मोक्षोपाय · अध्याय 5.46
विलासिनीभिर् वलितो मन्त्रिमण्डलपूजितः ।
वन्दितस् सर्वसामन्तैश् छत्त्रचामरमालितः ॥
सिद्धानुशासनः कान्तो ज्ञातराज्यगुणक्रमः ।
वीतशोकभयायासस् तत्र प्राप्तमहापदः ॥
विस्मृतात्मप्रभावो ऽभूद् अनिशं स्तवमङ्गलैः ।
आनन्दापूर्णया वृत्त्या भृशं क्षीव इवासवैः ॥
कीरेषु श्वपचो राज्यं वर्षाण्य् अष्टौ चकार ह ।
आर्यवृत्तम् अशेषेण तावत्कालं बभार ह ॥
यदृच्छयैकदाथासाव् अतिष्ठत् त्यक्तभूषणः ।
अतमस्तारकेन्द्वर्कतेजोऽम्बुदम् इवाम्बरम् ॥
बह्व् अमन्यत नो हारकेयूरवसनाद्य् असौ ।
प्रभुताबृंहितं चेतो नाहार्यम् अभिनन्दति ॥
एक एवाजिरं बाह्यं तादृग्वेषस् स निर्ययौ ।
मुख्याङ्गनान् नभोभागाद् अन्तं गच्छन्न् इवांशुमान् ॥
तत्रापश्यद् घनश्यामं पीनं श्वपचपेटकम् ।
गायन् मृदु वसन्तोत्थं कोकिलानाम् इव व्रजम् ॥
धुनानं झल्लरीतन्त्रीं करपल्लवलीलया ।
मधुरेहं रणद्रेफाम् अलिश्रेणीम् इव द्रुमः ॥
अथ तस्मात् समुत्तस्थौ जरावान् रक्तलोचनः ।
काचशृङ्गं हिमापूर्णम् इव श्वपचनायकः ॥
ज्यो कटञ्जेति सहसा वदन् कीरमहीपतेः ।
वल्ल्यां काकम् इवानन्दाज् जान्वग्रे ऽयोजयत् करम् ॥
उवाचेदं च कीरेशं हे बन्धो भोः कटञ्जक ।
क्व नु स्थितो ऽसि दिष्ट्याद्य दृष्टो ऽसि चिरबान्धव ॥
क्वासि विश्रान्तवान् कालम् एतावन्तं वनान्तरे ।
बन्धुवृन्दपरित्यक्तः परपुष्ट इवैककः ॥
इह राजा भवन्तं वा कच्चिद् गेयकलाविदम् ।
रक्तकण्ठं मानयति रागवान् इव कोकिलम् ॥
आपूरयति वा कच्चिद् गृहवस्त्राशनार्पणैः ।
मधुस् तमालविटपं फलपत्त्ररसैर् इव ॥
दर्शनेन तवाद्याहं परां निर्वृतिम् आगतः ।
पद्मस् सूर्योदयेनेव चन्द्रोदय इवोदधिः ॥
आनन्दानाम् अशेषाणां लाभानां महताम् अपि ।
विश्रामाणाम् अनन्तानां सीमान्तो बन्धुदर्शनम् ॥
श्वपचे प्रवदत्य् एवं राजा तावत् तया तया ।
चकार तत्कालजया चेष्टयैवावधीरणम् ॥
तावद् वातायनगताः कान्ताः प्रकृतयस् तथा ।
श्वपचो ऽयम् इति ज्ञात्वा म्लानताम् अलम् आययुः ॥
पद्मास् तुषारवृष्ट्येव ग्रामास् सावग्रहा इव ।
दाववन्त इवाद्रीन्द्रा नागरा न विरेजिरे ॥
नृपो ऽवधीरयाम् आस स तां स्वजनसङ्कथाम् ।
वृक्षाग्रगतमार्जारफेक्कारं मृगराड् इव ॥
सत्वरं प्रविवेशान्तःपुरम् आम्लानमानवम् ।
राजहंस इवावर्षसीदत्सरसिजं सरः ॥
सर्वावयवविश्रान्तां म्लानताम् अलम् आययौ ।
जानुस्तम्भान्तरमहारन्ध्रस्थाग्निर् इव द्रुमः ॥
तत्रापश्यद् असौ सर्वं विषण्णवदनं जनम् ।
जालं कुङ्कुमपुष्पाणां भुक्तमूलम् इवाखुना ॥
मन्त्रिणो नागरा नार्यस् ततस् ते तं महीपतिम् ।
नास्प्राक्षुर् अपि तिष्ठन्तं गृह एव शवं यथा ॥
