भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.38

5.38.1

अथाखिलजगज्जालक्रमपालनदेवनः ।
क्षीरोदनगरे शेषशय्यासनगतो हरिः ॥

5.38.2

प्रावृण्निद्राव्युपरमे देवार्थम् अरिसूदनः ।
धिया विलोकयाम् आस कदाचिज् जागतीं स्थितिम् ॥

5.38.3

त्रैविष्टपं स्वमनसा पार्थिवं चावलोक्य सः ।
आचारम् आजगामाशु पातालम् अरिपालितम् ॥

5.38.4

तत्र स्थिरसमाधानस्थिते प्रह्लाददानवे ।
दृष्ट्वापदम् अरीन्द्रस्य पुरे प्रौढिम् उपागताम् ॥

5.38.5

व्यालतल्पतलस्थस्य क्षीरोदार्णवशायिनः ।
शङ्खचक्रगदापाणेर् देहस्यान्तरचारिणा ॥

5.38.6

पद्मासनस्थस्य मनश्शरीरेणातिभास्वता ।
इदं सञ्चिन्तयाम् आस त्रैलोक्याब्जमहालिना ॥

5.38.7

प्रह्लादे पदविश्रान्ते पाताले गतनायके ।
कष्टं सृष्टिर् इयं प्रायो निर्दैत्यत्वम् उपागता ॥

5.38.8

दैत्याभावे सुरश्रेणी निर्जिगीषुपदं गता ।
शमम् एष्यत्य् अदृष्टाब्दपटलेव सरिद् वरा ॥

5.38.9

मोक्षाख्यं विगतद्वन्द्वं ततो यास्यति तत् पदम् ।
क्षीणाभिमाना विरसा लतेव परिशुष्कताम् ॥

5.38.10

देवौघे शान्तिम् आयाते भुवि यज्ञतपःक्रियाः ।
अदेवत्वफलास् सर्वाश् शमम् एष्यन्त्य् असंशयम् ॥

5.38.11

क्रियास्व् अथोपशान्तासु भूलोको ऽस्तम् उपैष्यति ।
असंसारप्रसङ्गो ऽथ शेषो ऽप्य् अर्थो भविष्यति ॥

5.38.12

आकल्पान्तं त्रिभुवनं यद् इदं निर्मितं मया ।
लयम् एष्यत्य् अकाले तत् तापे हिमकणो यथा ॥

5.38.13

किम् एवम् अस्मिन्न् आभासे विलीय क्षयम् आगते ।
कृतं मयेह भवति स्वलीलाक्षयकारिणा ॥

5.38.14

ततो ऽहम् अपि शून्ये ऽस्मिन् नष्टचन्द्रार्कतारके ।
वपुःप्रशान्तिम् आदाय स्थितिम् एष्यामि तत्पदे ॥

5.38.15

अकाण्ड एवम् एवं हि जगत्य् उपशमं गते ।
नेह श्रेयो ऽनुपश्यामि मन्ये जीवन्तु दानवाः ॥

5.38.16

दैत्योद्वेगेन विबुधास् ततो यज्ञतपःक्रियाः ।
तेन संसारसंस्थानम् असंसारक्रमो ऽन्यथा ॥

5.38.17

तस्माद् रसातलं गत्वा यथावत् स्थापयाम्य् अहम् ।
स्वे क्रमे दानवाधीशम् ऋतुः पुनर् इव द्रुमम् ॥

5.38.18

विना प्रह्लादम् अथ चेद् इतरं दानवेश्वरम् ।
करोमि तद् असौ मन्ये देवान् उत्सादयिष्यति ॥

5.38.19

प्रह्लादस्य त्व् अयं देहः पश्चिमः पावनो महान् ।
आकल्पम् इह वस्तव्यं देहेनानेन तेन च ॥

5.38.20

एवं हि नियतिर् दैवी निश्चिता पारमेश्वरी ।
प्रह्लादेन यथाकल्पं स्थातव्यम् इह देहिना ॥

5.38.21

तस्मात् तम् एव गत्वाशु दैत्येन्द्रं बोधयाम्य् अहम् ।
गर्जन् गिरिदरीसुप्तं मयूरम् इव वारिदः ॥

5.38.22

जीवन्मुक्तसमाधिस्थः करोत्व् असुरनाथताम् ।
मणिर् मुक्तमनस्कारः प्रतिबिम्बक्रियाम् इव ॥

5.38.23

न विनश्यति सर्गो ऽयम् एवं सह सुरासुरैः ।
भविष्यति च नाद्वन्द्वं तन् मे क्रीडा भविष्यति ॥

5.38.24

सर्गक्षयोदयाव् एतौ सुसमौ मम यद्य् अपि ।
तथापीदं यथासंस्थं भवत्व् अन्येन किं मम ॥

5.38.25

भावाभावेषु यत् तुल्यं तन्नाशे तत्स्थितौ च वा ।
यः प्रयत्नः कुबुद्धित्वात् तद् व्योमहननं भवेत् ॥

5.38.26

तस्मात् प्रयामि पातालं बोधयाम्य् असुरेश्वरम् ।
स्थैर्यं नयामि संसारं लीलां सम्पादयाम्य् अहम् ॥

5.38.27

असुरपुरम् अवाप्य प्रोद्धताचारघोरं कमलम् इव विवस्वान् दैत्यम् उद्बोधयामि ।
जगद् इदम् अखिलास्थं स्थैर्यम् अभ्यानयामि घनविधिर् इव शैले चञ्चलं मेघजालम् ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc