मोक्षोपाय · अध्याय 5.42
इत्य् उक्त्वा पुण्डरीकाक्षस् सनरामरकिन्नरः ।
द्वितीय इव संसारश् चचालासुरमन्दिरात् ॥
प्रह्लादादिविनिर्मुक्तैः पश्चात् पुष्पाञ्जलिव्रजैः ।
पूर्यमाणविहङ्गेशपाश्चात्याङ्गरुहोत्करः ॥
क्रमात् क्षीरोदम् आसाद्य विसृज्य सुरवाहिनीम् ।
भोगिभोगासने तस्थौ श्वेताब्ज इव षट्पदः ॥
भोगिभोगासने विष्णुश् शक्रस् स्वर्गे सहामरैः ।
पाताले दानवाधीश इति तस्थुर् गतज्वराः ॥
एषा ते कथिता राम निश्शेषमलनाशिनी ।
प्राह्लादी बोधसम्प्राप्तिर् ऐन्दवद्रवशीतला ॥
य एतां मानवा लोके बहुदुष्कृतिनो ऽपि हि ।
धिया विचारयिष्यन्ति ते प्राप्स्यन्त्य् अचिरात् पदम् ॥
सामान्येन विचारेण क्षयम् आयाति दुष्कृतम् ।
योगवाक्यविचारेण को न याति परं पदम् ॥
अज्ञानम् उच्यते पापं तद् विचारेण नश्यति ।
पापमूलच्छिदं तस्माद् विचारं न परित्यजेत् ॥
इमां प्रह्लादसंसिद्धिं प्रविचारयतां नृणाम् ।
सप्तजन्मकृतं पापं क्षयम् आप्नोत्य् असंशयम् ॥
परे पदे परिणतं पाञ्चजन्यस्वनैर् मनः ।
कथं प्रबुद्धं भगवन् प्रह्लादस्य महात्मनः ॥
द्विविधा मुक्तता लोके सम्भवत्य् अनघाकृते ।
सदेहैका विदेहान्या विभागो ऽयं तयोश् शृणु ॥
असंसक्तमतेर् यस्य त्यागादानेषु कर्मणाम् ।
नैषणा तत्स्थितिं विद्धि त्वं जीवन्मुक्तताम् इह ॥
सैव देहक्षये राम पुनर्जननवर्जिता ।
विदेहमुक्तता प्रोक्ता तत्स्था नायान्ति दृश्यताम् ॥
भृष्टबीजोपमा भूयोजन्माङ्कुरविवर्जिता ।
हृदि जीवद्विमुक्तानां शुद्धा भवति वासना ॥
पावनी परमोदारा सत्त्वमात्रानुपातिनी ।
आत्मध्यानमयी नित्यं सुषुप्तस्थेव तिष्ठति ॥
अपि वर्षसहस्रान्ते ते तयैवान्तरस्थया ।
सति देहे प्रबुध्यन्ते जीवन्मुक्ता रघूद्वह ॥
प्रह्लादो ऽन्तस्स्थया शुद्धसत्त्ववासनया स्वया ।
बोधम् आप महाबाहो शङ्खशब्दावबुद्धया ॥
हरिर् आत्मा हि भूतानां तस्य यत् प्रतिभासते ।
तत् तथैव भवत्य् आशु सर्वत्रात्मैव कारणम् ॥
प्रबोधम् एतु प्रह्लादो यदैवेति विचिन्तितम् ।
निमेषाद् वासुदेवेन तदैव तद् उपस्थितम् ॥
आत्मन्य् अकारणेनैव भूतानां कारणेन च ।
सृष्ट्यर्थं वपुर् आत्तं तद् वासुदेवीयम् आत्मना ॥
आत्मावलोकनेनाशु माधवः परिदृश्यते ।
माधवाराधनेनाशु स्वयम् आत्मावलोक्यते ॥
एतां दृष्टिम् अवष्टभ्य राघवात्मावलोकने ।
विहराशु विराडात्मा पदं प्राप्स्यसि शाश्वतम् ॥
सुखासारवती राम संसारप्रावृड् आतता ।
जाड्यं ददाति परमं विचारार्कम् अपश्यतः ॥
प्रसादाद् आत्मनो विष्णोर् मायेयम् अतिभासुरा ।
प्रबाधते न धीरांस् तु यक्षी मन्त्रवतो यथा ॥
आत्मेच्छयैव घनतां समुपागतान्तर् आत्मेच्छयैव तनुताम् उपयाति काले ।
संसारजालरचनेयम् अनन्तमाया ज्वालेव वातकलयानघ पावकस्य ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0