भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.5

5.5.1

इदम् उत्तमसिद्धान्तसुन्दरं सुन्दराकृते ।
उपशान्तिप्रकरणं शृणुष्वावहितो हितम् ॥

5.5.2

दीर्घसंसारमायेयं राम राजसतामसैः ।
धार्यते पुरुषैर् नित्यं सुस्तम्भैर् इव मण्डपः ॥

5.5.3

सत्त्वस्थजातिभिर् वीरैस् त्वादृशैर् गुणबृंहितैः ।
हेलया त्यज्यते पक्वा मायेयं त्वग् इवोरगैः ॥

5.5.4

ये सत्त्वजातयः प्राज्ञास् तथा राजससात्त्विकाः ।
विचारयन्ति ते साधो जगत् पूर्वापरं परम् ॥

5.5.5

शास्त्रसज्जनसत्कारसङ्गेनापगतैनसाम् ।
सारावलोकिनी बुद्धिर् जायते दीपिकोपमा ॥

5.5.6

स्वयम् एव विचारेण विचार्यात्मानम् आत्मना ।
यावन् नाधिगतं ज्ञेयं न तावद् अधिगम्यते ॥

5.5.7

प्रज्ञावतां नयवतां धीराणां कुलशालिनाम् ।
जात्या राजससत्त्वानां मुख्यस् त्वं कुलनन्दन ॥

5.5.8

स्वयम् आलोकय प्राज्ञ संसारारम्भदृष्टिषु ।
किं सत्यं किम् असत्यं वा भव सत्यपरायणः ॥

5.5.9

आदाव् अन्ते च यन् नास्ति कीदृशी तस्य सत्यता ।
आदाव् अन्ते च यन् नित्यं तत् सत्यं राम नेतरत् ॥

5.5.10

आद्यन्तासन्मये यस्य वस्तुन्य् आरज्यते मनः ।
तस्य मुग्धपशोर् जन्तोर् विवेकः केन जन्यते ॥

5.5.11

जायते मन एवेह मन एवेह वर्धते ।
सम्यग्दर्शनदृष्ट्या तु मन एव विलीयते ॥

5.5.12

ज्ञातम् एतन् मया ब्रह्मन् यथास्मिन् भुवनत्रये ।
मन एव हि संसारि जरामरणभाजनम् ॥

5.5.13

यस् तस्योत्तरणोपायस् तं मे ब्रूहि विनिश्चितम् ।
हार्दं तमस् त्वयार्केण राघवाणां विनाश्यते ॥

5.5.14

पूर्वं राघव शास्त्रेण वैराग्येण वरेण च ।
तथा सज्जनसङ्गेन नीयते पुण्यतां मनः ॥

5.5.15

सौजन्यबृंहितं चेतो यदा वैराग्यम् आगतम् ।
तदानुगम्या गुरवो विज्ञानगुरवो हि ये ॥

5.5.16

ततस् तदुपदिष्टेन कृत्वा ध्यानार्चनादिकम् ।
क्रमेण पदम् आप्नोति तद् यत् परमपावनम् ॥

5.5.17

विचारेणावदातेन पश्यत्य् आत्मानम् आत्मना ।
इन्दुना शीतलेनान्तर् बिम्बं स्वम् इव तेजसा ॥

5.5.18

तावद् भवमहाम्भोधौ जनस् तृणवद् उह्यते ।
विचारतटविश्रान्तिम् एति यावन् न चेतसा ॥

5.5.19

विचारेण परिज्ञातवस्तुनो ऽस्य जनस्य धीः ।
सर्वान् अधः करोत्य् आधीन् सोम्याम्भ इव वालुकाः ॥

5.5.20

इदं रुक्मम् इदं भस्म परिज्ञाते इति स्फुटम् ।
न यथा हेमकारस्य मोहो ज्ञातात्मनस् तथा ॥

5.5.21

अक्षयो ऽयम् अनाशात्मा स्वात्मेत्य् अवगते चिरम् ।
भवतीति हि कस्येह मोहस्यावसरः कुतः ॥

5.5.22

अपरिज्ञातसारे हि मणौ मूल्ये विमुह्यते ।
ज्ञातसारे त्व् असन्दिग्धमूल्ये क्व किल मूढता ॥

5.5.23

हे जना अपरिज्ञात आत्मा वो दुःखसिद्धये ।
परिज्ञातस् त्व् अनन्ताय सुखायोपशमाय च ॥

5.5.24

मिश्रीभूतम् इवानेन देहेनोपहतात्मना ।
व्यस्तीकृत्य स्वम् आत्मानं स्वस्था भवत माचिरम् ॥

5.5.25

देहेनास्य न सम्बन्धो मनाग् एवामलात्मनः ।
हेम्नः पङ्कलवेनेव तद्गतस्यापि मानवाः ॥

5.5.26

पृथग् आत्मा पृथग् देहो जलपद्मदलोपमौ ।
ऊर्ध्वबाहुर् विरौम्य् एष न च कश्चिच् छृणोति मे ॥

5.5.27

जडधर्मि मनो यावद् गर्तकच्छपवत् स्थितम् ।
भोगमन्दवपुर् मूढं विस्मृतात्मविचारणम् ॥

5.5.28

तावत् संसारतिमिरं सेन्दुनापि सवह्निना ।
अर्कद्वादशकेनापि मनाग् अपि न भिद्यते ॥

5.5.29

सम्प्रबुद्धे हि मनसि स्वां विवेचयति स्थितिम् ।
नैशम् अर्कोदय इव तमो हार्दं पलायते ॥

5.5.30

नित्यम् उत्तमबोधाय भोगशय्यागतं मनः ।
बोधयेद् भवभेदाय भवो ह्य् अत्यन्तदुःखदः ॥

5.5.31

यथा रजोभिर् गगनं यथा कमलम् अम्बुभिः ।
न लिप्यते ऽपि संश्लिष्टैर् देहैर् आत्मा तथैव वः ॥

5.5.32

कर्दमादि यथा हेम्नश् श्लिष्टम् एव पृथक् स्थितम् ।
नान्तः परिणतिं याति जडो देहस् तथात्मनः ॥

5.5.33

सुखदुःखानुभावित्वम् आत्मनीत्य् अवबुध्यते ।
असत्यम् एव गगने द्वीन्दुताम्लानते यथा ॥

5.5.34

सुखदुःखे हि देहस्य सर्वातीतस्य नात्मनः ।
एते ह्य् अज्ञानकस्यैव तस्मिन् नष्टे न कस्यचित् ॥

5.5.35

न कस्यचित् सुखं किञ्चिद् दुःखं च न च कस्यचित् ।
सर्वम् आत्ममयं शान्तम् अनन्तं पश्य राघव ॥

5.5.36

इमा याः परिदृश्यन्ते विततास् सृष्टिदृष्टयः ।
पयसीव तरङ्गास् ताः पिञ्छा व्योम्नीव वात्मनि ॥

5.5.37

यथा मणिर् ददात्य् आत्मच्छायास् स्वयम् अकारणम् ।
तेजोमयीस् तथैवायम् आत्मा सृष्टीः प्रयच्छति ॥

5.5.38

आत्मा जगच् च सुमते नैकं न द्वे न चाप्य् असत् ।
आभासमात्रम् एवेदम् इत्थं सम्प्रति जृम्भते ॥

5.5.39

समस्तं खल्व् इदं ब्रह्म सर्वम् आत्मेदम् आततम् ।
अहम् अन्यद् इदं चान्यद् इति भ्रान्तिं त्यजानघ ॥

5.5.40

तते ब्रह्मघने नित्ये सम्भवन्ति न कल्पनाः ।
विच्छित्तयः पयोराशौ यथा राम जलेतराः ॥

5.5.41

एकस्मिन्न् एव सर्वस्मिन् परमात्मनि विस्तृते ।
द्वितीया कल्पना नास्ति वह्नौ हिमकणो यथा ॥

5.5.42

भावयन्न् आत्मनात्मानं चिद्रूपेणैव चिन्मयम् ।
जगज्जालम् अयं ह्य् आत्मा स्वयम् आत्मनि जृम्भते ॥

5.5.43

न शोको ऽस्ति न मोहो ऽस्ति न जन्मास्ति न जन्मवान् ।
यद् अस्तीह तद् एवास्ति विज्वरो भव राघव ॥

5.5.44

समस् स्वस्थस् स्थिरमतिश् शान्तश् शान्तमना मुनिः ।
मौनी वरमणिस्वच्छो विज्वरो भव राघव ॥

5.5.45

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।
अद्वितीयो विशोकात्मा विज्वरो भव राघव ॥

5.5.46

विविक्तश् शान्तसङ्कल्पो धीरधीर् ऊर्जिताशयः ।
यथाप्राप्तानुवर्ती च विज्वरो भव राघव ॥

5.5.47

वीतरागो निरायासो विमना वीतकल्मषः ।
नादाता न परित्यागी विज्वरो भव राघव ॥

5.5.48

विश्वातीतं पदं प्राप्तः प्राप्तप्राप्तव्यपूरितः ।
पूर्णार्णववद् अक्षुब्धो विज्वरो भव राघव ॥

5.5.49

विकल्पजालनिर्मुक्तो मायाञ्जनविवर्जितः ।
आत्मनात्मनि तृप्तात्मा विज्वरो भव राघव ॥

5.5.50

अनन्तापारपर्यन्तवपुर् आत्मविदां वरः ।
धराधरशिरोधीरो विज्वरो भव राघव ॥

5.5.51

आत्मन्य् एवात्मनौदार्यं भज पूर्ण इवार्णवः ।
आत्मन्य् एवात्मनाह्लादं भज पूर्णेन्दुबिम्बवत् ॥

5.5.52

विश्वप्रपञ्चरचनेयम् असत्यरूपा नासत्यरूपम् अनुधावति नाम तज्ज्ञः ।
तज्ज्ञो ऽसि शान्तकलनो ऽसि निरामयो ऽसि नित्योदितो ऽसि भव सुन्दर शान्तशोकः ॥

5.5.53

एकातपत्रम् अवनौ गुरुणोपदिष्टः सम्यक् प्रपालय चिरं समयेह दृष्ट्या ।
राज्यं समस्तगुणरञ्जितराजलोकस् त्यागो न युक्त इह कर्मसु नापि रागः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc