मोक्षोपाय · अध्याय 5.36
आत्मन् सर्वपदातीत चिरात् संस्मृतिम् आगतः ।
दिष्ट्या लब्धो ऽसि भगवन् नमस् ते ऽस्तु चिदात्मने ॥
अभिवन्द्यावलोक्यायम् अलम् आलिङ्ग्यसे मया ।
को ऽन्यस् स्याद् भगवन् बन्धुस् त्वदृते भुवनत्रये ॥
हंसि पासि ददासि त्वं स्तौषि यासि विवल्गसि ।
अयं प्राप्तो ऽसि दृष्टो ऽसि किं करोषि क्व गच्छसि ॥
स्वसत्तापूरिताशेषविश्व विश्वजनीन हे ।
सर्वत्र लक्ष्यसे नित्यम् अधुना क्व पलायसे ॥
आवयोर् अन्तरं भूरिजन्मव्यवहितान्तरम् ।
अदूरम् अद्य सम्पन्नं दिष्ट्या दृष्टो ऽसि बान्धव ॥
नमस् ते कृतकृत्याय कर्त्रे हर्त्रे नमो ऽस्तु ते ।
नमस् संसारनृत्याय नित्याय विमलात्मने ॥
नमश् चक्राब्जहस्ताय नमश् चन्द्रार्धधारिणे ।
नमो विबुधनाथाय नमस् ते पद्मजन्मने ॥
वाच्यवाचकदृष्ट्यैव भेदो यो ऽयम् इहावयोः ।
असत्या कल्पनैवैषा वीचिवीच्यम्भसोर् इव ॥
त्वम् एवानन्तयानन्तवस्तुवैचित्र्यरूपया ।
भावाभावविलासिन्या नित्ययेह विजृम्भसे ॥
नमो द्रष्ट्रे नमस् त्वष्ट्रे नमो ऽनन्तविकासिने ।
नमस् सर्वस्वभावाय नमस् ते सर्वगामिने ॥
प्रतिजन्म चिरं बह्व्यो दीर्घदुःखवता मया ।
त्वया मायोपदग्धेन दिग्धेन महतैनसा ॥
आलोकिता लोकदशा दृष्टा दृष्टान्तदृष्टयः ।
न प्राप्तस् त्वं त्वया येन किञ्चिद् आसादितं भवेत् ॥
सर्वं मृत्काष्ठपाषाणवारिमात्रम् इदं जगत् ।
नेहास्ति त्वदृते देव यत्प्राप्तौ नाभिवाञ्छ्यते ॥
देवायम् अद्य लब्धो ऽसि दृष्टो ऽस्य् अधिगतो ऽसि च ।
सम्प्राप्तो ऽसि गृहीतो ऽसि नमस् ते ऽस्तु न मुच्यसे ॥
यो ऽक्ष्णोः कनीनिकारश्मिजालप्रोतवपुस् स्थितः ।
देवो दर्शनरूपेण कथं सो ऽन्तर् न दृश्यते ॥
यस् त्वक्पुष्पे स्पृशन् स्पर्शगन्धं तैलं तिले यथा ।
स्पर्शम् अन्तः करोत्य् एष स कथं नानुभूयते ॥
यश् शब्दश्रवणाद् अन्तश् शब्दशक्तिं परामृशन् ।
रोमाञ्चं जनयत्य् अङ्गे स दूरस्थः कथं भवेत् ॥
जिह्वापल्लवलग्नानि स्वतीतस्याङ्गतो ऽपि च ।
स्वदन्ते यस्य वस्तूनि स्वदते स न कस्य वा ॥
पुष्पगन्धान् उपादाय घ्राणहस्तेन देहकम् ।
य आलेपयति प्रीत्या कस्यासौ न मुखे स्थितः ॥
वेदवेदान्तसिद्धान्ततर्कपौराणगीतिभिः ।
यो गीतस् स कथं ह्य् आत्मा विज्ञातो याति विस्मृतिम् ॥
सैवेह देव भोगाली सुभगापीयम् अद्य मे ।
अन्तर् न स्वदते स्वच्छे त्वयि दृष्टे परापरे ॥
त्वया विमलदीपेन भानुः प्रकटतां गतः ।
त्वया शीततुषारेण चन्द्रश् शिशिरतां गतः ॥
त्वयैते गुरवश् शैलास् त्वयैते द्युचरा धृताः ।
त्वयैवेयं धरा धीरा त्वयैवाम्बरम् अम्बरम् ॥
दिष्ट्या मत्ताम् असि प्राप्तो दिष्ट्या त्वत्ताम् अहं गतः ।
अहं त्वं त्वम् अहं देव दिष्ट्या भेदो ऽस्ति नावयोः ॥
अहं त्वम् इति शब्दाभ्यां पर्यायाभ्यां महात्मनः ।
तव वा मम वा साधो सम्पृक्ताभ्यां नमो नमः ॥
नमो मह्यम् अनन्ताय निरहङ्काररूपिणे ।
नमो मह्यम् अरूपाय नमश् शमनसद्मने ॥
मय्य् आत्मनि समे स्वच्छे साक्षिभूते निराकृतौ ।
दिक्कालाद्यनवच्छिन्ने स्वात्मन्य् एवेह तिष्ठति ॥
मनः प्रक्षोभम् आयाति स्फुरन्तीन्द्रियसंविदः ।
शक्तिर् उल्लसति स्फारा प्राणापानप्रवाहिनी ॥
वहन्ति देहयन्त्राणि कृष्टान्य् आशावरत्रया ।
चर्ममांसास्थिदिग्धानि मनस्सारथिमन्ति च ॥
अयं संविद्वपुर् अहं न क्वचिन् न कृतास्पदः ।
देहः पततु वोदेतु स्वयाभिमतयेच्छया ॥
चिराद् अहम् अहं जातस् स्वात्मलाभश् चिराद् अयम् ।
चिराद् उपशमं यामि कल्पस्यान्ते जगद् यथा ॥
चिरात् संसारगामित्वाद् दीर्घसंसारवर्त्मनि ।
विश्रान्तो ऽस्मि चिरश्रान्तः कल्पस्यान्त इवानिलः ॥
सर्वातीताय सर्वाय तुभ्यं मह्यं नमो नमः ।
तेभ्यो ऽपि च नमो ऽस्त्व् एव ये त्वां मां प्रवदन्ति वा ॥
अखिलानन्तसम्भोगा न स्पृष्टा दोषदृष्टिभिः ।
जयत्य् अकृतसम्भारा साक्षिता परमात्मनः ॥
आत्मन् पुष्प इवामोदश् शस्त्रपिण्ड इवानलः ।
तिले तैलम् इवास्मिंस् त्वं सर्वत्र वपुषि स्थितः ॥
हंसि पासि ददासि त्वम् अवस्फूर्जसि वल्गसि ।
अनहङ्कृतिरूपो ऽपि चित्रेयं तव मायिता ॥
जयसीश ज्वलद्दीप्तिस् सर्वम् उन्मीलयञ् जगत् ।
जयस्य् अपगतारम्भं जगद् भूयो निमीलयन् ॥
परमाणोस् तवैवान्तर् इदं संसारमण्डलम् ।
वटश् च वटधानायां बभूवास्ति भविष्यति ॥
हयद्विपरथाकारैर् यद्वत् खे दृश्यते ऽम्बुदः ।
तद्वद् आलक्ष्यसे देव पदार्थशतविभ्रमैः ॥
भवानां भूरिभङ्गानाम् अभावाय भवाधिपः ।
भव भावविमुक्तात्मा भावाभावबहिष्कृतः ॥
जहि मानं मदं कोपं कालुष्यं क्रूरतां तथा ।
न महान्तो निमज्जन्ति प्राकृते गुणसङ्कटे ॥
प्राक्तनीर् दीर्घदौरात्म्यदशास् स्मृत्वा पुनः पुनः ।
को ऽहं किं तद् बभूवेति हस मुक्ताच्छटासितम् ॥
ते प्रयातास् समारम्भा गतास् ते दग्धवासराः ।
येषु चिन्तानलज्वालाजालजीर्णो भवान् अभूत् ॥
अद्य त्वं देहनगरे राजा स्फारमनोरथः ।
न दुःखैर् गृह्यसे नापि सुखैर् व्योम करैर् इव ॥
अद्येन्द्रियदुरश्वांस् त्वं जित्वा जितमनोगजः ।
भोगारीन् अभितो भङ्क्त्वा साम्राज्यम् अधितिष्ठसि ॥
अपाराम्बरपान्थस् त्वम् अजस्रास्तमयोदयः ।
अवभासकरो नित्यं बहिर् अन्तश् च भास्करः ॥
सर्वदैवासि संसुप्तश् शक्त्या संवेद्यसे विभो ।
भोगालोकनलीलार्थं कामिन्या कामुको यथा ॥
दृक्क्षुद्राभिर् उपानीतं दूराद् रूपमधु त्वया ।
पीयते स्वीकृतं शक्त्या नेत्रवातायनस्थया ॥
ब्रह्माण्डकोटरोद्वान्ताः प्राणापानचरास् त्वया ।
गतागतैर् ब्रह्मपुरे सम्प्रेक्ष्यन्ते प्रतिक्षणम् ॥
देहपुष्पे त्वम् आमोदो देहेन्दौ त्व् अमृतामृतम् ।
रसस् त्वं देहविटपे शैत्यं देहहिमे भवान् ॥
त्वय्य् अस्ति चिन्मयस् स्नेहश् शरीरक्षीरसर्पिषि ।
त्वम् अन्तर् अस्य देहस्य दारुण्य् अग्निर् इव स्थितः ॥
त्वम् अपाम् उत्तमास्वादः प्राकाश्यं तेजसाम् अपि ।
अवगन्ता त्वम् अर्थानां त्वं भासाम् अवभासकः ॥
स्पन्दस् त्वं सर्ववायूनां त्वं मनोहस्तिनो मदः ।
प्रज्ञानलशिखायास् त्वं प्राकाश्यं तैक्ष्ण्यम् एव च ॥
त्वद्वशाद् दीपवन् माया क्वापि सम्प्रविलीयते ।
दीपवत् पुनर् अन्यत्र समुदेति कुतो ऽपि सा ॥
त्वयि संसारवर्तिन्यः पदार्थावलयस् तथा ।
कटकाङ्गदकेयूरयुक्तयः कनके यथा ॥
भवान् अयम् अयं चाहं त्वं शब्दैर् एवमादिभिः ।
स्वयम् एवात्मनात्मानं लीलया स्तौषि वक्षि च ॥
मन्दानिलविनुन्नो ऽब्दो गजाश्वनरदृष्टिभिः ।
यथा संलक्ष्यते व्योम्नि तथा त्वं भूतदृष्टिभिः ॥
यथा हयगजाकारैर् ज्वाला लसति वह्निषु ।
तथैवाव्यतिरिक्तस् त्वं दृश्यैर् वससि सृष्टिषु ॥
त्वं ब्रह्माण्डकमुक्तानाम् अच्छिन्नस् तन्तुर् आततः ।
क्षेत्रं त्वं भूतसस्यानां चिद्रसायनसेकिनाम् ॥
असत् तद् अनभिव्यक्तं पदार्थानां प्रकाश्यते ।
त्वया तत्त्वं यथा पक्त्रा मांसानां स्वादवेदनम् ॥
विद्यमानापि वस्तुश्रीर् न स्थिता त्वयि न स्थिते ।
वनितारूपलावण्यसत्तेव गतचक्षुषः ॥
सद् अपीह न सत्तायै वस्तु नाकलितं त्वया ।
तुष्टये न स्वलावण्यं मकुराप्रतिबिम्बितम् ॥
लुठति त्वां विना देहः काष्ठलोष्टसमः क्षितौ ।
सन्न् अप्य् असत्तयैवात्तो यामास्व् इव रविं विना ॥
सुखदुःखक्रमः प्राप्य भवन्तं परिनश्यति ।
प्राकाश्यम् आसाद्य यथा तमस् तेजो ऽथ वा हिमम् ॥
त्वदालोकनयैवैते स्थितिं यान्ति सुखादयः ।
सूर्यालोकनया प्रातर् वर्णाश् शुक्लादयो यथा ॥
लब्धात्मानो विनश्यन्ति सम्बन्धक्षण एव ते ।
ते तमांसीव दीपस्य दृष्टाव् एव व्रजन्त्य् अलम् ॥
तमस्ता तमसो दीपासत्तायां स्फुटतां गता ।
दीपसम्बन्धसमये सा चोत्पत्य विनश्यति ॥
तथैव सुखदुःखश्रीर् दृष्ट्वैव त्वाम् अनामयम् ।
जायते जातमात्रैव सर्वनाशेन नश्यति ॥
भङ्गुरत्वाद् इह स्थातुं कालं नाणुम् अपि क्षमा ।
निमेषलक्षभागाख्या तन्वी कालकला यथा ॥
गत्वरी नश्वरी तन्वी सुखदुःखादिभावना ।
स्फुरति त्वत्प्रसादेन त्वयि दृष्टे विलीयते ॥
त्वदालोकक्षणोद्भूता त्वदालोकक्षणक्षया ।
मृतैव जाता जातैव मृता केनोपलक्ष्यते ॥
क्षणम् अप्य् अस्थिरं वस्तु कथं कार्यकरं भवेत् ।
तरङ्गैर् उत्पलाकारैर् माला कथम् इवोम्भ्यते ॥
यदि जातविनिर्नष्टं क्रियां वस्त्व् अकरिष्यत ।
तदारंस्यत लोको ऽयं मालां कृत्वा तडिद्गुणैः ॥
इमां सुखादिकां लक्ष्मीं विवेकिजनचेतसि ।
स्थितस् सन् नैव गृह्णासि न जहासि समस्थिते ॥
अविवेकिनि यो ऽसि त्वं स भवात्मन् यदृच्छया ।
तद्रूपकथनेनालं ममामलपदास्पद ॥
निरीहेण निरंशेन निरहङ्कृतिना त्वया ।
सतैवाप्य् असतेवापि कर्तृत्वम् उररीकृतम् ॥
जय प्रोड्डामराकार जय शान्तिपरायण ।
जय सर्वागमातीत जय सर्वागमास्पद ॥
जय जात जयाजात जय क्षत जयाक्षत ।
जय भाव जयाभाव जय जेय जयाजय ॥
उल्लसाम्य् उपशाम्यामि तिष्ठाम्य् अतिगतो ऽस्मि च ।
जयी जयामि जीवामि नमो मह्यं नमो ऽस्तु ते ॥
त्वयि स्थिते मयि विगतामयात्मनि स्वसंस्थितौ व्यपगतरागरञ्जने ।
क्व बन्धवः क्व च विपदः क्व सम्पदो भवाभवौ क्व शमम् उपैमि शाश्वतम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0