भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.47

5.47.1

मुहूर्तद्वितयेनाथ गाधेर् आधिभरभ्रमात् ।
प्रशशामाकुलीभावो वेलावत्त्वम् इवाम्बुधेः ॥

5.47.2

पयोनिर्माणसम्मोहात् तस्मात् स विरराम ह ।
कल्पान्तसमये ब्रह्मा जगद्विरचनाद् इव ॥

5.47.3

बोधम् आप शनैश् शान्तस् स्वम् एवोन्निद्रधीरधीः ।
क्षीवतायां प्रशान्तायां यथा परिणतासवः ॥

5.47.4

अयं सो ऽहम् इदं कार्यम् इदं नेति ददर्श ह ।
निशाव्यपगमे लोको यथा क्षीणतमःपटे ॥

5.47.5

स्मृतस्वरूपो वदनम् उद्दध्रे स जलान्तरात् ।
शिशिरान्ते प्रबुद्धात्मा सरोजम् इव माधवः ॥

5.47.6

वनवारिककुब्व्योमवतीं वसुमतीम् इमाम् ।
अन्याम् एव पुरः पश्यन् परं विस्मयम् आययौ ॥

5.47.7

को ऽहं किम् इव पश्यामि किम् अकार्षम् अहं किल ।
एवं विचारयंश् चित्रं सभ्रूभङ्गम् अभूत् क्षणम् ॥

5.47.8

एतन्मुहूर्तमात्रेण सम्भ्रमं दृष्टवान् अहम् ।
इति विज्ञाय सलिलाद् उदस्थाद् उदयार्कवत् ॥

5.47.9

चिन्तयाम् आस च तटे क्व मे माता क्व मे प्रिया ।
यद् अहं मृतिम् आयातो मध्ये मातृमहेलयोः ॥

5.47.10

बालस्य मातापितरौ नष्टौ किल ममामतेः ।
वातनीतस्य पत्त्रस्य वल्लीवृक्षाव् इवाग्निना ॥

5.47.11

अविवाहो ऽस्मि जानामि न स्वरूपम् अपि स्त्रियः ।
दुष्टायाः क्षोभकारिण्या मदिराया इव द्विजः ॥

5.47.12

तस्माद् एतद् असद्भूतम् अहं किं नाम दृष्टवान् ।
विविधारम्भसंरम्भं गन्धर्वो नगरं यथा ॥

5.47.13

तद् आस्ताम् एतद् एषा हि बन्धुमध्यमृतस्थितिः ।
माया मोहे मनाग् अस्मिन् न सत्यम् उपलभ्यते ॥

5.47.14

नित्यम् एवम् अनन्तासु भ्रमदृष्टिषु देहिनाम् ।
चेतो भ्रमति शार्दूलो वनराजिष्व् इवोन्मदः ॥

5.47.15

अवधीर्येति तं चित्तमोहं गाधिर् निनाय सः ।
दिनानि कतिचित् तस्मिन् स्वक एवाश्रमे तदा ॥

5.47.16

एकदा गाधिम् आगच्छत् कश्चिद् अन्नप्रियो ऽतिथिः ।
ब्रह्माणम् इव दुर्वासास् स विशश्राम सश्रमः ॥

5.47.17

परमां तृप्तिम् आनीतः फलपुष्परसाशनैः ।
सो ऽतिथिर् गाधिना तेन वसन्तेनेव पादपः ॥

5.47.18

अथ वन्दितसन्ध्यौ तौ कृतजप्याव् उभाव् अपि ।
क्रमाच् छयनम् आसाद्य तस्थतुर् मृदुपल्लवम् ॥

5.47.19

ततः प्रववृते शान्ता तयोस् तापसयोः कथा ।
स्वव्यापारोचिता पुष्पश्रीर् इवर्तुस् स्वमासयोः ॥

5.47.20

पप्रच्छाथातिथिं गाधिः प्रसङ्गापतितं वचः ।
किम् ब्रह्मन् सुकृशाङ्गस् त्वं किम् इति श्रमवान् असि ॥

5.47.21

ममातिकार्श्यश्रमयोर् भगवञ् शृणु कारणम् ।
कथयामि यथाभूतं वयं नासत्यवादिनः ॥

5.47.22

अस्त्य् अस्मिन् वसुधापीठे उत्तराशानिकुञ्जके ।
कीरो नामातिविख्यातश् श्रीमाञ् जनपदो महान् ॥

5.47.23

तत्राहम् अवसं मासं पूज्यमानः पुरे जनैः ।
अनन्तास्वादलोलात्मचित्तवेतालमोहितः ॥

5.47.24

एकदैकेन तत्रोक्तं कथाप्रस्तावतः क्वचित् ।
इहाभूच् छ्वपचो राजा वर्षाण्य् अष्टौ द्विजेति मे ॥

5.47.25

ततो ग्रामेषु मत्पृष्टैः प्रोक्तं सकलजन्तुभिः ।
राजा बभूव श्वपचो वर्षाण्य् अष्टाव् इहेति तैः ॥

5.47.26

स एवान्ते परिज्ञातः प्रविष्टो ज्वलनं जवात् ।
ततो द्विजशतानीह प्रविष्टानि हुताशनम् ॥

5.47.27

इति तेषां मुखाच् छ्रुत्वा तस्मान् निर्गत्य मण्डलात् ।
प्रयागे ऽकरवं शुद्ध्यै प्रायश्चित्तम् अहं द्विज ॥

5.47.28

कृत्वा चान्द्रायणस्यान्ते तृतीयस्याद्य पारणम् ।
इहाहम् आगतस् तेन श्रान्तो ऽस्म्य् अतिकृशो ऽस्मि च ॥

5.47.29

इति श्रुतवता तेन गाधिना स तदा द्विजः ।
भूयः पृष्टो ऽप्य् एतद् एव कथयाम् आस नान्यथा ॥

5.47.30

अथ विस्मयवान् गाधिस् तां नीत्वा तत्र शर्वरीम् ।
जगद्गेहमहादीपे रवाव् उदयम् आगते ॥

5.47.31

कृते प्रातस्तनविधाव् आपृच्छ्याश्व् अतिथौ गते ।
इदं सञ्चिन्तयाम् आस विस्मयोद्धुरया धिया ॥

5.47.32

यन् मया सम्भ्रमे दृष्टं सत्यं भूतं द्विजेन तत् ।
उक्तं ममेति किं नाम स्यान् मायाशम्बरे क्रमः ॥

5.47.33

यद् बन्धुमध्ये मरणं मया तद् दृष्टम् आत्मनः ।
सा मायैव न सन्देहश् शेषे पश्यामि सत्यताम् ॥

5.47.34

तद् आत्मश्वपचोदन्तं द्रष्टुं तावद् अखिन्नधीः ।
हूनमण्डलपर्यन्तग्रामं गच्छामि सत्वरम् ॥

5.47.35

इति सञ्चिन्तयन् गन्तुं मण्डलान्तरम् आदरात् ।
उत्तस्थौ भास्करः पार्श्वं मेरोर् द्रष्टुम् इवोद्यतः ॥

5.47.36

विनिर्गत्यावहन् मार्गे प्रावृडोघजवेन सः ।
देशान् उल्लङ्घयाम् आस बहून् वाततरङ्गवत् ॥

5.47.37

तुच्छदेशजनाचारं हूनमण्डलम् आसदत् ।
करभः कण्टकौघार्थी कारञ्जम् इव काननम् ॥

5.47.38

तत्र संवित्स्थितेनैव सन्निवेशेन वै पुरः ।
अपश्यद् ग्रामकं कञ्चिद् गन्धर्व इव पत्तनम् ॥

5.47.39

ददर्श तस्य पर्यन्ते तम् एव श्वपचालयम् ।
अधस् त्रिभुवनस्येव पाताले नरकव्रजम् ॥

5.47.40

चित्रचिन्तितविस्तारिसन्निवेशमयं पुरम् ।
गन्धर्ववद् असाव् आत्मश्वपचेशस्य दृष्टवान् ॥

5.47.41

तेनैव सन्निवेशेन प्राग् दृष्टं श्वपचास्पदम् ।
तस्य काम् अपि वैराग्यपदवीम् अनयन् मनः ॥

5.47.42

प्रावृडासारलुठितं भित्तिजातयवाङ्कुरम् ।
पर्यस्तच्छादनार्धाङ्कं किञ्चिदादृष्टकन्दरम् ॥

5.47.43

दारिद्र्यं तं दृढम् इव दौर्भाग्यम् इव कुट्टितम् ।
भ्रष्टाङ्गम् इव दौरात्म्यं दौस्स्थित्यम् इव खण्डितम् ॥

5.47.44

गाधिदन्तावदलितैर् गवाश्वमहिषास्थिभिः ।
धवलैर् व्याप्तपर्यन्तं साक्ष्यं कर्तुम् इव स्थितैः ॥

5.47.45

भुक्तं पीतं पुरा तेन येषु कर्परकेषु च ।
तैर् असन्मात्रमलिनैः परिपूर्णैर् इवावृतम् ॥

5.47.46

ताभिर् एवान्त्रतन्त्रीभिस् संशुष्काभिर् ऋताव् ऋतौ ।
तृष्णाभिर् इव दीर्घाभिः परितः परिवेष्टितम् ॥

5.47.47

चिरम् आलोकयाम् आस स तद् आत्मगृहं स्मयात् ।
प्राक्तनं शुष्कशवतां यातं देहम् इवात्मवान् ॥

5.47.48

अथ विस्मयवान् एष ग्रामकं समुपाययौ ।
उल्लङ्घ्य म्लेच्छनगरम् आर्यदेशम् इवाध्वगः ॥

5.47.49

तत्रापृच्छज् जनं साधो कच्चित् स्मरति भो भवान् ।
प्राग् वृत्तम् अस्य ग्रामस्य पर्यन्ते श्वपचक्रमम् ॥

5.47.50

सर्व एव हि धीमन्तश् चिरवृत्तम् अपि स्फुटम् ।
करस्थम् इव पश्यन्ति मयेति सुजनाच् छ्रुतम् ॥

5.47.51

अत्र श्वपचम् एकान्तवासिनं वृद्धम् उन्नतम् ।
स्मरस्य् एकं किल तमोदुःखानाम् इव देहकम् ॥

5.47.52

यदि जानासि भोस् साधो तन् मे कथय तं जनम् ।
पान्थसंशयविच्छेदे महत् पुण्यफलं स्मृतम् ॥

5.47.53

भूयो भूय इति ग्राम्याः पृष्टा गाधिद्विजन्मना ।
अनल्पस्मयसंरम्भा आर्तेनेव चिकित्सकाः ॥

5.47.54

यथा कथयसि ब्रह्मंस् तत् तथा न तद् अन्यथा ।
कटञ्जनामा श्वपच इहाभूद् दारुणाकृतिः ॥

5.47.55

पुत्रपौत्रसुहृद्भृत्यबन्धुस्वजनपेटकम् ।
यस्यातिविस्तीर्णम् अभूत् पत्त्रवृन्दं तरोर् इव ॥

5.47.56

तस्य वृद्धस्य तत् सर्वं कलत्रं मृत्युर् आच्छिनत् ।
अद्रेः पुष्पफलोपेतं महावनम् इवानिलः ॥

5.47.57

यस् ततो देशम् उत्सृज्य ययौ कीरपुरान्तरम् ।
वर्षाण्य् अष्टाव् अनुद्वेगं तत्र राजा बभूव यः ॥

5.47.58

यस् तत्राथ परिज्ञाय जनैर् दूरे तिरस्कृतः ।
यथा राशिर् अमेध्यस्य यथा ग्रामे विषद्रुमः ॥

5.47.59

ततो जने ऽग्निं प्रविशत्य् आत्मना यो हुताशनम् ।
आर्यताम् आर्यसंसर्गाद् आर्यतः प्रविवेश ह ॥

5.47.60

किं त्वम् एकं प्रयत्नेन श्वपचं पृच्छसि प्रभो ।
किं ते बन्धुर् असौ कश्चिद् अभवत् संस्तुतो ऽथ वा ॥

5.47.61

एवं कथयतो ग्राम्यान् गाधिः पृच्छन् पुनः पुनः ।
सर्वेषु तत्र ग्रामेषु मासम् एकम् उवास सः ॥

5.47.62

यथा तेनानुभूतं तच् छ्वपचत्वं तथैव तैः ।
ग्रामीणैस् तस्य कथितं सर्वैर् एवाविखण्डितम् ॥

5.47.63

अव्याहतं सकलहूनमुखाद् अथैतद् आकर्ण्य सम्यग् अवलोक्य यथानुभूतम् ।
गाधिश् शशाङ्कमलवद् धृदये विरूढं गूढाकृतिः परमविस्मयम् आजगाम ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc