मोक्षोपाय · अध्याय 5.37
इति सञ्चिन्तयन्न् एव प्रह्लादः परवीरहा ।
निर्विकल्पं परानन्दसमाधिं समुपाययौ ॥
निर्विकल्पसमाधिस्थश् चित्रार्पित इवाचलः ।
शैलाद् इव समुत्कीर्णो बभौ स्वपदम् आस्थितः ॥
तथाथ तिष्ठतस् तस्य कालो बहुतरो ययौ ।
स्वे गृहे भुवनस्थस्य मेरोर् इव सुरद्विषः ॥
बोधितो ऽप्य् असुराधीशैर् नाबुध्यत महामतिः ।
अकाले बहुसेको ऽपि बीजकोशाद् इवाङ्कुरः ॥
पञ्चवर्षसहस्राणि पीनांसो ऽतिष्ठद् एकदृक् ।
शान्त एवासुरपुरे मत्तार्णव इवोपलः ॥
परानन्ददशैकान्तपरिणामितया तया ।
निरानन्दम् अनाभासम् इवाभासपदं गतः ॥
एतावताथ कालेन तद्रसातलमण्डलम् ।
बभूवाराजकं तीक्ष्णमात्स्यन्यायकदर्थितम् ॥
हिरण्यकशिपौ क्षीणे समाधौ तत्सुते स्थिते ।
न बभूवापरः कश्चिद् राजा दनुसुतालये ॥
असुरेशार्थिनां तेषां दानवानां समाधितः ।
परेणापि प्रयत्नेन प्रह्लादो न व्यबुध्यत ॥
न प्रापुर् विकसद्रूपं पतिं तत्रामरारयः ।
लसत्पत्त्रप्रभाजालं निशि पद्मम् इवालयः ॥
संविद्वातो न तस्यान्तर् अबुध्यत विचेतसः ।
भुवश् चेष्टाक्रम इव पौरुषो गतभास्वतः ॥
अथोद्विग्नेषु दैत्येषु गतेष्व् अभिमता दिशः ।
विचरत्सु यथाकामम् अराजनि पुरे पुरे ॥
पातालमण्डलम् अभूद् अभूपालतया तया ।
मात्स्यन्यायविपर्यस्तम् अस्तङ्गतगुणक्रमम् ॥
बलिभुक्ताबलपुरं मर्यादाक्रमवर्जितम् ।
सर्वगाशेषवनितं परस्परहतासुरम् ॥
प्रलापाक्रन्दपरुषं विसंस्थानपुरान्तरम् ।
लुठदुद्याननगरं व्यर्थानर्थकदर्थितम् ॥
चिन्तापरासुरगणं निरन्नफलबान्धवम् ।
अकाण्डोत्पातविवशं ध्वस्ताशामुखमण्डलम् ॥
सुरार्भकपराभूतं भूतैर् आक्रान्तम् अन्यजैः ।
भूतरिक्तम् अलक्ष्मीकम् उत्सन्नप्रायकोटरम् ॥
अनियतवनितार्थमत्तयुद्धं हृतधनदारविरावितं समन्तात् ।
कलियुगसमयोद्भटोदराभं तद् असुरमण्डलम् आकुलं बभूव ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0