भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.34

5.34.1

वरं गुणनिधे दैत्यकुलचूडामहामणे ।
गृहाणाभिमतं भूयोजन्मदुःखोपशान्तये ॥

5.34.2

सर्वसङ्कल्पफलद सर्वलोकान्तरस्थित ।
यद् उदारतमं वेत्सि तद् एवादिश देव मे ॥

5.34.3

सर्वसम्भ्रमसंशान्त्यै परमाय फलाय च ।
ब्रह्मविश्रान्तिपर्यन्तो विवेको ऽस्तु तवानघ ॥

5.34.4

इत्य् उक्त्वा दितिपुत्रेन्द्रं विष्णुर् अन्तरधीयत ।
कृतघर्घरनिर्ह्रादस् तरङ्गस् तोयधेर् इव ॥

5.34.5

विष्णाव् अन्तर्हिते देवे पूजायाः कुसुमाञ्जलिम् ।
पाश्चात्यं दानवस् त्यक्त्वा मणिरत्नपरिष्कृतम् ॥

5.34.6

पद्मासनस्थो ऽथ मृदाव् उपविश्य वरासने ।
स्तोत्रपाठविधाव् अत्र चिन्तयाम् आस चिन्तया ॥

5.34.7

विचारवान् एव भवान् भवत्व् इति भवारिणा ।
देवेनोक्तो ऽस्मि तेनान्तः करोम्य् आशु विचारणाम् ॥

5.34.8

किम् अहं नाम तावत् स्यां यो ऽस्मिन् भुवनडम्बरे ।
वच्मि गच्छामि तिष्ठामि प्रयते चाहरामि च ॥

5.34.9

जगत् तावद् इदं नाहं सवृक्षवनपर्वतम् ।
यद् बाह्यं जडम् अत्यन्तं तत् स्यां कथम् अहं किल ॥

5.34.10

असन्न् अभ्युत्थितो मूकः पवनैस् स्फुरति क्षणम् ।
कालेनाल्पेन विलयी देहो नाहम् अचेतनः ॥

5.34.11

जडया कर्णशष्कुल्या कल्प्यमानः क्षणस्थया ।
शून्याकृतिश् शून्यभवश् शब्दो नाहम् अचेतनः ॥

5.34.12

त्वचा क्षणविनाशिन्या प्राप्यम् अप्राप्यम् अन्यथा ।
चित्प्रसादोपलब्धात्म स्पर्शनं नास्म्य् अचेतनम् ॥

5.34.13

लब्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया ।
स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहम् अचेतनः ॥

5.34.14

दृश्यदर्शनयोर् लीनं क्षयि क्षणविनाशिनोः ।
केवले द्रष्टरि क्षीणं रूपं नाहम् अचेतनम् ॥

5.34.15

नासयात्यन्तजडया क्षयिण्या परिकल्पितः ।
पेलवो ऽनियताधारो गन्धो नाहम् अचेतनः ॥

5.34.16

निर्ममो ऽमननश् शान्तो गतपञ्चेन्द्रियभ्रमः ।
शुद्धश् चेतन एवाहं कलाकलनवर्जितः ॥

5.34.17

चेत्यवर्जितचिन्मात्रम् अहम् एषो ऽवभासकः ।
सबाह्याभ्यन्तरव्यापी निष्कलामलसन्मयः ॥

5.34.18

आ इदानीं स्मृतं सत्यम् एतत् तद् अखिलं मया ।
निर्विकल्पचिदाभास एष आत्मास्मि सर्वगः ॥

5.34.19

अनेन चेतनेनेमे सर्वे घटपटादयः ।
सूर्यान्ता अवभासन्ते दीपेनोत्तमतेजसा ॥

5.34.20

अनेनैतास् स्फुरन्तीह विचित्रेन्द्रियवृत्तयः ।
तेजसान्तः प्रकाशेन यथाग्निकणपङ्क्तयः ॥

5.34.21

अनेनैतास् स्फुरन्त्य् अन्तर् मनोमननशक्तयः ।
सर्वगेन निदाघेन यथा मरुमरीचयः ॥

5.34.22

अनेनैतत् पदार्थानां वस्तुत्वं प्रतिपाद्यते ।
शुक्लादिगुणवत्त्वं स्वं प्रदीपेनेव वाससाम् ॥

5.34.23

असाव् एव हि भूतानां सर्वेषाम् एव जाग्रताम् ।
सर्वानुभविता भूमाव् आत्मा मकुरवत् स्थितः ॥

