मोक्षोपाय · अध्याय 5.44
रामापर्यवसानेयं माया संसृतिनामिका ।
आत्मचित्तजयेनैव क्षयम् आयाति नान्यथा ॥
जगन्मायाप्रपञ्चस्य वैचित्र्यप्रतिपत्तये ।
इतिहासम् इमं वक्ष्ये शृणुष्वावहितो ऽनघ ॥
अस्त्य् अस्मिन् वसुधापीठे कोसला नाम मण्डलम् ।
कल्पवृक्षवनं मेरोर् इव रत्नगणाकरम् ॥
तत्रासीद् ब्राह्मणः कश्चिद् गुणी गाधिर् इति श्रुतः ।
परमश्रोत्रियो धीमान् वेदो मूर्तिम् इवाश्रितः ॥
आ बाल्यात् प्रविरक्तेन चेतसा स व्यराजत ।
निष्कलङ्कावदातेन भुवनं नभसा यथा ॥
किम् अप्य् अभिमतं कार्यं विनिधाय स चेतसि ।
बन्धुवर्गाद् विनिष्क्रम्य तपस् तप्तुं वनं ययौ ॥
उत्फुल्लकमलं तत्र सरः प्राप स विप्रराट् ।
चन्द्रः प्रसन्नविमलं ताराशारम् इवाम्बरम् ॥
आशौरिदर्शनं तस्मिंस् तपोऽर्थं सरसि द्विजः ।
आकण्ठम् अम्बुनिर्मग्नः प्रावृट्पद्म इवावसत् ॥
ययौ मासाष्टकं तस्य मग्नस्य सरसो ऽम्भसि ।
मांसपङ्कजशङ्कोत्कभृङ्गभग्नमुखच्छवेः ॥
अथैनं तपसा तप्तम् अजगमैकदा हरिः ।
निदाघार्तं घनश् श्यामः प्रावृषीव धरातलम् ॥
विप्रोत्तिष्ठ पयोमध्याद् गृहाणाभिमतम् वरम् ।
अभीप्सितफलोपेतो जातस् ते नियमद्रुमः ॥
असङ्ख्येयजगद्भूतहृत्पद्मकुहरालिने ।
जगत्त्रयैकनलिनीसरसे विष्णवे नमः ॥
मायाम् इमां त्वदुदितां भगवन् पारमात्मिकीम् ।
द्रष्टुम् इच्छामि संसारनाम्नीम् आश्चर्यकारिणीम् ॥
इमां द्रक्ष्यसि मायां त्वं ततस् त्यक्ष्यसि चेत्य् अजः ।
उक्त्वा ययाव् अदृश्यत्वं गान्धर्वम् इव पत्तनम् ॥
गते विष्णौ समुत्तस्थौ जलात् स ब्राह्मणेश्वरः ।
शीतलामलमूर्तित्वाद् इन्दुः क्षीरोदकाद् इव ॥
बभूव परितुष्टात्मा दर्शनेन जगत्पतेः ।
दर्शनस्पर्शनैर् इन्दोर् उत्फुल्लम् इव कैरवम् ॥
अथास्य कतिचित् तस्मिन् दिवसानि ययुर् वने ।
हरिसन्दर्शनानन्दवतो ब्राह्मणकर्मणा ॥
एकदारब्धवान् स्नानं सरस्य् उदितपङ्कजे ।
चिन्तयन् वैष्णवं वाक्यं महर्षिर् इव मानसे ॥
अथ स्नानविधाव् अन्तर्जलम् एष चकार ह ।
सकलाघविघातार्थं परिवर्तनम् आत्मनः ॥
अन्तर्जलविधौ तस्मिन् विस्मृतध्यानमन्त्रधीः ।
पर्यस्तसंवित्प्रसरस् सो ऽपश्यज् जलमध्यगः ॥
मृतम् आत्मानम् आत्मीये सदने ऽसोम्यतां गतम् ।
पतितं वातवेगेन कन्दरान्तर् इव द्रुमम् ॥
प्राणापानप्रवाहेण मुक्तम् अन्तम् उपागतम् ।
संशान्तावयवस्पन्दं निर्वात इव षण्डकम् ॥
पाण्डुराननम् आम्लानं वृक्षपर्णम् इवारसम् ।
शवीभूतम् अनाह्लादं छिन्ननालम् इवाम्बुजम् ॥
विपर्यस्तेक्षणं प्रातर् मज्जत्तारम् इवाम्बरम् ।
सावग्रहम् इव ग्रामं सर्वतः पांसुधूसरम् ॥
बाष्पक्लिन्नमुखैर् दीनैः करुणाक्रन्दकारिभिः ।
आवृतं बन्धुभिः खिन्नैः कुररैर् इव पादपम् ॥
सेतुभङ्गगलद्वारिम्लायमानमुखाब्जया ।
नलिन्या समधर्मिण्या भार्यया पादयोश् श्रितम् ॥
ताराक्रन्दरणद्रूढप्रलापालापमुग्धया ।
मात्रा गृहीतं चिबुके नवव्यञ्जनलाञ्छिते ॥
अन्यैः पार्श्वगतैर् दीनैस् स्रवदस्रुमुखैर् जनैः ।
श्रितं गलदवश्यायैश् शुष्कपर्णैर् इव द्रुमम् ॥
वियोगभीत्या संयोगपरिहारपरैर् इव ।
दूरं प्रविसृतैर् अङ्गैर् अनात्मीयैर् इवावृतम् ॥
परस्परम् अलग्नाभ्याम् ओष्ठाभ्यां दशनैश् शनैः ।
सविरागम् इवाम्लानैर् हसन्तं स्वात्मजीवितम् ॥
मौनं ध्यानम् इवापन्नं पङ्काद् इव विनिर्मितम् ।
अप्रबोधाय संसुप्तं विश्राम्यन्तम् इवोच्चकैः ॥
बान्धवाक्रन्दसंरम्भकोलाहलगता गिरः ।
स्नेहभावविचारार्थं शृण्वन्तम् इव यत्नतः ॥
अथ तत्कालकल्लोलप्रलापाकुलचेष्टितैः ।
सोरस्ताडनम् उच्छूननेत्रवारिभिर् आप्लुतैः ॥
क्रमेण स्वजनैः क्षुब्धैस् ताराक्रन्दितघर्घरैः ।
निष्कालितम् अमङ्गल्यम् अपुनर्दर्शनाय तैः ॥
नीतं श्मशानम् आश्यानवसापङ्ककलङ्कितम् ।
शुष्काशुष्कजरत्क्लिन्नकङ्कालशतसङ्कुलम् ॥
गृध्राभ्रच्छन्नसूर्यांशु चिताज्वलननिस्तमः ।
शिवाशतमुखज्वालाजालपल्लवितावनि ॥
वहद्रक्तसरित्स्नातमद्गुकङ्कोग्रवायसम् ।
रक्तार्द्रतन्त्रीप्रसरजालबद्धजरत्खगम् ॥
तत्र ते ज्वलने दीप्ते चक्रुस् तं भस्मसाच् छवम् ।
बान्धवास् सलिलापूरं समुद्रा इव वाडवे ॥
चितिश् चटचटास्फोटैश् शवम् आशु ददाह तम् ।
शुष्केन्धनवद् उच्छूनज्वालाजालजटावती ॥
अत्युल्लसच्चटचटारवमुक्तगन्धव्याप्ताम्बुवाहपटलो ऽस्थिचयं हुताशः ।
दन्ती विरन्ध्रम् इव वेणुवनं समन्ताद् उद्वान्तमेदुररसं दलयां चकार ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0