मोक्षोपाय · अध्याय 5.49
अथ गाधिर् गते विष्णौ पुनर् हूनादिकाञ् जनान् ।
स्वसम्मोहविचारार्थं बभ्रामाभ्रम् इवाम्बरे ॥
उपलभ्य तथैवात्मवृत्तान्तं जनतस् ततः ।
हरिम् आराधयाम् आस पुनर् अद्रिगुहागतः ॥
आजगामैनम् अल्पेन कालेनाथ जनार्दनः ।
सकृदाराधनेनैव माधवो याति बन्धुताम् ॥
उवाच गाधिं भगवान् मयूरम् इव वारिदः ।
किं त्वं प्रार्थयसे भूयस् तपसेति प्रसादवान् ॥
भ्रान्तो ऽस्मि देव षण्मासान् हूनकीरजनास्पदम् ।
तत्र व्यभिचरत्य् अस्मद्वृत्तान्तो न कथास्व् अपि ॥
मायया हूनभूर् दृष्टा त्वयेत्य् उक्तो ऽस्मि किं प्रभो ।
मोहनाशाय महतां वचो नो मोहवृद्धये ॥
काकतालीययोगेन चेतसि श्वपचस्थितिः ।
सर्वेषां हूनकीराणां तथैव प्रतिबिम्बिता ॥
तेनाङ्ग तव वृत्तान्तं सत्यं यत् कथयन्ति ते ।
प्रतिभासो हि नायाति पुनर् अप्रतिभासताम् ॥
केनचिच् छ्वपचेनान्ते ग्रामस्य रचितं गृहं ।
तत् तथा यत् त्वया दृष्टम् इष्टकाखण्डतां गतम् ॥
कदाचित् प्रतिभैकैव बहूनाम् अपि जायते ।
काकतालीयगतिवद् विचित्रा हि मनोगतिः ॥
तथा हि बहवस् स्वप्नम् एकं पश्यन्ति मानवाः ।
स्वापभ्रमदमैरेयमदमन्थरचित्तवत् ॥
एकस्याम् एव लीलायां वनस्थल्याम् इवैणकाः ॥
बहवस् तुल्यकालं च प्रतिभातेन कर्मणा ।
जना यतन्ते स्वफलपाकेनेव द्रुमा ऋतौ ॥
प्रतिबन्धाभ्यनुज्ञानां कालो दातेति या श्रुतिः ।
विप्र सङ्कल्पमात्रो ऽसौ कालो ह्य् आत्मनि तिष्ठति ॥
अमूर्तो भगवान् कालो ब्रह्मैव तम् अजं विदुः ।
न जहाति न चादत्ते किञ्चित् कस्यचिद् एव सः ॥
लौकिको यस् त्व् अयं कालो वर्षकल्पयुगात्मकः ।
सङ्कल्प्यते पदार्थौघैः पदार्थौघाश् च तेन ते ॥
समानप्रतिभासोत्थसम्भ्रमभ्रान्तचेतसः ।
तथा तद् दृष्टवन्तस् ते हूनकीरजनोच्चयाः ॥
स्वव्यापारपरो भूत्वा धियात्मानं विचारयन् ।
साधो गतमनोमोहम् इहैवास्स्व व्रजाम्य् अहम् ॥
इत्य् उक्त्वा भगवान् विष्णुर् जगामान्तर्धिम् ईश्वरः ।
अतिष्ठत् कन्दरे गाधिर् आधिपीवरया धिया ॥
ततः कतिपयेष्व् अद्रौ मासेष्व् अपि गतेषु सः ।
पुनर् आराधयाम् आस पुण्डरीककरं द्विजः ॥
ददर्श चैकदा नाथम् आगतं प्रणनाम तम् ।
पूजयाम् आस मनसा सोत्केनोवाच चेश्वरम् ॥
भगवन् संस्मरंश् चित्रां ताम् आत्मश्वपचस्थितिम् ।
इमां संसारमायां च परिमुह्यामि चेतसा ॥
तद् उक्त्वाशु यथावस्तु महामोहनिवृत्तये ।
एतस्मिन्न् एव विमले मां नियोजय कर्मणि ॥
ब्रह्मञ् जगद् इदं मायामहाशम्बरडम्बरम् ।
सर्वा आश्चर्यकलनास् सम्भवन्तीह विस्तृते ॥
हूनकीरपुरे मोहाद् दृष्टवांस् तत् तथा भवान् ।