भृत्याश् चाकृतसत्कारं दूर एव तम् अत्यजन् ।
दुःखयुक्ता घनस्नेहा अपि बालशवं यथा ॥
अनानन्दमुखं श्यामशरीरं श्रीविवर्जितम् ।
दग्धं स्थलम् इवैनं ते बह्व् अमन्यन्त नाकुलाः ॥
धूमायमानदेहस्य परितापदशावती ।
नाढौकतास्य जनता पार्श्वम् अग्निगिरेर् इव ॥
मन्दोत्साहसमुद्भूतास् तन्व्यस् सङ्घातवर्जिताः ।
एतदाज्ञाः परं प्रापुर् भस्मनीवाम्बुविप्रुषः ॥
क्रूरकर्मकराकारात् सङ्गतो ऽशुभदायिनः ।
तस्माद् विशेषेण जना राक्षसाद् इव दुद्रुवुः ॥
एक एव बभूवासौ जनमध्यगतो ऽपि सन् ।
अर्थादिगुणनिर्मुक्तः परदेश इवाध्वगः ॥
भृशम् आरटते ऽप्य् अस्मै नालापं नागरा ददुः ।
मुक्ताजालयुतायापि कीचकायाध्वगा इव ॥
अथ सर्वे वयं दीर्घं कालं श्वपचदूषिताः ।
प्रायश्चित्तैर् न शुद्धास् स्मः प्रविशामो हुताशनम् ॥
इति निर्णीय नगरे नागरा मन्त्रिणस् तथा ।
अभितो ज्वलयाम् आसुश् चिताश् शतसहस्रशः ॥
ज्वलितास्व् अभितस् तासु तारकास्व् इव खे तदा ।
बभूव नगरं सर्वम् आक्रन्दपरमानवम् ॥
करुणारावमुखरैः कलत्रैर् बाष्पवर्षिभिः ।
अवष्टब्धज्वलत्कुण्डपातसज्जजनव्रजम् ॥
अग्निकुण्डप्रविष्टानां मन्त्रिणां भृत्यरोदनैः ।
क्रन्दद्रथ्यं ध्वनद्गर्तम् अरण्यम् इव मारुतैः ॥
चितिदीपितविप्रेन्द्रमांसमांसलगन्धया ।
जातनीहारम् उत्पातवात्ययावकरैर् धुतैः ॥
वातदीर्घवसागन्धधूतानीतखगोम्भितैः ।
अन्त्रैर् व्योमगतैश् छन्नं भास्करं जलदैर् इव ॥
वातोद्धूतचितावह्निप्रज्वलत्पुरमण्डलम् ।
उड्डीनाग्निकणव्रातताराक्रान्तदिगन्तरम् ॥
प्रमत्ततस्करं क्रन्दद्बालकान्तकुमारकम् ।
सन्त्रस्तनागरापास्तजीवितास्थम् असंस्थिति ॥
अरक्षितगृहं चौरलुण्ठिताखिलसञ्चयम् ।
त्यक्तपुत्रकलत्रं च मरणव्यग्रनागरम् ॥
तस्मिंस् तथा वर्तमाने कष्टे विधिविपर्यये ।
अशेषजनतानाशे कल्पान्तसदृशस्थितौ ॥
राज्यसज्जनसम्पर्कपवित्रीकृतधीरधीः ।
गवलश् चिन्तयाम् आस शोकव्याकुलचेतनः ॥
मदर्थम् अत्यनर्थो ऽयं देशे ऽस्मिन् स्थितिम् आगतः ।
अकालकल्पान्तसमस् सर्वनायकनाशनः ॥
किं मे दुःखितजीवेन मरणं मे महोत्सवः ।
लोकनिन्द्यस्य दुर्जन्तोर् जीवितान् मरणं वरम् ॥
इति निश्चित्य गवलो ज्वलिते ज्वलने पुरः ।
पतङ्गवद् अनुद्वेगम् अकरोद् आहुतिं वपुः ॥
तस्मिन् बलाद् गवलनाम्नि हुताशराशौ देहे पतत्य् अवयवाकुलतां प्रयाते ।
स्वाङ्गावदाहदहनस्फुरणानुरोधाद् अन्तर्जले झगिति बोधम् अवाप गाधिः ॥
इत्य् उक्तवत्य् अथ मुनौ दिवसो जगाम सायन्तनाय विधये ऽस्तम् इनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश् च सहाजगाम ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0