मोक्षोपाय · अध्याय 5.45
अथापश्यद् असौ गाधिस् स्वाधिपीवरया धिया ।
अन्तर्जलस्थ एवान्तर् आत्मनात्मन्य् अनिर्मले ॥
हूनमण्डलपर्यन्तग्रामोपान्तनिवासिनाम् ।
श्वपचानां स्त्रियो गर्भे स्थितम् आत्मानम् आकुलम् ॥
गर्भवासभयाक्रान्तं पीडितं पेलवाङ्गकम् ।
श्वपचीहृदये सुप्तं श्वविष्ठायाम् इवाङ्कुरम् ॥
शनैः पक्वतया काले प्रसूतं मेचकच्छविम् ।
श्वपच्या प्रावृषेवाब्दं श्यावम् आवलितं मलैः ॥
सम्पन्नं श्वपचागारे शिशुं श्वपचवल्लभम् ।
इतश् चेतश् च गच्छन्तम् उत्पीडम् इव यामुनम् ॥
द्वादशाब्ददशां यातं संस्थितं षोडशाब्दिकम् ।
पीवरांसम् उदाराङ्गं पयोदम् इव मेदुरम् ॥
सारमेयपरीवारं विहरन्तं वनाद् वनम् ।
निघ्नन्तं मृगलक्षाणि पौलिन्दीं स्थितिम् आस्थितम् ॥
तमालं लतयेवाथ श्रितं श्वपचकान्तया ।
स्तनस्तबकशालिन्या नवपल्लवहस्तया ॥
श्यामया कलिकाजालदशनामलमालया ।
नववल्लभया भूरिविलासवलिताङ्गया ॥
विलसन्तं वनान्तेषु तया सह नवेष्टया ।
श्यामलं श्यामया भृङ्गं भृङ्ग्येव कुसुमर्द्धिषु ॥
नवपर्णलतापत्त्रवसनं व्यसनान्तरम् ।
विन्ध्यकान्तारम् आकारम् अभ्यागतम् इवोद्भटम् ॥
विश्रान्तं वनकुञ्जेषु सुप्तं गिरिदरीषु च ।
निलीनं पत्त्रकुञ्जेषु गुल्मकेषु कृतालयम् ॥
किङ्किरातावतंसाढ्यं यूथिकास्रग्विभूषितम् ।
केतकोत्तंससुभगं सहकारस्रगाकुलम् ॥
लुलितं पुष्पशय्यासु भ्रान्तम् अब्धितटेषु च ।
तज्ज्ञं काननकोशेषु बहुज्ञं मृगमारणे ॥
प्रासूत सो ऽथ शैलेषु पुत्रान् निजकुलाङ्कुरान् ।
अत्यन्तविषमोदर्कान् खदिरः कण्टकान् इव ॥
कलत्रवन्तं सम्पन्नं स्थितं प्रक्षीणयौवनम् ।
शनैर् जर्जरतां यातं वृष्टिहीनम् इव स्थलम् ॥
ततो हूनहतग्रामं जन्मदेशम् उपेत्य तम् ।
संस्थितं मठिकां पर्णैः कृत्वा दूरे मुनीन्द्रवत् ॥
जराजरढतां यातं स्वदेहसमपुत्रकम् ।
जीर्णप्रायरसश्वभ्रतमालतरुसन्निभम् ॥
प्रौढं श्वपचगार्हस्थ्यं कुर्वाणं बहुबान्धवम् ।
करञ्जकुञ्जवनवत् परां वृद्धिम् उपागतं ॥
अथापश्यद् असौ गाधिर् यावत् तस्य कलत्रिणः ।
जरढश्वपचेशस्य स्वात्मनो भ्रमकारिणः ॥
तत् कलत्रम् अशेषेण नीतम् आदृतमन्युना ।
आसारपवनेनाशु वनपर्णगणो यथा ॥
प्रलपत्य् एक एवासाव् अटव्यां दुःखकर्षितः ।
वियूथ इव सारङ्गो विगतास्थो ऽस्रुलोचनः ॥
दिनानि कतिचित् तत्र नीत्वा शोकपरीतधीः ।
जहौ स्वदेशं संशुष्कपद्मं सर इवाण्डजः ॥
विजहार बहून् देशान् अनास्थश् चिन्तयान्वितः ।
प्रेर्यमाण इवान्येन वातनुन्न इवाम्बुदः ॥
एकदा प्राप कीराणां मण्डले श्रीमतीं पुरीम् ।
खे ऽनूरुर् विहरञ् शून्ये सद्विमानम् इवामरः ॥
नृत्यद्रत्नांशुकच्छन्नमार्गवृक्षलताङ्गनाम् ।
आगुल्फं कीर्णकुसुमां नन्दनान्तरसुन्दरीम् ॥
सामन्तैर् ललनाभिश् च नागरैश् च निरन्तरम् ।
स्वर्गमार्गोपमं राजमार्गम् अस्याम् अवाप सः ॥
मणिरत्नकृतागारं तत्र मङ्गलहस्तिनम् ।
ददर्शामलशैलेन्द्रम् इव सञ्चारचञ्चलम् ॥
मृते राजनि राजार्थं विहरन्तम् इतस् ततः ।
रत्नज्ञम् इव रत्नोर्व्यां चिन्तामणिदिदृक्षया ॥
तम् असौ श्वपचो नागं कौतुकोदारया दृशा ।
चिरम् आलोकयाम् आस स्पन्दयुक्ताचलोपमम् ॥
आलोकयन्तम् आदाय तं करेण स वारणः ।
स्वकटे ऽयोजयन् मेरुस् तटे ऽर्कम् इव सादरम् ॥
तस्मिन् कटगते नेदुर् जयदुन्दुभयो ऽभितः ।
कल्पाम्बुद इवाकाशम् अधिरूढे महार्णवाः ॥
पूरिताशो बभौ राजा जयतीति जनस्वनः ।
उद्याने सम्प्रबुद्धानां विहगानाम् इवारवः ॥
उदभूद् वन्दिवृन्दानां घनकोलाहलस् ततः ।
वेलाविलुलिताम्बूनाम् अम्बुधीनाम् इव ध्वनिः ॥
तं तत्रावारयाम् आसुर् मण्डनार्थं वराङ्गनाः ।
क्षीरोदगतम् उद्रत्ना लहर्य इव मन्दरम् ॥
मानिन्यस् तं गुणप्रोतैर् नानारत्नैर् अपूरयन् ।
नानाप्रभाप्रभावाढ्यैर् वेला इव तटाचलम् ॥
तुषारशिशिरस्पर्शैस् तास् तं हारैर् अभूषयन् ।
श्यामा नवनदीपूरैर् वर्षाश् शृङ्गम् इवोन्नतम् ॥
विचित्रवर्णसौगन्ध्यैः पुष्पैर् आवलयन् स्त्रियः ।
वनं मधुश्रिय इव तं लोलकरपल्लवाः ॥
नानावर्णरसामोदैस् तास् तम् आशु विलेपनैः ।
अलेपयन् प्रभाजालैस् तट्यो ऽभ्रम् इव धातुजैः ॥
रत्नकाञ्चनकान्तो ऽसाव् आददे छत्त्रम् आततम् ।
सन्ध्याभ्रतारेन्दुनदीव्याप्तं मेरुर् इवाम्बरम् ॥
भूषितस् सविलासाभिर् बालवल्लीभिर् आवृतः ।
रत्नपुष्पांशुकाकीर्णः कल्पवृक्ष इवाबभौ ॥
तादृशं तम् उपाजग्मुः परिवारसमन्विताः ।
सर्वाः प्रकृतयः फुल्लं मार्गद्रुमम् इवाध्वगाः ॥
ता एनम् आसने सैंहे प्राप्याभिषिषिचुः क्रमात् ।
तस्मिन्न् एव गजे शक्रम् ऐरावण इवामराः ॥
एवं स श्वपचो राज्यं प्राप कीरपुरान्तरे ।
अरण्ये हरिणं पुष्टम् अप्राणम् इव वायसः ॥
कीरीकरतलाम्भोजप्रमृष्टचरणाम्बुजः ।
सर्वाङ्गकुङ्कुमालेपैस् सन्ध्याम्बुधरशोभनः ॥
जज्वाल कीरनगरे नागरीजनवान् असौ ।
सिंहीगणयुतस् सिंहो यथा कुसुमिते वने ॥
हरिहतमदनागोत्तारमुक्ताकलापप्रविचरितशरीरश् शान्तचिन्ताविषादः ।
अरमत स महद्भिस् तत्र भोगैस् सरस्यां रविकरमदतप्तो वारिपूरैर् इवेभः ॥
परिविसृतनृपौजास् सर्वदिक्संस्थिताज्ञः कतिपयदिवसेहासिद्धदेशव्यवस्थः ।
प्रकृतिभिर् अलम् ऊढाशेषराजत्वभारस् स गवल इति नाम्ना तत्र राजा बभूव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0