इत्य् एतत् सम्भवत्य् एव दृश्यते हि जनैर् भ्रमः ॥
हूनास् त्वम् इव कीराश् च दृष्टवन्तस् तथा भ्रमम् ।
मुधैवेत्य् अपि सत्याभं समकालादिसम्भवात् ॥
इदं तु शृणु वक्ष्यामि यथाभूतम् अनिन्दित ।
येनैति तनुतां चिन्ता मार्गशीर्षलतेव ते ॥
यो ऽसौ कटञ्जको नाम श्वपचो हूनमण्डले ।
तेनैव सन्निवेशेन स तथैवाभवत् पुरा ॥
तथैव विकलत्रत्वं प्राप्य देशान्तरं गतः ।
बभूव कीरनृपतिः प्रविवेशानलं ततः ॥
भवतः केवलं चित्ते जलान्तर्वर्तिनस् तदा ।
प्रतिभाता तथाभूता कटञ्जाचारसंस्थितिः ॥
दृष्टानुभूतम् अत्यर्थं कदाचिद् विस्मरत्य् अलम् ।
कदाचिद् अप्य् अदृष्टं तु चेतः पश्यति दृष्टवत् ॥
यथा स्वप्नमनोराज्यधातुसंस्थितिषु भ्रमः ।
जाग्रत्य् अपि तथैवाङ्ग दृश्यते मनसा स्वयम् ॥
भविष्यद्भूतकालस्थं यथा त्रैकाल्यदर्शिनः ।
प्रतिभाम् एति ते गाधे कटञ्जचरितं तथा ॥
अयं सो ऽहम् इदं तन् मे इति मज्जति नात्मवान् ।
अयं सो ऽहम् इदं तन् मे इति पश्यत्य् अनात्मवान् ॥
सर्वम् एवाहम् एवेति तत्त्वज्ञो नावसीदति ।
न गृह्णाति पदार्थेषु विभागानर्थभावनाम् ॥
तेनासौ भ्रममोहेषु सुखदुःखविलासिषु ।
न निमज्जति मग्नो ऽपि तुम्बीपात्रम् इवाम्भसि ॥
त्वं तावद् वासनाजालग्रस्तचित्तो विचेतनः ।
किञ्चिच्छेषमहाव्याधिर् इव न स्वास्थ्यम् आगतः ॥
ज्ञानस्यापरिपूर्णत्वान् न शक्नोषि मनोभ्रमम् ।
विनिवारयितुं मेघम् असम्यङ्मन्त्रवान् इव ॥
यद् एव ते मनोमात्रे सहसा प्रतिबिम्बते ।
तरुर् ओघजवेनेव तेनैवाक्रम्यसे क्षणात् ॥
चित्तनाभेः कलास्येह मायाचक्रस्य सर्वतः ।
स्थीयते चेत् तद् आक्रम्य तन् न किञ्चित् प्रबाधते ॥
त्वम् उत्तिष्ठ गिरेः कुञ्जे दशवर्षाण्य् अखिन्नधीः ।
तपः कुरु ततो ज्ञानम् अनन्ताभावम् आप्स्यसि ॥
इत्य् उक्त्वा पुण्डरीकाक्षस् तत्रैवान्तरधीयत ।
वाताभ्रवद् दीपकवद् यमुनोत्पीडवत् क्षणात् ॥
गाधिर् विवेकवशजं वैराग्यं परम् आगतः ।
शरत्समयपर्यन्ते वैरस्यम् इव पादपः ॥
विचित्रं चेष्टितं धातुर् असमञ्जसम् आततम् ।
बृहद्भ्रमभरोन्मुक्तमतिर् मन्दम् अगर्हयत् ॥
जगाम करुणार्द्रात्मा नियमायोत्तमश्रिये ।
विश्रान्त्यै वृष्टमूकात्मा पयोधर इवाचलम् ॥
निरस्ताशेषसङ्कल्पस् तपस् तत्र चकार ह ।
दशवर्षाणि तेनासाव् आत्मज्ञानम् अवाप ह ॥
अरमत तदनु स्वां प्राप्य सत्तां महात्मा व्यपगतभयमोहो भोगभूमाव् अनिच्छः ।
सततमुदितजीवन्मुक्तरूपः प्रशान्तस् सकल इव शशाङ्को घूर्णितापूर्णचेताः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0