भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.6

5.6.1

इमम् एवं परिस्पन्दं करोमीत्य् अस्तवासनम् ।
प्रवर्तते यः कार्येषु स मुक्त इति मे मतिः ॥

5.6.2

पौरुषीं तनुम् आश्रित्य केचिद् एते क्रियारताः ।
स्वर्गान् नरकम् आयान्ति स्वर्गं च नरकात् पुनः ॥

5.6.3

केचित् कुकर्मनिरता विरतास् स्वविवेकतः ।
नरकान् नरकं यान्ति दुःखाद् दुःखं भयाद् भयम् ॥

5.6.4

केचित् स्ववासनातन्तुबद्धाः कर्मावलोडिताः ।
तिर्यक्त्वात् स्थावरतनुं यान्ति तिर्यक्तनुं ततः ॥

5.6.5

केचिद् आत्मविदो धन्या विचारितमनोदृशः ।
विच्छिन्नतृष्णानिगडा यान्ति निष्केवलं पदम् ॥

5.6.6

पुरा कतिपयान्य् एव भुक्त्वा जन्मानि राघव ।
अस्मिञ् जन्मनि यो मुक्तस् स स्याद् राजससात्त्विकः ॥

5.6.7

जातो ऽसौ वृद्धिम् अभ्येति पार्वणश् चन्द्रमा इव ।
कुटजं प्रावृषीवैनं सौभाग्यम् अनुगच्छति ॥

5.6.8

यस्येदं जन्म पाश्चात्यं तम् आश्व् एव महामते ।
विशन्ति विद्या विमला मुक्ता वेणुम् इवोत्तमम् ॥

5.6.9

आर्यता हृद्यता मैत्री सोम्यता मुक्तता ज्ञता ।
समाश्रयन्ति तं नित्यम् अन्तःपुरम् इवाङ्गनाः ॥

5.6.10

यः कुर्वन् सर्वकार्याणि पुष्टे नष्टे ऽथ तत्फले ।
समस् स सर्वकालेषु न तुष्यति न शोचति ॥

5.6.11

तमांसीव दिवा यान्ति तत्र द्वन्द्वानि सङ्क्षयम् ।
शरदीव घनास् तत्र गुणा गच्छन्ति शुद्धताम् ॥

5.6.12

पेशलाचारमधुरं सर्वे वाञ्छन्ति तं जनाः ।
वेणुं मधुरनिस्स्वानं वने मृगगणा इव ॥

5.6.13

नरं पाश्चात्यजन्मानम् एवम्प्राया गुणश्रियः ।
जातम् एवानुधावन्ति बलाका इव वारिदम् ॥

5.6.14

ततो ऽसौ गुणसम्पूर्णो गुरुम् एवानुगच्छति ।
स तम् एकं विवेकेन नियोजयति पावनम् ॥

5.6.15

विचारवैराग्यवता चेतसा गुणशालिना ।
देवं पश्यत्य् अथात्मानम् एकरूपम् अनामयम् ॥

5.6.16

अतो राम विचारेण चारुणा शान्तचेतसा ।
प्रबोधनीयं प्रथमं मनो मननमन्थरम् ॥

5.6.17

ये हि पाश्चात्यजन्मानस् ते हि सुप्तं मनोमृगम् ।
प्रबोधयन्ति प्रथमं गुणगीतैर् महागुणाः ॥

5.6.18

प्रथितगुणान् सुगुरून् निषेव्य यत्नाद् अमलधिया प्रविचार्य चित्तरत्नम् ।
गतिम् अमलाम् उपयाति मानवो ऽस्मिञ् जगति विलोक्य चिरं प्रकाशम् अन्तः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc