भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.51

5.51.1

परिदीर्घासु तन्वीषु कचन्तीष्व् असितासु च ।
क्षुरधारोपमानासु चित्तवृत्तिषु तिष्ठ मा ॥

5.51.2

कालेन च महाक्षेत्रे जातेयं बुद्धिवल्लरी ।
वृद्धिं विवेकसेकेन नयैनां नयकोविद ॥

5.51.3

यावन् म्लायति नो कायकलिका कलिभस्मना ।
भूतले पतितां तावद् एनाम् उद्धृत्य धारय ॥

5.51.4

मद्वाक्यार्थैकतत्त्वज्ञ मद्वाक्यार्थैकभावनात् ।
सुखम् आप्नोषि सर्पारिर् यथाभ्ररवभावनात् ॥

5.51.5

उद्दालकवद् आलूनविशीर्णं भूतपञ्चकम् ।
कृत्वा कृत्वा धिया धीर धीरयान्तर् विचारय ॥

5.51.6

केन क्रमेण भगवन् मुनिनोद्दालकेन तत् ।
भूतपञ्चकम् आलूनं कृत्वान्तः प्रविचारितम् ॥

5.51.7

शृणु राम यथा पूर्वं भूतवृन्दविचारणात् ।
उद्दालकेन सम्प्राप्ता परमा दृष्टिर् अक्षता ॥

5.51.8

जगज्जीर्णगृहस्यास्य कोणे कस्मिंश्चिद् आतते ।
भूमेर् अनिलदिङ्नाम्नि भूभृद्भाण्डभराकुले ॥

5.51.9

गन्धमादनशैलेन्द्रनाम्नी काचित् किल स्थली ।
विद्यते कीर्णकुसुमा कर्पूरद्रुमधूसरा ॥

5.51.10

विचित्रवर्णविहगा नानावनविलासिनी ।
वनेचरव्याप्ततटी पुष्पकेसरहासिनी ॥

5.51.11

क्वचित् स्थितमहारत्ना क्वचिन् नीलाम्बुदोत्पला ।
क्वचिन् नीहारकवरी सरसीदर्पणा क्वचित् ॥

5.51.12

तत्र कस्मिंश्चिद् उदिते सानौ सफलपादपे ।
आगुल्फकीर्णकुसुमे स्निग्धच्छायामहाद्रुमे ॥

5.51.13

उद्दालको नाम मुनिर् मौनी मानी महामतिः ।
अप्राप्तयौवनः पूर्वम् उवासोद्दामतापसः ॥

5.51.14

प्रथमं तु बभूवासाव् अल्पप्रज्ञाविचारवान् ।
अप्राप्तपदविश्रान्तिर् अप्रबुद्धशुभाशयः ॥

5.51.15

ततः क्रमेण तपसा शास्त्रार्थनियमैर् यमैः ।
विवेक आजगामैनं नवर्तुर् इव भूतलम् ॥

5.51.16

अथेदं चिन्तयाम् आस संसारभयभीतधीः ।
एकान्त एव निवसन् कदाचित् क्लान्तमानसः ॥

5.51.17

किं तत् प्राप्यं प्रधानं स्याद् यद् विश्रान्तौ न शोच्यते ।
यत् प्राप्य जन्मना भूयस् सम्बन्धो नोपजायते ॥

5.51.18

कदाहं त्यक्तमननः पदे परमपावने ।
विश्रान्तिं चिरम् एष्यामि मेरुशृङ्ग इवाम्बुदः ॥

5.51.19

कदा शमम् उपेष्यन्ति ममान्तर् भोगवासनाः ।
आलोलकल्लोलरवा ऊर्मयो ऽम्बुनिधाव् इव ॥

5.51.20

इदं कृत्वेदम् अप्य् अन्यत् कर्तव्यम् इति कल्पनाम् ।
कदान्तर् विहसिष्यामि पदविश्रान्तया धिया ॥

5.51.21

कदा विकल्पजालं मे न लगिष्यति चेतसि ।
स्थितम् अप्य् उज्झितासङ्गं पयः पद्मदले यथा ॥

5.51.22

कदा बहलकल्लोलां नावा परमया धिया ।
परितीर्णो भविष्यामि तृष्णामत्ततरङ्गिणीम् ॥

5.51.23

कदेमां जागतैर् भूतैः क्रियमाणाम् असन्मयीम् ।
क्रियाम् उपहसिष्यामि बाललीलाम् इवाफलाम् ॥

5.51.24

कदा विकल्पपर्यस्तमनोदोलावदोलनम् ।
प्रशमिष्यति मे शान्तपानौजस इव भ्रमः ॥

5.51.25

कदोदितवपुर्भास्वान् विहसञ् जागतीर् गतीः ।
अन्तस् सन्तोषम् एष्यामि विराडात्मेव पूर्णधीः ॥

5.51.26

शान्तश् समसमाचारस् सोम्यस् सर्वार्थनिस्स्पृहः ।
कदोपशमम् एष्यामि मन्थोन्मुक्तमहाब्धिवत् ॥

5.51.27

कदेमाम् अखिलां दृश्यश्रियम् आशाशतात्मिकाम् ।
सर्वां सुषुप्तवत् पश्यन् भविष्याम्य् अन्तराततः ॥

5.51.28

सबाह्याभ्यन्तरं सर्वं शान्तकल्पनया धिया ।
पश्यंश् चिन्मात्रम् अखिलं भावयिष्याम्य् अहं कदा ॥

5.51.29

कदोपशान्तचित्तात्मा चित्ताम् उपगतः पराम् ।
परमालोकम् एष्यामि जात्यान्ध्यविगमाद् इव ॥

5.51.30

कदाभ्यासोपलब्धेन चित्प्रकाशेन चारुणा ।
दूराद् आलोकयिष्यामि तन्वीं कालकलाम् इमाम् ॥

5.51.31

ईहितानीहितोन्मुक्तो हेयोपादेयवर्जितः ।
कदान्तस् तोषम् एष्यामि स्वप्रकाशपदस्थितः ॥

5.51.32

कदाशाकौशिकीकीर्णा जाड्यजीर्णहृदम्बुजा ।
क्षयम् एष्यति कृष्णेयं कदा मे मोहयामिनी ॥

5.51.33

कदोपशान्तमननो धरणीधरकन्दरे ।
समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना ॥

5.51.34

कदा मे चित्तमातङ्गस् स्वाभिमानमहामदः ।
तत्त्वावबोधहरिणा हतो नाशम् उपैष्यति ॥

5.51.35

निरंशध्यानविश्रान्तिमूकस्य मम मूर्धनि ।
कदा कर्णे करिष्यन्ति कुलायं वनपुत्तिकाः ॥

5.51.36

कदा निश्शङ्कम् उरसि ध्यानाधीनधियः खगाः ।
मम विश्रान्तिम् एष्यन्ति शैलस्थाणुतलस्थितेः ॥

5.51.37

तृष्णाकरञ्जजटिलां जन्मजर्जरगुल्मकाम् ।
संसारारण्यसरणिं त्यक्त्वा यास्याम्य् अहं कदा ॥

5.51.38

इति चिन्तापरवशो वन उद्दालको द्विजः ।
पुनः पुनस् तूपविश्य ध्यानाभ्यासं चकार सः ॥

5.51.39

विषयैर् नीयमाने तु चित्ते मर्कटचञ्चले ।
न स लेभे समाधानप्रतिष्ठां प्रीतिदायिनीम् ॥

5.51.40

कदाचिद् बाह्यसंस्पर्शपरित्यागाद् अनन्तरम् ।
तस्यागच्छच् चित्तकपिः प्रोद्वेगं तत्त्वसंस्थितौ ॥

5.51.41

कदाचिद् आन्तरान् स्पर्शान् परित्यज्य मनःकपिः ।
लोलत्वात् तस्य संयातो विषयं विषलुब्धवत् ॥

5.51.42

कदाचिद् आन्तरार्काभं तेजो दृष्ट्वान्तरे मनः ।
विषयोन्मुखतां यातं तस्य तामरसेक्षण ॥

5.51.43

अन्तर् आन्ध्यतमस्त्यागं कृत्वा विषयलम्पटम् ।
तस्योड्डीय मनो याति कदाचित् त्रस्तपक्षिवत् ॥

5.51.44

बाह्यान् आभ्यन्तरान् स्पर्शांस् त्यक्त्वा निद्रां च तन्मनः ।
तमस् तेजश् च नो लेभे कदाचिच् छाश्वतीं स्थितिम् ॥

5.51.45

इति पर्याकुलास्व् अन्तस् सो ऽलुठद् ध्यानवृत्तिषु ।
दरीष्व् अन्वहम् उग्रासु वातभग्न इव द्रुमः ॥

5.51.46

अतिष्ठल् लूनसंरूढमना मननसङ्कटे ।
यथा दोलायितवपुस् तृणं तीरतरङ्गके ॥

5.51.47

अथ पर्याकुलमतिर् विजहारारतिर् गिरौ ।
प्रत्यहं दिवसाधीशो महामेराव् इवैककः ॥

5.51.48

समग्रभूतदुष्प्रापाम् एकदा प्राप कन्दराम् ।
संशान्तसर्वसञ्चारां मुनिर् मोक्षदशाम् इव ॥

5.51.49

अपर्याकुलितां वातैर् अप्राप्तमृगपक्षिणीं ।
अदृष्टां देवगन्धर्वैः परमाकाशशोभनाम् ॥

5.51.50

पुष्पप्रकरसञ्छन्नां मृदुशाद्वलकोमलाम् ।
ज्योतीरसाश्मसम्प्रोतैः कृतां मरकतैर् इव ॥

5.51.51

सिद्धगीतलसच्छायां प्रकटां रत्नदीपकैः ।
सुगुप्तां वनदेवीनाम् अन्तःपुरकुटीम् इव ॥

5.51.52

न लोचनाहितालोकां नात्युष्णां नातिशीतलाम् ।
शारदस्योदितार्कस्य हेमगौरीं प्रभाम् इव ॥

5.51.53

नाल्पालोकपरिम्लानां कोमलाशब्दमारुताम् ।
मञ्जरीजटिलोपान्तां बालां मालावतीम् इव ॥

5.51.54

उपशमपदवीम् इवात्तरूपां कमलजविश्रमणाय योग्यरूपाम् ।
कुसुमनिकरकोमलाभिरामां सरसिजकोटरसुन्दरीं समन्तात् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc