मोक्षोपाय · अध्याय 5.43
भगवन् सर्वधर्मज्ञ शुद्धैस् त्वद्वचनांशुभिः ।
निर्वृतास् स्मश् शशाङ्कस्य करैर् ओषधयो यथा ॥
कर्णाभिवाञ्छ्यमानानि पवित्राणि मृदूनि च ।
भूषयन्ति गृहीतानि पुष्पाणीव वचांसि ते ॥
पौरुषेण प्रयत्नेन सर्वम् आसाद्यते यदि ।
प्रह्लादस् तत् कथं बुद्धो न माधववरं विना ॥
यद् यद् राघव सम्प्राप्तं प्रह्लादेन महात्मना ।
तत् तद् आसादितं तेन पौरुषाद् एव नान्यतः ॥
आत्मा नारायणश् चैव न भिन्नौ तिलतैलवत् ।
तथैव शौक्ल्यपटवत् कुसुमामोदवत् तथा ॥
यो हि विष्णुस् स एवात्मा यो ह्य् आत्मा स जनार्दनः ।
विष्ण्वात्मशब्दौ पर्यायौ यथा विटपिपादपौ ॥
प्रह्लादनाम्ना प्रथमम् आत्मैव स्वयम् आत्मना ।
स्वयैव शक्त्या परया विष्णुभक्तौ नियोजितः ॥
प्रह्लादो ह्य् आत्मनैवैतं वरम् अर्जितवान् स्वयम् ।
स्वयं विचारं कृतवान् स्वयं विजितवान् मनः ॥
कदाचिद् आत्मनैवात्मा स्वयं शक्त्या विबोध्यते ।
कदाचिद् विष्णुदेहेन भक्तिलभ्येन बोध्यते ॥
चिरम् आराधितो ऽप्य् एष परमप्रीतिमान् अपि ।
नाविचारवतो ज्ञानं दातुं शक्नोति माधवः ॥
मुख्यः पुरुषयत्नोत्थो विचारस् स्वात्मदर्शने ।
गौणो वरादिको हेतुर् मुख्यहेतुपरो भव ॥
पूर्वम् एव बलात् तस्माद् आक्रम्येन्द्रियपञ्चकम् ।
अभ्यासात् सर्वयत्नेन चित्तं कुरु विचारवत् ॥
यद् यद् आसाद्यते किञ्चित् केनचित् क्वचिद् एव हि ।
स्वशक्तिसम्प्रवृत्त्या तल् लभ्यते नान्यतः क्वचित् ॥
पौरुषं यत्नम् आश्रित्य प्रोल्लङ्घ्येन्द्रियपर्वतम् ।
संसारजलधिं तीर्त्वा पारं गच्छ परं पदम् ॥
विना पुरुषयत्नेन दृश्यते चेज् जनार्दनः ।
मृगपक्षिगणं कस्मात् तद् असौ नोद्धरत्य् अजः ॥
गुरुश् चेद् उद्धरत्य् अज्ञम् आत्मीयात् पौरुषाद् ऋते ।
उष्ट्रदान्तबलीवर्दांस् तत् कस्मान् नोद्धरत्य् असौ ॥
न हरेर् न गुरोर् नार्थात् किञ्चिद् आसाद्यते महत् ।
आक्रान्तमनसस् स्वस्माद् यन् नासादितम् आत्मनः ॥
अभ्यासवैराग्ययुताद् आक्रान्तेन्द्रियपन्नगात् ।
आत्मनः प्राप्यते यत् तत् प्राप्यते न जगत्त्रयात् ॥
आराधयात्मनात्मानम् आत्मनात्मानम् अर्चय ।
आत्मनात्मानम् आलोक्य सन्तिष्ठ स्वात्मनात्मनि ॥
शास्त्रयत्नविचारेभ्यो मूर्खाणां प्रपलायताम् ।
कल्पिता वैष्णवी भक्तिः प्रवृत्त्यर्थं शुभस्थितौ ॥
अभ्यासयत्नौ प्रथमं मुख्यो विधिर् उदाहृतः ।
तदभावे तु गौणस् स्यात् पूज्यपूजामयः क्रमः ॥
अस्ति चेद् इन्द्रियाक्रान्तिः किं पूजापूज्यपूजनैः ।
नास्ति चेद् इन्द्रियाक्रान्तिः किं पूजापूज्यपूजनैः ॥
विचारोपशमाभ्यां हि विना नासाद्यते हरिः ।
विचारोपशमाभ्यां च युक्तस्याब्जकरेण किम् ॥
विचारोपशमोपेतं चित्तम् आराधयात्मनः ।
तस्मिन् सिद्धे भवान् सिद्धो नो चेत् त्वं वनगर्दभः ॥
क्रियते माधवादीनां प्रणयः प्रार्थनाय यत् ।
स चैव कस्मात् क्रियते न स्वकस्यैव चेतसः ॥
सर्वस्यैव जनस्यास्य विष्णुर् अभ्यन्तरे स्थितः ।
तं परित्यज्य ये यान्ति बहिर् विष्णुं न ते बुधाः ॥
हृद्गुहावासि चित्तत्त्वं मुख्यं सानातनं वपुः ।
शङ्खचक्रगदाहस्तो गौण आकार आत्मनः ॥
यो हि मुख्यं परित्यज्य गौणं समनुधावति ।
त्यक्त्वा रसायनं सिद्धं साध्यं संसाधयत्य् असौ ॥
यस् तु वा स्थितिम् एवास्याम् आत्मज्ञानचमत्कृतौ ।
नासादयति सम्मत्तमनास् स रघुनन्दन ॥
अप्राप्तात्मविवेको ऽन्तर् अज्ञश् चित्तवशीकृतः ।
शङ्खचक्रगदापाणिम् अर्चयत्य् अमरेश्वरम् ॥
तत्पूजनेन कष्टेन तपसा तस्य राघव ।
काले निर्मलताम् एति चित्तं वैराग्यवारिणा ॥
नित्याभ्यासविवेकाभ्यां चित्तम् आशु प्रसीदति ।
आम्रम् एव दशाम् एति साहकारीं शनैश् शनैः ॥
एतद् अप्य् आत्मनैवात्मा फलम् आप्नोति भावितम् ।
हरिपूजाक्रमाख्येन निमित्तेनारिसूदन ॥
वरम् आप्नोति यो वापि विष्णोर् अमिततेजसः ।
तेन स्वस्यैव तत् प्राप्तं फलम् अभ्यासशाखिनः ॥
सर्वेषाम् उत्तमार्थानां सर्वासां चिरसम्पदाम् ।
स्वमनोनिग्रहो भूमिर् भूमिस् सस्यश्रियाम् इव ॥
अप्य् उर्वीखननोत्कस्य कषतो ऽपि शिलोच्चयम् ।
स्वमनोनिग्रहाद् अन्यो नोपायो ऽस्तीह दुःखहा ॥
तावज् जन्मसहस्राणि भ्रमन्ति भुवि मानवाः ।
यावन् नोपशमं याति मनोमत्तमहार्णवः ॥
ब्रह्मविष्ण्विन्द्ररुद्राद्याश् चिरं सम्पूजिता अपि ।
उपप्लुतमनोव्याधिं न त्रायन्ते ऽपि वत्सलाः ॥
आकारभासुरं त्यक्त्वा बाह्यम् आन्तरम् अप्य् अजम् ।
कुरु जन्मक्षयायाशु संविन्मात्रैकचिन्तनम् ॥
संवेद्यनिर्मुक्तनिरामयैकसंविन्मयास्वादम् अनन्तरूपम् ।
सन्मात्रम् आस्वादय सर्वसारं पारं परं प्राप्स्यसि जन्मनद्याः ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0