5.34.24

अस्य तस्याविकल्पस्य चिद्दीपस्य प्रसादतः ।
उष्णो ऽर्कश् शिशिरश् चन्द्रो घनो ऽद्रिर् विद्रुतं पयः ॥

5.34.25

सातत्येनानुभूतानां पदार्थानाम् अनेन तत् ।
पदार्थत्वम् उदेत्य् उच्चैः प्रतापेनेव तप्तता ॥

5.34.26

ब्रह्मविष्ण्विन्द्ररुद्राणां कारणानां जगत्स्थितौ ।
एतत् कारणम् आद्यं तत् कारणं नास्य विद्यते ॥

5.34.27

अकारणाद् अकरणात् सर्वकारणकारणात् ।
एतस्माज् जगद् उत्पन्नम् इदं शैत्यं हिमाद् इव ॥

5.34.28

चिच्चेत्यद्रष्टृदृश्यादिनामभिर् वर्जितात्मने ।
सते सकृद्विभाताय मह्यम् अस्मै नमो नमः ॥

5.34.29

एतस्मिन् सर्वभूतानि निर्विकल्पचिदात्मनि ।
गुणभूतानि भूतेशे तिष्ठन्ति च विशन्ति च ॥

5.34.30

यत् किलानेन कलितं चेतनेनान्तर् आत्मना ।
तत् तद् भवति सर्वत्र नेतरत् सद् अपि स्थितम् ॥

5.34.31

यच् चिता कलितं किञ्चित् तद् आप्नोति निजं पदम् ।
यच् चिता कलितं नेह तत् सद् अप्य् अस्तम् आगतम् ॥

5.34.32

इमा घटपटाकारपदार्थशतपङ्क्तयः ।
जागत्यो विपुलादर्शे ह्य् अस्मिन् व्योमनि बिम्बिताः ॥

5.34.33

अदृश्यं सर्वभूतानां प्राप्यं गलितचेतसाम् ।
एतत् तद् दृश्यते सद्भिः परं व्योमेति तन्मयैः ॥

5.34.34

एतद् वृद्धं वृद्धिमति क्षयि क्षयिणि जागते ।
पदार्थे सद् असच् चापि प्रतिबिम्बार्कवत् स्थितम् ॥

5.34.35

इयम् अभ्युदयं याति नानाता दृश्यमञ्जरी ।
आचारचञ्चरीकाढ्या एतस्माद् कारणद्रुमाद् ॥

5.34.36

अस्माद् इयम् उदेत्य् उच्चैस् संसाररचना चला ।
विचित्रतरुगुल्माढ्या शैलाद् इव वनावली ॥

5.34.37

सर्वेषाम् अविभिन्नो ऽसौ त्रैलोक्योदरवर्तिनाम् ।
ब्रह्मादीनां तृणान्तानां चिदात्मा सम्प्रकाशकः ॥

5.34.38

एषो ऽसाव् अहम् आद्यन्तरहितस् सर्वगाकृतिः ।
चराचराणाम् भूतानाम् अन्तस् स्वानुभवस् स्थितः ॥

5.34.39

अस्य तस्य ममेमानि स्थावराणि चराणि च ।
परिसङ्ख्याविहीनानि शरीराणि बहूनि च ॥

5.34.40

एषो ऽसाव् अहम् एकात्मा स्वानुभूतिवशात् स्वयम् ।
सर्वदृग्द्रष्टृदृश्यत्वात् सहस्रकरलोचनः ॥

5.34.41

एषो ऽसाव् अहम् आकाशे सूर्यदेहेन चारुणा ।
विहरामीतरेणापि वायुदेहेन वाहिना ॥

5.34.42

ममैतद् वपुर् आनीलं शङ्खचक्रगदाधरम् ।
सर्वसौभाग्यसीमान्तो ह्य् अस्मिञ् जगति वल्गति ॥

5.34.43

अहम् अस्मिन् समुद्भूतः पद्मासनगतस् सदा ।
निर्विकल्पसमाधिस्थः परां निर्वृतिम् आगतः ॥

5.34.44

अहं त्रिनेत्रयाकृत्या गौरीवक्त्राब्जषट्पदः ।
सर्गान्ते संहरामीदं कूर्मो ऽङ्गपटलं यथा ॥

5.34.45

अहम् ऐन्द्रेण रूपेण त्रिलोकीमठिकाम् इमाम् ।
पालयामि क्रमप्राप्तां मठिकाम् इव तापसः ॥

5.34.46

अहं तृणलतागुल्मजालं रसतया स्थितः ।
उत्थापयामि चिद्भूमेः कूपाद् उरुलताम् इव ॥

5.34.47

स्वलीलार्थम् इदं चारु जगदाडम्बरं ततम् ।
मयाभिजातबालेन पङ्कक्रीडनकं यथा ॥

5.34.48

मयीदम् अर्प्यते सर्वं सत्तां मां प्राप्य गच्छति ।
मत्परित्यक्तम् एतच् च सद् अप्य् एव न किञ्चन ॥

5.34.49

मयि स्फारे चिदादर्शे प्रतिबिम्बं यद् आगतम् ।
तद् अस्ति नेतरत् तस्मान् मत्तो ऽन्यन् नेह विद्यते ॥

5.34.50

कुसुमेष्व् अहम् आमोदः पद्मपत्त्रेष्व् अहं छविः ।
छविष्व् अहं रूपकला रूपेष्व् अनुभवो ऽप्य् अहम् ॥

5.34.51

यद् यत् किञ्चिद् इदं दृश्यं जगत् स्थावरजङ्गमम् ।
सर्वसङ्कल्परहितं तच् चित्तत्त्वम् अहं परम् ॥

5.34.52

आप्या रसमयी शक्तिर् अण्वोघविवृतोदया ।
सा यथा दारुकुड्येषु तथाहं सर्ववस्तुषु ॥

5.34.53

परमां ताम् अहं सर्वपदार्थान्तरवर्तिताम् ।
उपेत्य संविद्वैचित्र्यं प्रतनोमि स्वयेच्छया ॥

5.34.54

घृतं यथान्तः पयसि रसशक्तिर् यथा जले ।
चिच्छक्तिस् सर्वभावेषु तथान्तर् अहम् आस्थितः ॥

5.34.55

इदं जगत् त्रिकालस्थं चिति मय्य् एव संस्थितम् ।
चेत्योपचाररहितं वस्तुजातम् इवावनौ ॥

5.34.56

भरिताशेषदिक्कुक्षिस् त्यक्तसङ्कोचविभ्रमः ।
सर्वस्थस् सर्वधर्ता च विराट् सम्राड् अहं स्थितः ॥

5.34.57

अपूर्वम् अनिबद्धेन्द्रम् अशस्त्रदलितामरम् ।
अप्रार्थितं मे सम्प्राप्तं जगद्राज्यम् इदं ततम् ॥

5.34.58

अहो नु विततात्मास्मि न माम्य् आत्मात्मनात्मनि ।
कल्पान्तपवनोच्छून एकार्णव इवार्णवे ॥

5.34.59

नात्मन्य् अन्तम् अवाप्नोमि स्वच्छे ऽन्तस् स्वोदिते स्वयम् ।
क्षीरवारिनिधौ पङ्गुस् सरीसृप इव स्फुरन् ॥

5.34.60

स्वल्पेयं मठिका ब्राह्मी जगन्नाम्नी सुसङ्कटा ।
गजो बिल्व इवास्यां मे न माति विपुलं वपुः ॥

5.34.61

विरिञ्चसदनात् पारे तत्त्वान्ते ऽप्य् आहरत् पदम् ।
प्रसरत्य् एव मे रूपम् अद्यापि न निवर्तते ॥

5.34.62

अयं नामाहम् इत्य् अन्तः कुतो निरवलम्बना ।
अपर्यन्ताकृतेर् एषा किलासीत् स्वल्पता मम ॥

5.34.63

भवान् अयम् अहं चायम् इति मिथ्यैव विभ्रमः ।
को देहः को ऽप्य् अदेहो वाप्य् अपारवपुषश् चितः ॥

5.34.64

वराकाः पेलवधियो बभूवुर् मे पितामहाः ।
ये साम्राज्यम् इदं त्यक्त्वा रेमिरे ऽर्थविभूतिषु ॥

5.34.65

क्वेयं किल महादृष्टिर् भरिता ब्रह्मबृंहिता ।
क्व सरीसृपभीमाभी रती राज्यविभूतिभिः ॥

5.34.66

अनन्तानन्तसम्भोगा परोपशमशालिनी ।
शुद्धेयं चिन्मयी दृष्टिर् जयत्य् अखिलदृष्टिषु ॥

5.34.67

सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने ।
प्रत्यक्चेतनरूपाय मह्यम् एव नमो नमः ॥

5.34.68

जयाम्य् अहम् अहं जातो जीर्णसंसारसंसृतिः ।
प्राप्तः प्राप्तो मयात्मायं जीवामि च जयामि च ॥

5.34.69

इदम् उत्तमसाम्राज्यं बोधं सन्त्यज्य शाश्वतम् ।
न रमे ऽहम् अरम्यासु राज्यदुःखविभूतिषु ॥

5.34.70

दारुवारिदृषन्मात्रे लुलुभे यो धरातले ।
धिग् वराकम् अनात्मज्ञं तं पितामहकीटकम् ॥

5.34.71

अविद्यैकात्मभिर् द्रव्यैर् अविद्यामयम् आज्यपम् ।
अज्ञेन सन्तर्पयता किं नाम गुरुणा कृतम् ॥

5.34.72

वर्षाणि कतिचित् प्राप्य जगद्ग्रामटिकाम् इमाम् ।
किं नाम प्रापद् उचितं हिरण्यकशिपुः किल ॥

5.34.73

अनास्वाद्य शमानन्दं जगद्राज्यशतान्य् अपि ।
समास्वादयता नेह किञ्चिद् आस्वादितं भवेत् ॥

5.34.74

न किञ्चिद् येन सम्प्राप्तं तेनेदं परमामृतम् ।
सम्प्राप्यान्तः प्रपूर्णेन सर्वं प्राप्तम् अखण्डितम् ॥

5.34.75

त्यक्तामितपदो मूर्खो मितम् एति न पण्डितः ।
उष्ट्रो हि त्यक्तसुलतः कण्टकं याति नेतरः ॥

5.34.76

परां दृष्टिम् इमां त्यक्त्वा दग्धराज्ये रमेत कः ।
कस् त्यक्तेक्षुरसः प्राज्ञः कटुनिम्बपयः पिबेत् ॥

5.34.77

मूर्खा एव हि ते सर्वे बभूवुर् मे पितामहाः ।
इमां दृष्टिं परित्यज्य ये रता राज्यसङ्कटे ॥

5.34.78

क्व फुल्ला नन्दनस्थल्यः क्व दग्धा मरुभूमयः ।
क्वेमा बोधदृशश् शान्ताः क्व भोगेष्व् आत्मबुद्धयः ॥

5.34.79

न किञ्चिद् अस्ति त्रैलोक्ये यद् राज्यम् अभिवाञ्छ्यते ।
सर्वं चास्त्य् एव चित्तत्त्वे तत् कस्मान् नानुभूयते ॥

5.34.80

चिता सर्वस्थया स्वच्छसमया निर्विकारया ।
सर्वथा सर्वदा सर्वं सर्वतस् साधु लभ्यते ॥

5.34.81

भानवी तैजसी शक्तिर् अमृतस्रुतिर् ऐन्दवी ।
ब्राह्मी महत्ता महती शाक्री त्रैलोक्यराजता ॥

5.34.82

परमा पूर्णता शार्वी जयलक्ष्मीश् च वैष्णवी ।
मानसी शीघ्रगमिता बलवत्ता तु वायवी ॥

5.34.83

आग्नेयी दाहकलना पायसी रसनिर्वृतिः ।
मौनी महातपस्सिद्धिर् विद्या बार्हस्पती तथा ॥

5.34.84

वैमानिकी व्योमगता स्थिरतापि च पार्वती ।
गम्भीरताथ सामुद्री मैरवी च महोन्नतिः ॥

5.34.85

समश्रीस् सौगती सोम्या मादनी मदलोलता ।
माधवी पुष्पमयता शारदी घनसस्यता ॥

5.34.86

याक्षी च मायामयता नाभसी निष्कलङ्कता ।
शीततापि च तौषारी नैदाघी तापतप्तता ॥

5.34.87

एताश् चान्यास् तथा बह्व्यो देशकालक्रियात्मिकाः ।
नानाकारविकारोत्थास् त्रिकालोदरसंस्थिताः ॥

5.34.88

विचित्राश् शक्तयस् स्वच्छसमया निर्विकारया ।
चिता क्रियन्ते परया कलाकलनमुक्तया ॥

5.34.89

विकल्पहीना चित् सर्वपदार्थशतदृष्टिषु ।
समम् एवाभिपतति प्रभा प्राभाकरी यथा ॥

5.34.90

सर्वाशाकोशविश्रान्तां पदार्थपटलीं मही ।
कालत्रयेहाकलितां यथानुभवति क्षणात् ॥

5.34.91

तथा समस्तसंसारबृहद्दृश्यदशाश्रियम् ।
कालत्रयस्थाम् अमला चिच् चिनोति ततात्मिका ॥

5.34.92

तुल्यकालपरामृष्टत्रिकालकलनाशता ।
अनन्तानुभवाभोगा परिपूर्णैव शुद्धचित् ॥

5.34.93

परामृष्टत्रिकालाया दृष्टानन्तदृशश् चितः ।
समतापरपर्याया पूर्णतैवावशिष्यते ॥

5.34.94

तुल्यकालावबुद्धेन मृदुना कटुना च चित् ।
समेन समताम् एति मधुनिष्ठानुभूतिवत् ॥

5.34.95

त्यक्तसङ्कल्पकलया सूक्ष्मया चिदवस्थया ।
सर्वभावानुगतया सत्ताद्वैतैकरूपया ॥

5.34.96

विचित्रापि पदार्थश्रीर् अन्योऽन्यवलितान्तरा ।
तुल्यकालानुभवनात् साम्येनैवानुभूयते ॥

5.34.97

भावेन भावम् आश्रित्य भावस् त्यजति दुःखिताम् ।
प्रेक्ष्य भावम् अभावेन भावस् त्यजति तुष्टताम् ॥

5.34.98

कालत्रयम् उपेक्षित्र्या हीनायाश् चेत्यबन्धनैः ।
चितश् चेत्यम् उपेक्षित्र्यास् समतैवावशिष्यते ॥

5.34.99

याति वाचाम् अगम्यत्वाद् असत्ताम् इव शाश्वतीम् ।
नैरात्म्यसिद्धान्तदशाम् उपयातेव तिष्ठति ॥

5.34.100

भवत्य् आत्मा तथा ब्रह्म नकिञ्चिच् चाखिलं च वा ।
परमोपशमे लीना मोक्षनाम्ना परोच्यते ॥

5.34.101

सङ्कल्पकलिता त्व् एषा मन्दाभासतया जगत् ।
न सम्यक् पश्यतीदं चिद् दृष्टिः पटलिनी यथा ॥

5.34.102

ईहानीहामयैर् अन्तर् या चिद् आवलिता मलैः ।
सा हि नोत्पतितुं शक्ता पाशबद्धेव पक्षिणी ॥

5.34.103

सङ्कल्पकलनेनैव ये केचन जना इमे ।
पतिता मोहजालेषु विनेत्रा इव पक्षिणः ॥

5.34.104

सङ्कल्पजालवलितैर् विषयावटपातिभिः ।
पदवी गतबाधेयं न दृष्टा मत्पितामहैः ॥

5.34.105

दिनैः कतिपयैर् एव स्फुरित्वा धरणीतले ।
वराकास् तेन ते नष्टा मषकाः कुहरेष्व् इव ॥

5.34.106

अज्ञास्यन् यदि ते तत्त्वं भोगदुःखार्थिनस् ततः ।
भावाभावान्धकूपेषु नापतिष्यन् हताशयाः ॥

5.34.107

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः ।
धराविवरमग्नानां कीटानां समतां गताः ॥

5.34.108

ईहितानीहिताकारा कलनामृगतृष्णिका ।
सत्यावबोधमेघेन यस्य शान्ता स जीवति ॥

5.34.109

कुतः किलास्याश् शुद्धाया अविच्छिन्नामलाकृतेः ।
चन्द्रिकाया रुचः कोष्णाः कलङ्ककलनाश् चितः ॥

5.34.110

आत्मने ऽस्तु नमो मह्यम् अविच्छिन्नचिदात्मने ।
लोकालोकमणे देव चिरेणाधिगतो ऽस्य् अहो ॥

5.34.111

परामृष्टो ऽसि लब्धो ऽसि प्रोदितो ऽसि चिराय च ।
उद्धृतो ऽसि विकल्पेभ्यो यो ऽसि सो ऽसि नमो ऽस्तु ते ॥

5.34.112

मह्यं तुभ्यम् अनन्ताय तुभ्यं मह्यं शिवात्मने ।
नमो देवातिदेवाय पराय परमात्मने ॥

5.34.113

गतघनम् इव पूर्णम् इन्दुबिम्बं गतकलनावरणं स्वम् एव रूपम् ।
स्ववपुषि मुदितं स्वयं स्वसंस्थं स्वयम् उदितं स्वरसं स्वयं नमामि ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc