतम् ।
तद् अहं नाम को ऽसौ स्याद् यो ऽस्मि दुःखेन मोहितः ॥

5.52.53

स्पर्शनाम्नि निजे तत्त्वे यदि जाता त्वग् उन्मुखी ।
तत् को ऽयं स्याद् अहं नाम कुपिशाच इवोदितः ॥

5.52.54

रसेष्व् अभिनिषण्णे ऽस्मिन् स्वे क्रमे रसनेन्द्रिये ।
अहं मृष्टभुग् इत्य् एष कुतस्त्यः कुत्सितो भ्रमः ॥

5.52.55

शब्दशक्तिं श्रिते श्रोत्रे वराके स्वार्थपण्डिते ।
तद् अहङ्कारदुःखस्य निर्बीजस्य क आगमः ॥

5.52.56

आत्मम्भरित्वभरिते घ्राणे स्वं गन्धम् आगते ।
अहं घ्रातेति यो मन्ता तं चौरं नैव वेद्म्य् अहम् ॥

5.52.57

मृगतृष्णाक्रमेणैषा भावनाप्य् अर्थभावनी ।
भावस् तस्याम् असत्यायां यस्यासाव् अपि सम्भ्रमः ॥

5.52.58

वासनाहीनम् अप्य् एतच् चक्षुरादीन्द्रियं स्वतः ।
प्रवर्तते बहिस् स्वार्थे वासना नात्र कारणम् ॥

5.52.59

वासनारहितं कर्म क्रियते ननु चित्त हे ।
केवलं नानुभूयन्ते सुखदुःखदृशो ऽत्र ताः ॥

5.52.60

तस्मान् मूर्खाणीन्द्रियाणि त्यक्त्वान्तर्वासनां निजाम् ।
कुरुध्वं कर्म हे सर्वं न दुःखं समवाप्स्यथ ॥

5.52.61

भवद्भिर् एव दुःखाय वासना वासिता मुधा ।
बालैः पङ्कक्रीडनकविनाशेनेव खिन्नता ॥

5.52.62

वासनाद्या दृशस् सर्वा व्यतिरिक्तास् तु नात्मनः ।
जलाद् इव तरङ्गाल्यो ज्ञस्यैवाज्ञस्य नानघ ॥

5.52.63

तृष्णयैव विनष्टास् स्थ व्यर्थम् इन्द्रियचारकाः ।
कोशकाराः कुक्रिमयस् तन्तुनेव स्वयम्भुवा ॥

5.52.64

तृष्णयैवेह लुठथ जरामरणसङ्कटे ।
भ्रमदृष्ट्येव शिखरिपथिकाश् श्वभ्रभूमिषु ॥

5.52.65

वासनैवेह भवतां हेतुर् एकत्र बन्धने ।
रज्जुश् शून्याशयप्रोता मुक्तानाम् आतता यथा ॥

5.52.66

कल्पनामात्रकलिता न सत्यैषा हि वस्तुतः ।
असङ्कल्पनमात्रेण दात्रेणेव विलूयते ॥

5.52.67

एषा हि भवताम् एव विमोहाय क्षयाय च ।
वातलेखेव दीपानां स्फुरताम् अपि तेजसा ॥

5.52.68

हे चित्त सर्वेन्द्रियकोश तस्मात् सर्वेन्द्रियैर् ऐक्यम् उपेत्य नूनम् ।
आलोक्य चात्मानम् असत्स्वरूपं निर्वाणम् एकामलबोधम् आस्स्व ॥

5.52.69

विषयविषविषूचिकाम् अनन्तां निपुणम् अहंस्थितिवासनाम् अपास्य ।
अभिमतपरिहारकार्ययुक्त्या भव विभयो भगवान् भियाम् अभूमिः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc