मोक्षोपाय · अध्याय 5.4
मेघगम्भीरया वाचा विस्रब्धपदसुन्दरम् ।
इदं दशरथो वाक्यम् उवाच मुनिनायकम् ॥
भगवन् ह्यस्तनेन त्वं वाक्यसन्दर्भजन्मना ।
कच्चिन् मुक्तो ऽसि खेदेन तपःकार्श्यातिशायिना ॥
ह्यस् त्वयोक्तो य आनन्दी विविक्तो वचसां गणः ।
अमृतावर्षणेनेव तेनेहाश्वासिता वयम् ॥
चन्द्रांशव इवोत्सार्य तमांस्य् अमृतनिर्मिताः ।
अन्तश् शीतलयन्त्य् एता महताम् अमला गिरः ॥
अपूर्वाह्लाददायिन्य उच्चैस्तरपदाश्रयाः ।
अतिमोहापहारिण्यस् सूक्तयो ऽमृतवृष्टयः ॥
आत्मरत्नावलोकैकदीपिका पारमार्थिकी ।
यस्माद् उक्तिलतोदेति स वन्द्यस् सज्जनद्रुमः ॥
दुरीहितं दुर्विहितं सर्वं सज्जनसूक्तयः ।
प्रमार्जयन्ति शीतांशोस् तमस्काण्डम् इवांशवः ॥
तृष्णालोभादयो ऽस्माकं संसारनिगडा मुने ।
तवोक्त्या तनुतां याताश् शरदीवासिताम्बुदाः ॥
सम्प्रवृत्ता वयं द्रष्टुम् आत्मानम् अपकल्मषम् ।
रसाञ्जनानीतदृशो जात्यन्धा इव काञ्चनम् ॥
संसारवासनानाम्नी मिहिका हृदयाम्बरे ।
प्रवृत्ता तनुतां गन्तुं त्वदुक्तिशरदेह नः ॥
मुने मन्दारमञ्जर्यस् तरङ्गा वामृताम्भसः ।
न तथाह्लादयन्त्य् अन्तर् यथोदारधियां गिरः ॥
यद् यद् राघव संयाति महाजनसपर्यया ।
दिनं तद् इह सालोकं शेषास् त्व् अन्धा दिनालयः ॥
राम राजीवपत्त्राक्ष प्रकृतार्थदिदृक्षया ।
मुनिम् आबोधय पुनः प्रसादे समवस्थितम् ॥
इत्य् उक्ते भूभृता तत्र रामाभिमुखम् आस्थितः ।
उवाचेदम् उदारात्मा वसिष्ठो भगवान् मुनिः ॥
राघव स्वकुलैकेन्दो तं मयोक्तं महामते ।
कच्चित् स्मरसि वाक्यार्थं पूर्वापरविचारितम् ॥
उत्पत्तीनां विचित्राणां सत्त्वादिगुणभेदतः ।
कच्चित् स्मरसि सर्वासां विभागम् अरिमर्दन ॥
कच्चित् सर्वम् असर्वं च सद् असच् च सदोदितम् ।
रूपं स्मरसि देवस्य विमलं परमात्मनः ॥
यथेदम् उदितं विश्वं विश्वेशाद् ईश्वरेश्वरात् ।
कच्चित् स्मरसि तत् साधो साधुवादैकभाजन ॥
रूपं कच्चिद् अविद्यायाः फल्गुभङ्गुरम् आततम् ।
अनन्तम् अन्तवच् चैव सम्यक् स्मरसि सन्मते ॥
चित्तम् एव नरो नान्यद् इति यत् प्रतिपादितम् ।
लवणादिविचारेण कच्चित् स्मरसि साधु तत् ॥
वाक्यार्थश् चाखिलः कच्चित् त्वया राम विचारितः ।
ह्यस्तनस्य विचारस्य रात्रौ हृदि निवेशितः ॥
भूयो भूयः परामृष्टं हृदये सुनियोजितम् ।
प्रयोजनं फलत्य् उच्चैर् न हेलाहतसंस्थिति ॥
भाजनं त्वं विविक्तानां वचसां शुद्धिशालिनाम् ।
विविक्तहृदयो वेणुर् मुक्तानाम् इव मानद ॥
कमलासनपुत्रेण मुनिना सुमहौजसा ।
एवंवितीर्णावसरो रामो वाक्यम् उवाच ह ॥
भगवन् सर्वधर्मज्ञ तवैवैतद् विजृम्भितम् ।
यद् अहं परमोदारं बुद्धवान् वचनं तव ॥
यद् आदिशसि तत् सर्वं तथैव न तद् अन्यथा ।
अपास्तनिद्रेण मया वाक्यार्थो निशि चिन्तितः ॥
भवान्धकारक्षतये भवतोर्वीविवस्वता ।
ह्यः प्रसारितम् आह्लादि वाग्रश्मिपटलं प्रभो ॥
तद् अदीनम् अदीनात्मन् सर्वम् अन्तःकृतं मया ।
रम्यं पुण्यं विचित्रं च रत्नवृन्दम् इवाब्धिना ॥
हितानुबन्धि हृद्यं च पुण्यम् आनन्दसाधनम् ।
शिरसा ध्रियते कैर् नो सिद्ध्यै त्वदनुशासनम् ॥
प्रक्षीयमाणसंसारनीहारावरणा वयम् ।
प्रसन्नास् त्वत्प्रसादेन वर्षान्त इव वासराः ॥
आपातमधुरारम्भं मध्ये सौभाग्यवर्धनम् ।
अनुत्तमफलोदर्कं पुण्यं त्वदनुशासनम् ॥
विकासि सितम् अम्लानम् आह्लादि मुदिताशयम् ।
त्वद्वचःकुसुमं नित्यं श्रीमत्फलदम् अस्तु नः ॥
सकलशाश्वतशास्त्रविशारद प्रसृतपुण्यजलैकमहाह्रद ।
भज भृशं विततव्रत सम्प्रति प्रसृततां हतकिल्बिष मां प्रति ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0