मोक्षोपाय · अध्याय 5.35
ओम् इत्य् आकारिताकारो विकारपरिवर्जितः ।
आत्मैवायं इदं सर्वं यत् किञ्चिज् जगतीगतम् ॥
मेदोऽस्थिमांसमज्जासृगतीतो ऽप्य् एष चेतनः ।
अन्तरस्थो ऽपि सूर्यादीन् प्रकाशयति दीपकः ॥
उष्णीकरोति दहनं रसयत्य् अमृतो रसं ।
इन्द्रियानुभवान् भुङ्क्ते भोगान् इव महीपतिः ॥
तिष्ठन्न् अपि हि नासीनो गच्छन्न् अपि न गच्छति ।
शान्तो ऽपि व्यवहारस्थः कुर्वन्न् अपि न लिप्यते ॥
पूर्वम् अद्य तथेदानीम् इहामुत्रोभयत्र च ।
पिहितो ऽपिहितो ऽप्य् एष समस् सर्वासु वृत्तिषु ॥
उद्भवन्यग्भवाभावभावनाभिर् इतस् ततः ।
ब्रह्मादितृणपर्यन्तं जगद् आवर्तयन् स्थितः ॥
नित्यस्पन्दमयो नित्यम् अपि देवात् सदागतेः ।
स्थाणोर् अप्य् अक्रियो नित्यम् आकाशाद् अप्य् अलेपकः ॥
मनांसि क्षोभयत्य् एष पल्लवान् इव मारुतः ।
वाहयत्य् अक्षपङ्क्तिं वा स्वाश्वालीम् इव सारथिः ॥
अतिदुःखितवद् देहगेहे कर्मकरस् सदा ।
सम्राड् इवात्मनि स्वास्थ्यसंस्थितो भोगभुग् विभुः ॥
एष एव सदान्वेष्यस् स्तुत्यो ध्यातव्य एव च ।
जरामरणसम्मोहाद् अनेनोत्तीर्य गम्यते ॥
सुलभश् चायम् अत्यन्तं सुज्ञेयश् चाप्तबन्धुवत् ।
शरीरपद्मकुहरे सर्वेषाम् एव षट्पदः ॥
अनाकृष्टो ऽप्य् अनाहूतस् स्वदेहाद् एव लभ्यते ।
मनाग् एवोपहूतो ऽपि क्षणाद् भवति सम्मुखः ॥
नास्य संसेव्यमानस्य सर्वसम्पत्तिशालिनः ।
धनानाम् ईश्वरस्येव स्मयो गर्वो ऽथ वा भवेत् ॥
आमोद इव पुष्पेषु तैलं तिलकणेष्व् इव ।
रसजातिष्व् इवास्वादो देवो देहेषु संस्थितः ॥
अविचारवशाद् एष हृदयस्थो ऽपि चेतनः ।
न ज्ञायते चिराद् दृष्ट इष्टबन्धुर् इवाग्रगः ॥
विचारणात् परिज्ञाते एतस्मिन् परमेश्वरे ।
अभ्युदेति परानन्दो लब्धे प्रियजने यथा ॥
अस्मिन् दृष्टे परे बन्धाव् उद्दामानन्ददायिनि ।
आयान्ति दृष्टयस् तास् ता याभिर् बन्धो विलीयते ॥
त्रुट्यन्ति सर्वतः पाशाः क्षीयन्ते सर्वशत्रवः ।
न कृन्तन्ति मनांस्य् आशा गृहाणीव दुराखवः ॥
अस्मिन् दृष्टे जगद् दृष्टं श्रुते ऽस्मिन् सकलं श्रुतम् ।
स्पृष्टे चास्मिञ् जगत् स्पृष्टं स्थिते ऽस्मिन् संस्थितं जगत् ॥
एष जागर्ति सुप्तानां प्रहरत्य् अविवेकिनाम् ।
हरत्य् आपदम् आर्तानां वितरत्य् अमहात्मनाम् ॥
विचरत्य् एष लोकेषु दीप एव जगत्स्थितौ ।
विलसत्य् एष भोगेषु प्रस्फुरत्य् एष वस्तुषु ॥
आत्मनात्मानम् एवान्तश् शान्तेनानुभवन् भवी ।
स्थितस् सर्वेषु देहेषु तिक्तत्वं मरिचेष्व् इव ॥
चेतनाकलनारूपी सबाह्याभ्यन्तराश्रितः ।
जगत्पदार्थसम्भारसत्तासामान्यम् आस्थितः ॥
एष शून्यत्वम् आकाशे स्पन्द एष सदागतौ ।
प्रकाशश् चैष तेजस्सु पयस्य् एष रसः परः ॥
काठिन्यम् अवनाव् एष औष्ण्यम् एष हुताशने ।
शैत्यम् एष निशानाथे सत्ता चैष जगद्गणे ॥
मषीपिण्डे यथा कार्ष्ण्यं शौक्ल्यं हिमकणे यथा ।
यथा पुष्पेषु सौगन्ध्यं देहे देहपतिस् तथा ॥
यथा सर्वगता सत्ता कालस् सर्वगतो यथा ।
यथा सर्वगतं व्योम विभुस् सर्वगतस् तथा ॥
प्रभुशक्तिर् महीपस्य सर्वदेशगता यथा ।
रूपालोकमनस्कारमुक्तं सत्त्वं तथात्मनः ॥
नित्यस् सो ऽयम् अहं देवो देवानाम् अवबोधकः ।
स्वयम् आत्मास्मि मे नास्ति कलनावित् किलेतरा ॥
रेणुनेवाणुना व्योम्नि पद्मपत्त्र इवाम्भसा ।
सम्भ्रमेणेव पाषाणे सम्बन्धो मयि नैनसा ॥
सुखदुःखश्रियो देहे मा पतन्तु पतन्तु वा ।
तुम्बकोपरि धाराश् च का नः क्षतिर् उपस्थिता ॥
दीपाङ्गाभिगतो रज्ज्वा नालोको बध्यते यथा ।
तथैवायम् अबद्धो ऽहं सर्वभावगणातिगः ॥
सम्बन्धः को नु नः कामैर् भावाभावैर् अथेन्द्रियैः ।
केन सम्बध्यते व्योम केन वा गृह्यते मनः ॥
शरीरे शतधा याते खण्डना का शरीरिणः ।
कुम्भे रुग्णे क्षते क्षीणे कुम्भाकाशस्य का क्षतिः ॥
पिशाचक इवादृश्यो मनो नामोदितं मुधा ।
जडे तस्मिन् क्षते बोधात् का नः क्षतिर् उपस्थिता ॥
सुखदुःखमयी यस्य वासना तन् मनो मम ।
अभवत् पूर्वम् अद्यैका सम्पन्ना ननु निर्वृतिः ॥
अन्यो भुङ्क्ते ऽन्य आदत्ते ऽप्य् अन्यस्यानर्थसङ्कटः ।
अन्यः पश्यत्य् अहो मौर्ख्यं कस्येयं खलु चक्रिका ॥
भुङ्क्ते प्रकृतिर् आदत्ते मनो देहस्य सङ्कटः ।
द्रष्टात्मा मौर्ख्यम् अस्तीह न किञ्चित् केव मे क्षतिः ॥
न मे भोगस्थितौ वाञ्छा न च भोगविवर्जने ।
यद् आयाति तद् आयातु यत् प्रयाति प्रयातु तत् ॥
सुखेषु मम नापेक्षा नोपेक्षा दुःखवृत्तिषु ।
सुखदुःखान्य् उपायान्तु यान्तु वाप्य् अहम् एषु कः ॥
वासना विविधा देहे त्व् अस्तं वोदयम् एव वा ।
प्रयान्तु नाहम् एतासु न चैता मम काश्चन ॥
एतावन्तम् अहं कालम् अज्ञानरिपुणोरुणा ।
हृत्वा विवेकसर्वस्वम् एकान्तम् अवपोथितः ॥
वैष्णवेन प्रसादेन स्वसमुत्थेन चारुणा ।
इदानीं स्वं परिज्ञाय मयैष परिपोथितः ॥
अहङ्कारपिशाचो ऽयं शरीरतरुकोटरात् ।
परावबोधमन्त्रेण मयेदानीम् अपाकृतः ॥
निरहङ्कारयक्षो ऽयं मच्छरीरमहाद्रुमः ।
पुण्यताम् अलम् आयातः प्रफुल्त इव राजते ॥
प्रशान्तमोहदारिद्र्यो दुराशादोषसङ्क्षये ।
विवेकधनसम्भारात् स्थितो ऽस्मि परमेश्वरः ॥
ज्ञातं ज्ञातव्यम् अखिलं दृष्टा द्रष्टव्यदृष्टयः ।
तत् प्राप्तम् अधुना येन न प्राप्यम् इह शिष्यते ॥
दिष्ट्या दूरोज्झितानर्थाम् अपेतविषयोरगाम् ।
संशान्तमोहनीहारां शान्ताशामृगतृष्णिकाम् ॥
रजोरहितसर्वाशां शीतलोपशमद्रुमाम् ।
प्राप्तो ऽस्मि विततां भूमिम् उन्नतां पारमार्थिकीम् ॥
स्तुत्या प्रणत्या विज्ञप्त्या शमेन नियमेन च ।
लब्धो ऽयं भगवान् आत्मा दृष्टश् चाधिगतस् स्फुटम् ॥
अहङ्कारपदातीतश् चिरात् संस्मृतिम् आगतः ।
स्वभावो भगवान् आत्मा विष्णुर् ब्रह्म सनातनम् ॥
इन्द्रियोरगगर्तेषु मरणश्वभ्रभूमिषु ।
तृष्णाकरञ्जकुञ्जेषु कामकोलाहलेषु च ॥
वासनावनजालेषु जन्मकूपान्तरेषु च ।
दुःखदावाग्निदाहेषु दुष्कृताङ्गारभारिषु ॥
पातोत्पातदशालक्षैर् मज्जनोन्मज्जनभ्रमैः ।
आविर्भावतिरोभावैर् आशापाशविवेष्टनैः ॥
अहं चिरम् अहङ्कारद्विषा समवपोथितः ।
निशायाम् अल्पधैर्यात्मा पिशाचेनेव जङ्गले ॥
स्वयम् एव त्वयेदानीं क्रियाशक्त्या स्वयैव हि ।
शौरिवाग्व्यपदेशेन विवेकश्रीर् विबोधिता ॥
प्रबुद्धे भवतीशाने तम् अहङ्कारराक्षसम् ।
न पश्यामि विभो दीपे ज्वलिते तिमिरं यथा ॥
तस्याहङ्कारयक्षस्य मनोविवरवासिनः ।
दीपस्येव प्रशान्तस्य न वेद्मि गतिम् ईश्वर ॥
दृष्ट एव त्वयीशाने पलायनपरायणः ।
सम्पन्नो मदहम्भावश् चौरस् सूर्योदये यथा ॥
असदभ्युत्थिते तस्मिन्न् अहङ्कारपिशाचके ।
शान्ते तिष्ठाम्य् अतिस्वस्थो निर्गोनास इव द्रुमः ॥
शाम्यामि परिनिर्वामि जागर्म्य् अस्मि प्रबोधवान् ।
तस्करेणावमुक्तो ऽस्मि निर्वृतो ऽस्मि चिराद् अयम् ॥
शैत्यम् अभ्यागतो ऽस्म्य् अन्तश् शान्ताशामृगतृष्णिकः ।
प्रावृडम्बुभरस्नातश् शान्तदाव इवाचलः ॥
प्रमार्जिते ऽहम् इत्य् अस्मिन् पदे सार्थे विचारतः ।
को मोहः कानि दुःखानि काः कदाशाः क आतपः ॥
नरकस्वर्गमोक्षादिभ्रमास् सत्याम् अहङ्कृतौ ।
भित्ताव् एव प्रवर्तन्ते चित्रेहा न नभस्तले ॥
अहङ्कारकलापीने चित्ते सारचमत्कृतिः ।
न राजते ऽंशुके म्लाने यथा कुङ्कुमरञ्जना ॥
निरहङ्कारजलदे तृष्णासारविवर्जिते ।
भाति चित्तशरद्व्योम्नि स्वच्छता कान्तिशालिनी ॥
निरहङ्कारपङ्काय सम्प्रसन्नान्तराय च ।
मह्यम् आनन्दसरसे तुभ्यम् आत्मन् नमो नमः ॥
गताहङ्कारमेघाय शान्ताशादाववह्नये ।
मह्यम् आनन्दशैलाय विश्रान्ताय नमो नमः ॥
शान्तेन्द्रियोग्रग्राहाय क्षीणचित्तौर्ववह्नये ।
आनन्दाम्बुधये तुभ्यं मह्यम् आत्मन् नमो नमः ॥
प्रफुल्तानन्दपद्माय शान्तचिन्तामहोर्मये ।
मह्यम् उन्मानसायात्मंस् तुभ्यम् अन्तर् नमो नमः ॥
संविदाभासपक्षाय पद्मकोटरवासिने ।
सर्वमानसहंसाय स्वात्मने ऽन्तर् नमो नमः ॥
कलाकलितरूपाय निष्कलायामितात्मने ।
सदोदितातिपूर्णात्मशशिने ते नमो नमः ॥
सदोदिताय शीताय महाहृद्ध्वान्तहारिणे ।
सर्वगायाप्य् अदृश्याय चित्सूर्याय नमो नमः ॥
अस्नेहस्नेहदीप्राय वर्त्यतिक्रान्तवर्तिने ।
स्वभावाधारधीराय चिद्दीपाय नमो नमः ॥
मननानलसन्तप्तं शीतेन मनसा मनः ।
छिन्नम् अन्तर् मया तप्तम् अयसेव बलाद् अयः ॥
इन्द्रियैर् इन्द्रियं छित्त्वा छित्त्वा च मनसा मनः ।
अहङ्कृतिम् अहङ्कृत्या छित्त्वा शेषो जयाम्य् अहम् ॥
भावेन भावम् आमृद्य च्छित्त्वा तृष्णाम् अतृष्णया ।
निष्पिष्य प्रज्ञयाप्रज्ञां ज्ञे ऽज्ञस् संयोजितो मया ॥
मनसा मनसि च्छिन्ने निरहङ्कारतां गते ।
भावेन गलिते भावे स्वस्थस् तिष्ठामि केवलः ॥
निर्भावं निरहङ्कारम् अमनस्कम् अनीहितम् ।
केवलस्पन्दशुद्धात्म यन्त्रं तिष्ठति मे वपुः ॥
हेलानुकल्पितानन्तविश्वैकव्यवसायिनी ।
परमोपशमोपेता जातेयं मम निर्वृतिः ॥
प्रशान्तमोहवेतालो गताहङ्कारराक्षसः ।
कदाशारूपिकामुक्तो जातो ऽस्मि विगतज्वरः ॥
तृष्णारज्जुगणं छित्त्वा मच्छरीरकपञ्जरात् ।
न जाने क्व गतोड्डीय दुरहङ्कृतिपक्षिणी ॥
उद्धूलिते घनाज्ञानकुलाये कायपादपात् ।
न जाने गत उड्डीय क्वाहम्भावविहङ्गमः ॥
दुराशादीर्घदौरात्म्या धूसरा भोगभस्मना ।
भयभोगिहता दिष्ट्या वयस्या वासना मृता ॥
एतावन्तम् अहं कालं को ऽभूवं चित्तम् ईदृशम् ।
येनाहम् एव मिथ्यैव दृढाहङ्कारतां गतः ॥
अद्याहम् अस्मि जातो ऽयम् अहम् अद्य महामतिः ।
अहङ्कारमहाभ्रेण यः कृष्णेनालम् उज्झितः ॥
दृष्टो ऽयम् आत्मा भगवान् अन्तश् चाधिगतो मया ।
आलब्धश् चानुभूतो ऽङ्गे सानुभूतिर् नियोजितः ॥
गतास्पदं गतमननं गतैषणं तिरस्कृतं निपुणम् अहङ्कृतिभ्रमे ।
निरीहितं व्यपगतरागरञ्जनं विकौतुकं प्रशमम् इदं गतं मनः ॥
दुरुत्तरास् समविषमा महापदस् सुदुस्सहाः प्रभवनदीर्घदोषदाः ।
गताः क्षयं समधिगतो महेश्वरश् चिदव्ययो व्यपगतचित्तम् अन्तरे ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0