भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.29

5.29.1

अथ वर्षसहस्रेण दिव्येनासुरसत्तमः ।
देवदुन्दुभिनिर्घोषैर् बुबुधे भगवान् बडिः ॥

5.29.2

बडौ प्रबुद्धे तद् बाढं विरेजे नगरं तदा ।
वैरिञ्च इव सूर्यौघ उदिते कमलाकरः ॥

5.29.3

बडिः प्रबुद्ध एवासौ यावन् नायान्ति दानवाः ।
तावत् सञ्चिन्तयाम् आस समाधिसदने क्षणम् ॥

5.29.4

अहो नु रम्या पदवी शीतला पारमार्थिकी ।
अहम् अस्यां क्षणं स्थित्वा परां विश्रान्तिम् आगतः ॥

5.29.5

तद् एनाम् एव पदवीम् अवलम्ब्य वसाम्य् अहम् ।
भवतीहोपभुक्ताभिः किं मे बाह्यविभूतिभिः ॥

5.29.6

ऐन्दवेष्व् अपि बिम्बेषु न तथानन्दवीचयः ।
तोषयन्ति यथान्तर् मां संविद्विभवभूमयः ॥

5.29.7

इति भूयो ऽपि विश्रान्त्यै कुर्वाणं गलितं मनः ।
बडिम् आवारयाम् आसुर् दैत्याश् चन्द्रम् इवाम्बुदाः ॥

5.29.8

तान् आलोक्य पुनर् दध्यौ तत्प्रणामाकुलेक्षणः ।
तैः कुलाचलसङ्काशैः परिवीतवपुस् त्व् इदम् ॥

5.29.9

चितः क्षीणविकल्पस्य किम् उपादेयम् अस्ति मे ।
मनो यदभिपातित्वाद् यातु तद्रसताम् अलम् ॥

5.29.10

मोक्षम् इच्छाम्य् अहं कस्माद् बद्धः केनास्मि वै पुरा ।
अबद्धो मोक्षम् इच्छामि केयं बालविडम्बना ॥

5.29.11

न बन्धो ऽस्ति न मोक्षो ऽस्ति मौर्ख्यं मे क्षयम् आगतम् ।
किं मे ध्यानविलासेन किं वाध्यानेन मे भवेत् ॥

5.29.12

न ध्यानं नापि चाध्यानं न भोगान् नाप्य् अभोगिताम् ।
अभिवाञ्छामि तिष्ठामि समम् एव गतज्वरः ॥

5.29.13

न मे वाञ्छा परे तत्त्वे न मे वाञ्छा जगत्स्थितौ ।
न मे ध्यानदृशा कार्यं न कार्यं विभवेन मे ॥

5.29.14

नाहं मृतो न जीवामि न सन् नासन्न् अहं समः ।
नेदं मे नैव नान्यन् मे नमो मह्यम् अहं ह्य् अहम् ॥

5.29.15

इदम् अस्तु जगद्राज्यं तिष्ठाम्य् अत्र स्वसंस्थितः ।
नैव वास्तु जगद्राज्यं तिष्ठाम्य् आत्मनि शीतलम् ॥

5.29.16

किं मे ध्यानदृशा कार्यं किं राज्यविभवश्रिया ।
यद् आयाति तद् आयातु नाहं किञ्चिन् न मे क्वचित् ॥

5.29.17

न किञ्चिद् अपि कर्तव्यं यदि नाम मयाधुना ।
तत् कस्मान् न करोमीह किञ्चित् प्रकृतकर्म वै ॥

5.29.18

इति निर्णीय पूर्णात्मा बडिर् बलवतां वरः ।
दैत्यान् आलोकयाम् आस पद्मानीव दिवाकरः ॥

5.29.19

दृष्टिपातविभागेन सर्वेषां दनुजन्मनाम् ।
शिरःप्रणामाञ् जग्राह पुष्पामोदान् इवानिलः ॥

5.29.20

अथ वैरोचनिस् तत्र ध्येयत्यागमयात्मना ।
मनसा सकलान्य् एव राजकार्याणि स व्यधात् ॥

5.29.21

देवान् द्विजान् गुरूंश् चैव पूजयाम् आस पूजया ।
सम्मानयाम् आस सुहृद्बन्धुसामन्तसज्जनान् ॥

5.29.22

अर्थेनापूरयाम् आस भृत्यान् अर्थिगणांस् तथा ।
ललना लालयाम् आस विचित्रविभवार्पणैः ॥

5.29.23

इत्य् असाव् अवसत् तस्मिन् राज्ये सकलशासने ।
यज्ञं प्रति बभूवाथ मतिर् अस्य कदाचन ॥

5.29.24

तर्पिताशेषभुवनं देवर्षिगणपूजितम् ।
सह शुक्रादिभिर् मुख्यैस् स चकार महामखम् ॥

5.29.25

बडिर् भोगभरस्यार्थी नेति निर्णीय माधवः ।
बडेर् ईप्सितसिद्ध्यर्थं सिद्धिदस् तन्मखं ययौ ॥

5.29.26

भोगैककृपणायेदं जगज्जङ्गलखण्डकम् ।
दातुं योग्याय शक्राय वयोज्येष्ठाय कार्यवित् ॥

5.29.27

क्रममात्रच्छलेनात्र वञ्चयित्वा बडिं हरिः ।
बबन्ध पातालतले भूगेह इव वानरम् ॥

5.29.28

अद्यासौ संस्थितो राम पुनरिन्द्रत्वहेतुना ।
जीवन्मुक्तवपुस् स्वस्थो नित्यं ध्याननिषण्णधीः ॥

5.29.29

पातालकुहरे तिष्ठञ् जीवन्मुक्तमतिर् बडिः ।
आपदं सम्पदं दृष्ट्या समयैव स पश्यति ॥

5.29.30

नास्तम् एति न चोदेति तत्प्रज्ञा सुखदुःखयोः ।
समा स्थिरतराकारा चित्रसूर्यावली यथा ॥

5.29.31

आविर्भावतिरोभावसहस्राणीह जीवताम् ।
तन्मनश् चिरम् आलोक्य भोगेषु विरतिं गतम् ॥

5.29.32

दशकोटीश् च वर्षाणाम् अनुशास्य जगत्त्रयम् ।
अन्ते विरक्ततां प्राप्तम् उपशान्तं बडेर् मनः ॥

5.29.33

ऊहापोहसहस्राणि भावाभावशतानि च ।
बडिना परिदृष्टानि क्व समाश्वासम् एत्व् असौ ॥

5.29.34

भोगाभिलाषं सन्त्यज्य बडिस् सम्पूर्णमानसः ।
आत्मारामस् स्थितो नित्यम् अद्य पातालकोटरे ॥

5.29.35

पुनर् एतेन बडिना जगद् इन्द्रतयाखिलम् ।
अनुशास्यम् इदं राम बहून् वर्षगणान् इह ॥

5.29.36

न तस्येन्द्रपदप्राप्त्या तुष्टिस् समुपजायते ।
न तस्य स्वपदभ्रंशाद् उद्वेग उपजायते ॥

5.29.37

स समस् सर्वभावेषु सर्वदैवोदिताशयः ।
सम्प्राप्तम् आहरन् स्वस्थ आकाश इव तिष्ठति ॥

5.29.38

बडिविज्ञानसम्प्राप्तिर् एषा ते कथिता मया ।
एतां दृष्टिम् अवष्टभ्य त्वम् अप्य् अभ्युदितो भव ॥

5.29.39

बडिवत् स्वविवेकेन नित्यो ऽहम् इति निश्चयात् ।
पदम् आसादयाद्वन्द्वं पौरुषेणैव राघव ॥

5.29.40

द्वे चाष्टौ चैव वर्षाणां कोटीर् भुक्त्वा जगत्त्रयम् ।
अन्ते वैरस्यम् आपन्नो बडिर् अप्य् असुरोत्तमः ॥

5.29.41

तस्माद् अवश्यवैरस्यं भोगपूगम् अरिन्दम ।
सन्त्यज्य सततानन्दम् अवैरस्यपदं व्रज ॥

5.29.42

इमा दृश्यदृशो राम नानाकारविकारदाः ।
न काश्चन तवात्मीया दूराच् छैलशिला इव ॥

5.29.43

धावमानम् इहामुत्र लुठितं लोकवृत्तिषु ।
संस्थापय निबध्यैतन् मनो हृदयकोटरे ॥

5.29.44

चिदादित्यो भवान् एव सर्वत्र जगति स्थितः ।
कः परस् ते क आत्मीयः परिस्खलसि किं मुधा ॥

5.29.45

त्वम् अनन्तो महाबाहुस् त्वम् आद्यः पुरुषोत्तमः ।
त्वं पदार्थशताकारैः परिस्फूर्जसि चिद्वपुः ॥

5.29.46

त्वयि सर्वम् इदं प्रोतं जगत् स्थावरजङ्गमम् ।
बोधे नित्योदिते शुद्धे सूत्रे मणिगणो यथा ॥

5.29.47

न जायसे न म्रियसे त्वम् अजः पुरुषो विराट् ।
चिच् छुद्धो जन्ममरणभ्रान्तयो मा भवन्तु ते ॥

5.29.48

समस्तजन्मरोगाणां प्रविचार्य बलाबलम् ।
तृष्णाम् उत्सृज्य भोगानां भोक्तैव भव केवलम् ॥

5.29.49

त्वयि स्थिते जगन्नाथे चिदादित्ये सदोदिते ।
इदम् आभासते सर्वं संसारस्वप्नमण्डलम् ॥

5.29.50

मा विषादं कृथा व्यर्थं सुखदुःखैषणा न ते ।
शुद्धश् चिद् असि सर्वात्मा सर्ववस्त्ववभासकः ॥

5.29.51

पूर्वम् इष्टम् अनिष्टं त्वम् अनिष्टं चेष्टम् इत्य् अपि ।
परिकल्प्य तदभ्यासात् ततो ऽपि द्वे परित्यज ॥

5.29.52

इष्टानिष्टदृशोस् त्यागे समतोदेति शाश्वती ।
तया हृदयवर्तिन्या पुनर् जन्तुर् न जायते ॥

5.29.53

येषु येषु प्रदेशेषु मनो मज्जति बालवत् ।
तेभ्यस् तेभ्यस् समुद्धृत्य तद् धि तत्त्वे निवेशयेत् ॥

5.29.54

एवम् अभ्यागताभ्यासं मनोमत्तमतङ्गजम् ।
निबध्य सर्वभावेन परं श्रेयो ऽधिगम्यते ॥

5.29.55

मा शठैर् अयथार्थज्ञैर् मिथ्यादृष्टिहताशयैः ।
धूर्तसङ्कल्पविक्रीतैर् विमूढैस् समतां गमः ॥

5.29.56

अकिञ्चनात् स्वनिर्णीतौ लम्बमानात् परोक्तिषु ।
न मौर्ख्याद् अधिको लोके कश्चिद् अस्तीह दुःखदः ॥

5.29.57

त्वम् एतद् अविवेकाभ्रम् उदितं हृदयाम्बरे ।
विवेकपवनेनाशु दूरं नय महामते ॥

5.29.58

आत्मनैव प्रयत्नेन यावद् आत्मावलोकने ।
न कृतो ऽनुग्रहस् तावन् न विचारोदयो भवेत् ॥

5.29.59

वेदवेदान्तशास्त्रार्थतर्कदृष्टिभिर् अप्य् अयम् ।
नात्मा प्रकटताम् एति यावन् न स्वम् अवेक्षणम् ॥

5.29.60

त्वम् आत्मन्य् आत्मना राम प्रसादे समवस्थितः ।
प्राप्तो ऽसि विततं बोधं मद्वचांस्य् अवबुध्यसे ॥

5.29.61

विकल्पांशविहीनस्य त्वयैषा चिद्विवस्वतः ।
गृहीता वितता व्याप्तिर् मदुक्ता परमात्मनः ॥

5.29.62

विलीनसर्वसङ्कल्पश् शान्तसन्देहविभ्रमः ।
क्षीणकौतुकनीहारो जातो ऽसि विगतज्वरः ॥

5.29.63

यद् उपगच्छसि पासि निहंसि वा पिबसि वल्गसि चिन्मय वर्धसे ।
तद् असि तेन तवास्तु महामुने विगतबोधकलङ्कविशङ्किता ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc