मोक्षोपाय · अध्याय 5.50
एवम् एषातिवितता दुर्ज्ञाना रघुनन्दन ।
महामोहकरी माया विषमा पारमात्मिकी ॥
क्व मुहूर्तद्वयस्वप्नसम्भ्रमालोकदृष्टता ।
क्वानेकवर्षसम्भुक्तश्वपचावनिपभ्रमः ॥
क्व सम्भ्रमोपलब्धत्वं क्व प्रत्यक्षनिदर्शनम् ।
क्वासत्यत्वम् असन्दिग्धं क्व सत्यपरिणामिता ॥
अतो वच्मि महाबाहो मायेयं विततेत्य् अलम् ।
असावधानमनसं योजयत्य् अतिसङ्कटे ॥
एवम् अस्य कथं ब्रह्मन् मायाचक्रस्य रोधनम् ।
कुर्मः प्रबलिनो वेगात् सर्वाङ्गच्छेदकारिणः ॥
अस्य संसाररूपस्य मायाचक्रस्य राघव ।
चित्तं विद्धि महानाभिं भ्रमतो भ्रमदायिनः ॥
तस्मिन् नूनम् अवष्टब्धे धिया पुरुषयत्नतः ।
गृहीतनाभि वहनान् मायाचक्रं निरुध्यते ॥
अवष्टब्धमनोनाभि मोहचक्रं न चोपति ।
यथा रज्ज्वां निरुद्धायां कीलकं रज्जुवेष्टितम् ॥
चक्रयुद्धैकतज्ज्ञो ऽपि कस्माज् जानासि नानघ ।
चक्रं नाभाव् अवष्टब्धं वशम् आयाति नान्यथा ॥
चित्तनाभाव् अवष्टभ्य तस्माद् यत्नेन राघव ।
संसारचक्रं वहनाद् आत्मनः परिरोधय ॥
एतां युक्तिं विना दुःखम् अनन्तम् इदम् आत्मनः ।
अस्यां युक्तौ क्षणात् त्व् अन्तं गतम् एवावलोकय ॥
चित्ताक्रमणमात्राख्यात् परमाद् औषधाद् ऋते ।
प्रयत्नेनापि संसारमहारोगो न शाम्यति ॥
तस्माद् राघव सन्त्यज्य तीर्थदानतपःक्रियाः ।
श्रेयसे परमायान्तश् चित्तम् एव वशीकुरु ॥
चित्तान्तर् एव संसारः कुम्भान्तः कुम्भखं यथा ।
चित्तनाशे न संसारः कुम्भनाशे न कुम्भखम् ॥
चित्तसंसारणाकाशकोटरे चित्तकुम्भखम् ।
विनाश्यातुलिताकाशरूपं स्वं रूपम् आविश ॥
वर्तमानं क्रमायातं भजद् बाह्यधिया क्षणम् ।
भूतं भविष्यद् अभजद् याति चित्तम् अचित्तताम् ॥
सङ्कल्पं सानुसन्धानवर्जनं चेत् प्रतिक्षणम् ।
करोषि तद् अचित्तत्वं प्राप्त एवासि पावनम् ॥
यावत् सङ्कल्पकलनं तावच् चित्तविभूतयः ।
यावज् जलदविस्तारस् तावत् खे जलबिन्दवः ॥
सचित्तं चेतनं यावत् तावत् सङ्कल्पकल्पनम् ।
सचन्द्रांशु जगद् यावत् तावत् प्रालेयलेशकाः ॥
चेतनश् चित्तरिक्तश् चेद् भावितस् तत् कुसंसृतेः ।
आमूलम् एव दग्धानि विद्धि मूलानि सिद्धिमन् ॥
चेतनं चित्तरिक्तं हि प्रत्यक्चेतनम् उच्यते ।
निर्मनस्कस्वभावं तन् न तत्र कलनामलः ॥
सा सत्यता सा शिवता सा सत्ता पारमात्मिकी ।
सर्वज्ञता सा सा तृप्तिर् ननु यत्र मनः क्षतम् ॥
मनो यत्र तु तत्रास्थास् तत्र दुःखसुखानि च ।
सदा सन्निधिम् आयान्ति श्मशान इव वायसाः ॥
अवस्तुत्वावबोधेन सर्वभावव्यवस्थितेः ।
संसृतिव्रततेर् बीजं सङ्कल्पे नोपजायते ॥
शास्त्रसज्जनसम्पर्कसन्तताभ्यासयोगतः ।
जागतानाम् अवस्तुत्वं भावानाम् अधिगम्यते ॥
अविवेकाद् उपाहृत्य चेतस् स्वैर् यत्ननिश्चयैः ।
बलात्कारेण संयोज्यं शास्त्रसत्पुरुषक्रमे ॥
मुख्यं कारणम् आत्मैव परमात्मावलोकने ।
अगाधे पतितं रत्नं रत्नेनैवावकृष्यते ॥
स्वानुभूतानि दुःखानि स्वात्मैव त्यक्तुम् अर्हति ।
तेनात्मैवात्मविज्ञाने हेतुर् एकः परस् स्मृतः ॥
प्रलपन् विसृजन् गृह्णन्न् उन्मिषन् निमिषन्न् अपि ।
निरस्तमननानन्तसंविन्मात्रपरो भव ॥
ममेदं तद् अयं सो ऽहम् इति सन्त्यज्य वासनाः ।
एकनिष्ठतयान्तस्स्थसंविन्मात्रपरो भव ॥
वर्तमानभविष्यन्त्योस् स्थित्योर् आदेहम् एकधीः ।
स्वसंवित्त्यनुसन्धानात् समाधानपरो भव ॥
पलायनेषु युद्धेषु दुःखेषु च सुखेषु च ।
जाग्रत्स्वप्नसुषुप्तेषु स्वसंवित्तिपरो भव ॥
मलं संवेद्यम् उत्सृज्य मनो निर्मथ्य मन्थरम् ।
आशापाशान् अलं छित्त्वा स्वसंवित्तिपरो भव ॥
अशुभाशुभसङ्केतस् संशान्ताशाविषूचिकः ।
नष्टेष्टानिष्टदृष्टिस् त्वं संवित्सारपरो भव ॥
सकर्तृकर्मकरणान् स्वान् स्पर्शान् अन्तर् अस्पृशन् ।
निर्विकल्पनिरालम्बस् स्वचिन्मात्रपरो भव ॥
जाग्रत्य् एव हि सौषुप्तीं भावयन् सुस्थिरां स्थितिम् ।
सर्वम् अस्तीति सञ्चिन्त्य सत्तैकात्मवपुर् भव ॥
नानानानादशामुक्तो युक्तो मुक्ततयाशये ।
समग्रकलनादीपस् स्वचिन्मात्रपरो भव ॥
आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ ।
वज्रस्तम्भवद् आत्मानम् अवलम्ब्य स्थिरो भव ॥
छित्त्वान्तर् मानसान् पाशान् आशारूपान् उदारया ।
धिया धैर्यैकधारिण्या निर्धर्माधर्मतां व्रज ॥
समासादयतस् तत्त्वं स्वसंवेदनम् इत्य् अलम् ।
विषं हालाहलम् अपि यास्यत्य् अमृततां तव ॥
तदोदेति महामोहस् संसृतिभ्रमकारणम् ।
निर्मलाया निरंशायास् स्वसंवित्तेश् च्युतिर् यदा ॥
तदा सङ्क्षीयते मोहस् संसृतिभ्रमकारणम् ।
निर्मलायां निरंशायां स्वसंवित्तौ स्थितिर् यदा ॥
स्वरूपम् अनुयातस्य तीर्णस्याशामहार्णवम् ।
प्रसरिष्यति ते संवित् सूर्यांशुर् इव सर्वतः ॥
स्वभावम् आलोकयत आनन्दमयसंस्थितेः ।
रसायनम् अपि स्वादु राम प्रतिविषायते ॥
तैर् न लज्जामहे पुम्भिर् ये स्वभावम् उपागताः ।
शेषाः पुरुषनामानो गर्दभा दीर्घबाहवः ॥
पर्वताः खर्वतां यान्ति पुरो ऽद्रेर् इव दन्तिनः ।
परां कोटिं प्रयातस्य स्वसंवित्त्युन्नतस्थितेः ॥
आदृश्यद्रष्टृसीम्नो ऽन्तस् सूर्यादीन्य् अखिलान्य् अपि ।
न तेजांस्य् उपकुर्वन्ति स्वसंविद्दिव्यचक्षुषः ॥
अवस्तुतां व्रजन्त्य् एते मध्याह्न इव दीपकाः ।
अर्कादयो महालोकविधाव् अधिगतात्मनः ॥
तेजोऽंशुषु प्रभावेषु बलेष्व् अतिमहत्स्व् अपि ।
सर्वेषून्नतियुक्तेषु तत्त्वज्ञः परमोन्नतः ॥
भान्ति भासा यथा सूर्यवह्नीन्दुमणितारकाः ।
तथा जगति राजन्ते ज्ञातज्ञेया नरोत्तमाः ॥
धराविवरकीटेभ्यो गर्दभेभ्यो ऽपि मानवाः ।
तिर्यग्भ्यश् चाप्य् अतत्त्वज्ञा राम तुच्छतरास् स्मृताः ॥
तावत् सम्मोहवेतालो देहो यावद् अनात्मवान् ।
आत्मज्ञ एव संयुक्तश् चेतनेनेति तद्विदः ॥
अनात्मज्ञो हि दुर्देहः प्रस्फुरन्न् अपि भूतले ।
शव एव भ्रमत्य् उच्चैर् आत्मज्ञस् तु सचेतनः ॥
दूरम् आत्मज्ञता याति चित्ते पीवरतां गते ।
आलोकलक्ष्मीर् अमला महामेघ इवोत्थिते ॥
भोगाभोगतिरस्कारैः कार्श्यं नेयं मनश् शनैः ।
रसापहारैस् तज्ज्ञेन कालेनाजीर्णपर्णवत् ॥
अनात्मन्य् आत्मभावेन देहमात्रास्थयानया ।
पुत्रदारकुटुम्बैश् च चेतो गच्छति पीनताम् ॥
अहङ्कारविकारेण ममतामलहेलया ।
इदं ममेति भावेन चेतो गच्छति पीनताम् ॥
जरामरणदुःखेन व्यर्थम् उन्नतिम् ईयुषा ।
दोषाशीविषकोशेन चेतो गच्छति पीनताम् ॥
दुराशाक्षीरपानेन भोगानिलबलेन च ।
आस्थादानेन चानेन चित्ताहिर् याति पीनताम् ॥
आधिव्याधिविलासेन समाश्वासेन संसृतौ ।
हेयादेयप्रयत्नेन चेतो गच्छति पीनताम् ॥
आगमापायवपुषा विषवैषम्यशंसिना ।
भोगाभोगेन पीनेन चित्ताहिर् याति पीनताम् ॥
शरीरदुश्श्वभ्रचिरप्ररूढं चिन्ताचयोच्चाकृतिमञ्जरीकम् ।
जरामृतिव्याधिफलावनम्रं कामोपभोगौघविकासिपुष्पम् ॥
विचारसारक्रकचेन चित्तविषद्रुमं त्वं द्रुतम् इन्दुकल्प ।
आशामहाशाखम् अशङ्कम् एव च्छिन्द्धि प्रसह्यार्द्रविकल्पपत्त्रम् ॥
मत्तं क्षणं चैकतटोपवेशविश्रान्तिसौख्येष्व् असमर्थम् उग्रम् ।
आलोडनोत्कं सुजनक्रमाब्जषण्डस्य चण्डं सुखदुःखगण्डम् ॥
चेतोगजं कायकुकाननस्थं सुतीक्ष्णया धीकरजाग्रपङ्क्त्या ।
विदारयादीर्घविकारदन्तं क्रियाकरं राघव राजसिंह ॥
रतिं गतं नित्यम् असत्प्रदेशे शरीरमालाग्रसनेन पुष्टम् ।
धृष्टं क्रियाकर्कशचञ्चुचण्डम् एकेक्षणं पुष्टतमोऽंशकृष्णम् ॥
दूरे समुत्सारय सारभूतं दुश्चेष्टितं कर्कशम् आरटन्तम् ।
गर्वोद्धतं कायकुलायकोशाद् दोषोपशान्त्यै निजचित्तकाकम् ॥
तृष्णापिशाच्या परिचर्यमाणं विश्रान्तम् अज्ञानमहावटेषु ।
भ्रान्तं चिरं देहशतेष्व् अटव्यां स्वसंसृतौ चेतनवर्जितेषु ॥
विवेकवैराग्यगुरुप्रयत्नमन्त्रैस् स्वतन्त्रैस् स्वचिदात्मगेहात् ।
नोत्सारितश् चित्तपिशाचको ऽयं यावत् कुतस् तावद् इहात्मसिद्धिः ॥
शुभासुभाशीर्हतमानवौघं चिन्ताविषं कायकुकञ्चुकं च ।
अजस्रम् अच्छश्वसनाशनं च सर्वस्य रामाभयनाशनं च ॥
हृदब्जदुश्शल्मलिकोटरस्थं भोगौघगर्हाखगमन्त्रशक्त्या ।
नीत्वा शमं राम मनोमहाहिं भयं भृशं प्रोज्झ्य भवाभयात्मा ॥
अमङ्गलाकारधरश् शरीरशवावलीसन्ततसेवनेन ।
दिगावलीसम्भ्रमणश्रमार्तश् श्मशानसेवी वपुषा क्षतेन ॥
भोगामिषे दिक्ष्व् अभिधावमान उत्कन्धरो धीरविवृद्धगर्वः ।
उड्डीय चेद् गच्छति चित्तगृध्रो देहद्रुमात् तन् निपुणं जयस् ते ॥
भ्रान्तं वनान्तेषु दिगन्तरेषु फलार्थिनं चञ्चलम् आकुलाङ्गम् ।
जन्मावनेर् जन्ममहीं प्रयान्तं संसारपान्थं जनम् आहसन्तम् ॥
द्रुमे ऽक्षिनासाकुसुमे भुजादिशाखे विलोलाङ्गुलिजालपत्त्रे ।
समुल्लसन्तं परिमारयैनं मनोमहामर्कटम् अङ्ग सिद्ध्यै ॥
अभ्युत्थितं सत्फलसङ्क्षयाय लसत्सुखासङ्गतडित्प्रकाशम् ।
वर्षन्तम् आसारम् अनर्थसार्थम् आन्दोलितं वासनवात्ययान्तः ॥
सङ्कल्प्यसङ्कल्पनवर्जनोग्रमन्त्रप्रभावाद् धृदयाम्बरात् त्वम् ।
सोत्साहम् उत्सादय चित्तमेघं महत् फलं प्राप्य भवालम् आढ्यः ॥
ग्रन्थीकृतं कर्मभिर् आत्मसृष्टैश् शस्त्रैर् अभेद्यं ज्वलनैर् अदग्धम् ।
पीडां पराम् आत्मनि कल्पयन्तं समस्तजात्यन्तरदीर्घदाम ॥
सम्प्रोतनिस्सङ्ख्यशरीरमालं बलाद् असङ्कल्पनमात्रशस्त्रैः ।
छित्त्वा स्वयं राघव चित्तपाशं यथासुखं त्वं विहरास्तशङ्कः ॥
फूत्कारदग्धाखिलमार्गलोकम् अत्यन्तदुष्प्रापपरप्रबोधम् ।
आशाविषाशोषितलोकषण्डं वातामिषोच्छूनशरीरदण्डम् ॥
आमन्थरं देहगुहाप्रसुप्तं सङ्कल्पघोराजगरं जवेन ।
अकामनानाममहानलेन बलेन दग्ध्वा विभयो भव त्वम् ॥
चित्तेन चेतश् शमम् आशु नीत्वा शुद्धेन घोरास्त्रम् इवास्त्रयुक्त्या ।
चिराय साधो त्यज चञ्चलत्वं विमर्कटो वृक्ष इवाक्षतश्रीः ॥
अलम् अलम् इति कृत्वा चेतसा वीतशङ्कं व्युपशमितमलो ऽन्तस् सर्वम् आदेहम् एव ।
तृणलवलघु पश्यंल् लीलयाहेयदृष्ट्या पिब विहर रमस्व प्राप्तसंसारपारः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0