मोक्षोपाय · अध्याय 5.33
गर्जन्तम् अतिसंरब्धं सुरलोकम् अथारिहा ।
उवाच माधवो वाक्यं शिखिवृन्दम् इवाम्बुदः ॥
विबुधा मा विषण्णास् स्थ प्रह्लादो भक्तिमान् इति ।
पाश्चात्यं जन्म तस्येदं मोक्षार्हो ऽसाव् अरिन्दमः ॥
इत उत्तरम् एतेन गर्भता दनुसूनुना ।
न कर्तव्या प्रदग्धेन बीजेनेवाङ्कुरक्रिया ॥
गुणवान् निर्गुणो जात इत्य् अनर्थक्रमं विदुः ।
निर्गुणो गुणवाञ् जात इत्य् आहुस् सिद्धिदं क्रमम् ॥
आत्मीयानि विचित्राणि भुवनान्य् अमरोत्तमाः ।
प्रयात नासुखायैषा प्राह्लादी गुणितेह वः ॥
इत्य् उक्त्वा विबुधांस् तत्र क्षीरोदार्णववीचिषु ।
अन्तर्धानं ययौ देवस् तटतापिञ्छगुच्छवत् ॥
सो ऽपि सम्पूजितहरिस् सुरौघो ऽव्रजद् अम्बरम् ।
पुनर् मन्दरनिर्धूतात् कणजालम् इवार्णवात् ॥
प्रह्लादं प्रति गीर्वाणास् ततस् स्निग्धत्वम् आययुः ।
महान्तो यत्र नोद्विग्नास् तत्र विश्वासवन् मनः ॥
प्रत्यहं पूजयाम् आस देवदेवं जनार्दनम् ।
मनसा कर्मणा वाचा प्रह्लादो भक्तिमान् इति ॥
अथ पूजापरस्यास्य समवर्धन्त कालतः ।
विवेकानन्दवैराग्यविभवप्रमुखा गुणाः ॥
नाभ्यनन्दद् असौ भोगपूगं शुष्कम् इव द्रुमम् ।
न चारमत कान्तासु मृगो मरुमहीष्व् इव ॥
न रेमे लोकचर्चासु शास्त्रार्थकथनाद् ऋते ।
नाजायत रतिस् तस्य दृश्ये स्थल इवाब्जिनी ॥
न विशश्राम चेतो ऽस्य भोगरोगानुरञ्जने ।
मुक्ताफलम् असंश्लिष्टं मुक्ताफल इवातले ॥
त्यक्तभोगाभिकलनं विश्रान्तिम् अथ नागतम् ।
चेतः केवलम् अस्यासीद् दोलायाम् इव योजितम् ॥
प्राह्लादीं तां स्थितिं कृष्णदेहः क्षीरोदकोटरात् ।
विवेद सर्वगतया तया परमकान्तया ॥
अथ पातालमार्गेण विष्णुर् आह्लादिताग्रगः ।
पूजादेवगृहं तस्य प्रह्लादस्य समाययौ ॥
विज्ञायाभ्यागतं देवं पूजया द्विगुणेद्धया ।
दैत्येन्द्रः पुण्डरीकाक्षम् आदरात् पर्यपूजयत् ॥
पूजागृहगतं देवं प्रत्यक्षावस्थितं हरिम् ।
प्रह्लादः परमप्रीतो गिरा तुष्टाव पुष्टया ॥
त्रिभुवनभवनाभिरामकोशं सकलकलङ्कहरं परं प्रकाशम् ।
अशरणशरणं शरण्यम् ईशं हरिम् अजम् ईश्वरम् अच्युतं प्रपद्ये ॥
कुवलयदलशैलसन्निकाशं शरदमलाम्बरकोटरोपमानम् ।
भ्रमरतिमिरकज्जलाञ्जनाभं सरसिजचक्रगदाधरं प्रपद्ये ॥
विचलदलिकलापकोमलाङ्गं सितदलपङ्कजकुट्मलाभशङ्खम् ।
श्रुतिरणितविरिञ्चचञ्चरीकं स्वहृदयपद्मजलाशयं प्रपद्ये ॥
सितमणिगणतारकावकीर्णं स्मितधवलाननपीवरेन्दुबिम्बम् ।
हृदयमणिमरीचिजालगङ्गं हरिशरदम्बरम् आततं प्रपद्ये ॥
त्रिभुवननलिनीसितारविन्दं तिमिरसमानविमोहदीपम् अग्र्यम् ।
जडतरम् अजडं चिदात्मतत्त्वं जगदखिलार्तिहरं हरिं प्रपद्ये ॥
नवविकसितपद्मरेणुगौरं स्फुटकमलावपुषोपरूषिताङ्गम् ।
दिनगमसमयारुणाम्बराभं कनकनिभाम्बरसुन्दरं प्रपद्ये ॥
अविरतहतसृष्टसर्गलीलं सततम् अजातम् अवर्धनं विशालम् ।
युगशतजरढाभिजातदेहं तरुतलशायिनम् अर्भकं प्रपद्ये ॥
दितिसुतनलिनीतुषारपातं सुरनलिनीसततोदितार्कबिम्बम् ।
कमलजनलिनीजलावपूरं हृदि नलिनीनिलयं विभुं प्रपद्ये ॥
इति गुणबहुलाभिर् वाग्भिर् अभ्यर्चितो ऽसौ हरिर् असुरविनाशश् श्रीनिषण्णांसदेशः ।
जलद इव मयूरं प्रीतिमान् प्रीयमाणं कुवलयदलदेहः प्रत्युवाचासुरेन्द्रम् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0