भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.48

5.48.1

लुठितं श्वपचागारं पुनर् विस्मयवान् ययौ ।
गाधिर् मनो हि नायाति तृप्तिम् आश्चर्यदर्शने ॥

5.48.2

तत्रावलोकयाम् आस स्थानानि सदनानि च ।
कल्पक्षोभविवृत्तानि जगन्तीवाम्बुजोद्भवः ॥

5.48.3

उवाच स्वात्मनैवेदम् अरण्ये लुठितालये ।
शुष्कास्थिमालावलिते पिशाचक इव भ्रमन् ॥

5.48.4

इमास् ता मृतमातङ्गदन्तमाला वृतौ कृताः ।
अद्यापि संस्थिताः कल्पं प्रति मेरुशिखा इव ॥

5.48.5

इह तद् वानरीमांसं पक्वं वंशाङ्कुरैस् सह ।
भुक्तं सुरासवोन्मत्तैस् सह श्वपचबन्धुभिः ॥

5.48.6

आलिङ्ग्य श्वपचीं श्यामाम् इह केसरिचर्मणि ।
सुप्तम् आपीय मैरेयं तिक्तं गजमदैर् नवैः ॥

5.48.7

कौलेयककुटुम्बिन्यः पिण्याकपरिवर्धिताः ।
इह बद्धा वरत्राभिर् मृतेभरदकाष्ठके ॥

5.48.8

इह वारणमुक्तानां तद् आसीत् पिठिरत्रयम् ।
पिनद्धं माहिषेणोग्रचर्मणाम्बुदशोभिना ॥

5.48.9

स्थलीष्व् एतासु तास्व् अत्र सह श्वपचबालकैः ।
चिरं विलुलितं चूतपत्त्रपुञ्जे पिकैर् इव ॥

5.48.10

रूढतद्बालनिश्श्वासरणद्वंशानुवृत्तिमत् ।
गीतं पीतं शुनीरक्तसाधितासवतोषितैः ॥

5.48.11

अत्र सार्धं कुटुम्बेन जन्यत्रेषु कुटुम्बिना ।
नृत्तं तत् कृतम् उन्नादं कल्लोलैर् जलधाव् इव ॥

5.48.12

अत्रोड्डयनलोलानां काकभासपतत्रिणाम् ।
धृतानाम् अन्यघातार्थं ग्रथितं वंशपञ्जरम् ॥

5.48.13

एवम्प्रायास् स्मरन् गाधिः प्राक्तनीश् श्वपचक्रियाः ।
विस्मयोत्कम्पितशिरा धातुश् चेष्टाः परामृशन् ॥

5.48.14

चचाल तस्माद् दीर्घेण देशात् कालेन कार्यवित् ।
हूनमण्डलम् उत्सृज्य प्राप देशान्तरं क्रमात् ॥

5.48.15

समुल्लङ्घ्य नदीशैलमण्डलारण्यसन्ततिम् ।
आससाद तुषाराद्रिलग्नं कीरजनास्पदम् ॥

5.48.16

तत्र प्राप महीपालनगरं नगसन्निभम् ।
जगद्भ्रमणखिन्नात्मा स्वर्लोकम् इव नारदः ॥

5.48.17

अथात्मनानुभूतानि दृष्टान्य् आसेवितानि च ।
स्थानानि नगरे पश्यन् पप्रच्छ जनम् आदृतः ॥

5.48.18

साधो स्मरसि कच्चित् त्वम् इह श्वपचम् ईश्वरम् ।
यदि जानासि तत् तन् मे कथयाशु यथाविधि ॥

5.48.19

अभूद् इहाष्टौ वर्षाणि श्वपचो भूमिपो द्विज ।
राजत्वम् अर्पितं यस्य नवमङ्गलहस्तिना ॥

5.48.20

अन्ते स सम्परिज्ञातस् सम्प्रविष्टो हुताशनम् ।
अत्र द्वादशवर्षाणि समतीतानि तापस ॥

5.48.21

यं यं पृच्छत्य् असौ गाधिर् जनं जातकुतूहलः ।
तस्य तस्य मुखाद् एवं शृणोत्य् अनुभवत्य् अपि ॥

5.48.22

अथापश्यत् पुरे तस्मिन् नृपं सबलवाहनम् ।
देवं चक्रधरं द्रष्टुं मन्दिरान् निर्गतं बहिः ॥

5.48.23

तं दृष्ट्वा स्थगिताकाशं बलरेणुपयोधरैः ।
प्राक्तनीं राजताम् स्मृत्वा स्वाम् उवाचातिविस्मितः ॥

5.48.24

इमास् ताः कीरकामिन्यः पद्मगर्भोपमत्वचः ।
कनकद्रववर्णिन्यो लोलनीलोत्पलेक्षणाः ॥

5.48.25

चामरौघा इमे चन्द्रकरसम्पिण्डपाण्डुराः ।
स्थिरनिर्झरसङ्काशाः काशपुष्पचया इव ॥

5.48.26

कान्ताभिर् अवधूयन्ते वालव्यजनराशयः ।
इमास् ता नववल्लीभिः कुसुमानाम् इवर्द्धयः ॥

5.48.27

इमास् ता मत्तमातङ्गघटा घटितमन्दिराः ।
सकल्पपादपा मेरोर् इव श्र्ङ्गपरम्पराः ॥

5.48.28

एते ते यमशर्वेन्द्रकुबेरप्रतिमौजसः ।
सामन्ता वासवस्येव लोकपाला महीभृतः ॥

5.48.29

इमास् तास् सर्वरत्नाढ्यास् सर्वाभिमतदास् तताः ।
कल्पवृक्षलताकुञ्जसुन्दर्यो गृहपङ्क्तयः ॥

5.48.30

इदं तत् कीरजनताराज्यं प्राग् भुक्तम् अद्य मे ।
आत्मजन्मान्तराचार इव प्रत्यक्षतां गतम् ॥

5.48.31

सत्यस्वप्न इवेदं मे जाग्रतो ऽपि पुरस् स्थितम् ।
न जाने किं कृतोत्थाना मायेयं प्रविजृम्भते ॥

5.48.32

अहो नु खलु दीर्घेण मनोमोहेन जृम्भता ।
वैवश्यम् उपनीतो ऽहं जालेनेव शकुन्तकः ॥

5.48.33

हा धिक् कष्टम् अबुद्धं मे मनो वासनया हतम् ।
पश्यतो भ्रमजालानि वितनोति शिशोर् इव ॥

5.48.34

एषा हि माया महती तेन मे चक्रपाणिना ।
दर्शितेत्य् अधुना साधु मया स्मृतम् अखण्डितम् ॥

5.48.35

तद् इदानीं तथा यत्नं करिष्ये गिरिकन्दरे ।
यथातिसम्भ्रमस्यास्य जाने मर्म यथास्थितम् ॥

5.48.36

इति सञ्चिन्त्य नगराद् गाधिस् तप्तुं जगाम ह ।
कन्दरं प्राप्य शैलस्य तस्थौ सुश्रान्तसिंहवत् ॥

5.48.37

तत्र संवत्सरं सार्धं पयश्चुलकभोजनः ।
तपश् चक्रे महातेजास् तुष्टये शार्ङ्गधन्वनः ॥

5.48.38

अथास्य पुण्डरीकाक्षः पयोमूर्तिर् उपाययौ ।
प्रसादम् उत्पलश्यामश् शरदीव महाह्रदः ॥

5.48.39

तम् आजगाम शैलेन्द्रकन्दरं द्विजमन्दिरम् ।
पयोधरवद् आत्माच्छच्छविर् व्योमन्य् अथावसत् ॥

5.48.40

गाधे कच्चित् त्वया दृष्टा माया मम गरीयसी ।
दृष्टं त्वया जगज्जालचेष्टितं वेष्टितात्मकम् ॥

5.48.41

चित्ताभिमत एतस्मिन् प्राप्ते सम्यग् अनिन्दित ।
तपो गिरितटे कुर्वन् किम् अन्यद् अभिवाञ्छसि ॥

5.48.42

एवं वदन्तम् आलोक्य हरिं गाधिर् द्विजोत्तमः ।
अर्चाकुसुमपूरेण पादयोः पर्यपूजयत् ॥

5.48.43

दत्तार्घं कीर्णकुसुमं प्रणम्याशु प्रदक्षिणैः ।
विष्णुम् आह द्विजो वाक्यम् अम्भोदम् इव चातकः ॥

5.48.44

देव यैषा त्वया माया दर्शितातितमोमयी ।
महीं प्रातर् इवादित्यस् तां मे प्रकटतां नय ॥

5.48.45

भ्रमं यत् पश्यति मनो वासनामलमालितम् ।
स्वप्नवत् स कथं देव जाग्रत्य् अपि हि दृश्यते ॥

5.48.46

मुहूर्तम् उपलब्धात्मा जलान्तस् स्वप्नविभ्रमः ।
कथं प्रत्यक्षतां प्राप्तो ममामलपदास्पद ॥

5.48.47

दैर्घ्यादैर्घ्ये च कालस्य शरीरस्य भवाभवौ ।
कथम् अत्र स्थितानि स्युर् मदीयश्वपचभ्रमे ॥

5.48.48

गाधे स्वाधिविधूतस्य रूपम् अस्यैतद् आत्मजम् ।
चेतसो ऽदृष्टतत्त्वस्य यत् पश्यत्य् उरुविभ्रमम् ॥

5.48.49

बहिर् न किञ्चिद् अप्य् अस्ति खाद्रिद्यूर्वीदिगादिकम् ।
एतत् स्वचित्त एवास्ति पत्त्रपुञ्ज इवाङ्कुरे ॥

5.48.50

फलादि स्फारताम् एति यथैव बहिर् अङ्कुरात् ।
बहिः प्रकटतां याति तथा पृथ्व्यादि चेतसः ॥

5.48.51

सत्यं पृथ्व्यादि चित्तस्थं न बहिस्स्थं कदाचन ।
अङ्कुरस्थं फलं वस्तु तस्माद् यस्मात् फलश्रियः ॥

5.48.52

रूपालोकमनस्कारान् सत्ताकालक्रियाक्रमान् ।
कुम्भकारो घटम् इव चेतो हन्ति करोति च ॥

5.48.53

आबालम् एतत् पुरुषैस् सर्वैर् एवानुभूयते ।
स्वप्नभ्रमवद् आवेगरागरोगादिदृष्टिषु ॥

5.48.54

चित्ते वृत्तान्तलक्षाणि संस्थितान्य् आत्तवासने ।
पादपे फलपुष्पाणि मूलाक्रान्तावनाव् इव ॥

5.48.55

त्यक्तावनेर् विटपिनो भूयः पत्त्राणि नो यथा ।
निर्वासनस्य जीवस्य पुनर् जन्मादि नो तथा ॥

5.48.56

यत्रानन्तं जगज्जालं संस्थितं तेन चेतसा ।
श्वपचत्वं प्रकटितं यदि तद् विस्मयो ऽत्र किम् ॥

5.48.57

अवबुद्धा श्वपचता प्रतिभासवशात् त्वया ।
यथैवानल्पसंरम्भा विचित्रापि विकारदा ॥

5.48.58

तथैवातिथिर् आयातो भुक्तवान् सुप्तवान् द्विजः ।
कथां कथितवांश् चेति दृष्टवान् असि विभ्रमम् ॥

5.48.59

तथैवोत्थाय गच्छामि प्राप्तो ऽहं हूनमण्डलम् ।
इमे हूना इमे ग्रामा दृष्टवान् इत्य् असि भ्रमम् ॥

5.48.60

तथैवेदं कटञ्जस्य प्राक्तनं लुठितं गृहम् ।
जनैर् उक्तः कटञ्जश् च दृष्टवान् इत्य् असि भ्रमम् ॥

5.48.61

तथैव कीरनगरं प्राप्तो ऽस्मि कथितं च मे ।
कीरैश् श्वपचराजत्वं दृष्टवान् इत्य् असि भ्रमम् ॥

5.48.62

एवं सर्वं त्वया दृष्टं मोहजालं द्विजोत्तम ।
यत् सत्यम् इति जानासि यच् चासत्यम् अवैषि च ॥

5.48.63

वासनावलितं चेतः किं नाम न न पश्यति ।
साधितं दृश्यते स्वप्ने वर्षसाध्यं प्रयोजनम् ॥

5.48.64

नातिथिर् न च हूनास् ते न कीरास् ते न तत् पुरम् ।
सर्वम् एव महाबुद्धे व्यामोहाद् दृष्टवान् असि ॥

5.48.65

गच्छता भवता हूनदेशं पान्थेन कन्दरे ।
कस्मिंश्चिद् विप्र विश्रान्तं कुरङ्गेणेव कानने ॥

5.48.66

तथैव श्रममूढत्वाद् इदं तद् धूनमण्डलम् ।
इदं तच् छ्वपचागारम् इति दृष्टं न सत्यतः ॥

5.48.67

तथैव कीरनगरं दृष्टवान् असि तत् तथा ।
तथैव नान्यथा वापि मायार्थी हि भवान् द्विज ॥

5.48.68

सर्वदैव समग्रासु विहरन्न् असि दृष्टवान् ।
दिक्षु प्रोन्मत्तक इव विभ्रमं मनसा मुने ॥

5.48.69

तद् उत्तिष्ठ निजम् कर्म कुर्वंस् तिष्ठोपशान्तधीः ।
न स्वकर्म विना श्रेयः प्राप्नुवन्तीह मानवाः ॥

5.48.70

इति निगदितवान् स पद्मनाभो वनगततापसवृन्दपूज्यमानः ।
विबुधमुनिगणैः पवित्रहस्तैर् वृत उदधिं निजम् आस्पदं जगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc