मोक्षोपाय · अध्याय 5.30
अथेमम् अपरं राम विज्ञानाधिगमे क्रमम् ।
शृणु दैत्येश्वरस् सिद्धः प्रह्लादस् स्वात्मना यथा ॥
आसीत् पातालजठरे विद्रावितसुरो ऽसुरः ।
हिरण्यकशिपुर् नाम नारायणपराक्रमः ॥
आक्रान्तभुवनाभोगस् स जहार हरेर् जगत् ।
षट्पदस्य बृहत्पत्त्रं राजहंस इवाम्बुजम् ॥
चकार जगतां राज्यं समाक्रान्तसुरासुरः ।
दन्ती निरस्तहंसौघो नलिन्याम् अलिनाम् इव ॥
अथासाव् असुराधीशः कुर्वंस् त्रिभुवनेशताम् ।
कालेन सुषुवे पुत्रान् अङ्कुरान् इव माधवः ॥
ते ऽवर्धन्ताचिरेणैव तेजस्तर्जिततारकाः ।
दशार्कांशुशतानीव व्योमाक्रान्तिविलासिनः ॥
प्रह्लादो नाम भगवान् प्रधानात्मा बभूव ह ।
तेषां मध्ये महार्हाणां मणीनाम् इव कौस्तुभः ॥
तेनाराजत पुत्रेण हिरण्यकशिपुर् भृशम् ।
सर्वसौन्दर्ययुक्तेन वसन्तेनेव वत्सरः ॥
अथ पुत्रसहायो ऽसौ बलकोशसमन्वितः ।
आजगाम मदं दैत्यस् त्रिगण्डगलितेभवत् ॥
ततापाक्रान्तितापेन त्रिजगन्ति विकासिना ।
कल्पान्तसूर्यगणवन् नवयैव करश्रिया ॥
अखिद्यन्तास्य तेनाथ सूर्येन्दुप्रमुखास् सुराः ।
दुर्विलासविलोलस्य बालस्येव स्वबन्धवः ॥
ते ऽर्थयां चक्रिरे शौरिं दैत्येन्द्रेभपतेर् वधे ।
न क्षमन्ते महान्तो ऽपि पौनःपुण्येन दुष्क्रियाम् ॥
ततः प्रलयपर्यस्तजगद्घर्घरजृम्भितम् ।
दिग्दन्तिदशनप्रख्यनखवज्राश्रिसूम्भितम् ॥
स्थिरविद्युल्लताजालभासुरोर्ध्वजमण्डलम् ।
दशदिक्कोटरोद्वान्तज्वलज्ज्वलनकुण्डलम् ॥
समस्तकुलशैलेन्द्रपिण्डपीठोद्भटोदरम् ।
दोर्द्रुमाधूननोद्धूतस्फुटद्ब्रह्माण्डकर्परम् ॥
वदनोदरनिष्क्रान्तवातोत्सारितपर्वतं ।
त्रिजगद्दहनोद्युक्तकोपकल्पाग्निगर्वितम् ॥
सटाविकटपीनांसस्पन्दप्रेरितभास्करम् ।
रोमकूपलसद्वह्निपुञ्जपिञ्जरपर्वतम् ॥
कुलाचलमहाकुड्यकुट्टनोद्भटदृक्पुटम् ।
सर्वावयवनिष्ठ्यूतपट्टिसप्रासतोमरम् ॥
नारसिंहं वपुः कृत्वा माधवो ऽहन् महासुरम् ।
लसत्कटकटारावं तुरङ्गमम् इव द्विपः ॥
पुरम् आसुरम् उद्वान्तैर् ददाहेक्षणवह्निभिः ।
ससर्वभूतं कल्पान्ते जगज्जालम् इवानलः ॥
नृसिंहमारुते तस्मिन् भृशं क्षोभम् उपागते ।
विस्फूर्जति घनास्फोटैर् एकार्णव इवाकुले ॥
दुद्रुवुर् दानवौघास् ते दिक्ष्व् अलं मषका इव ।
उपाययुर् अदृश्यत्वं दीपा इव गतत्विषः ॥
अथ विद्रुतदैत्येन्द्रं दग्धान्तःपुरमण्डलम् ।
बभूव पातालतलं कल्पक्षुण्णजगत्समम् ॥
अकालकल्पान्तविधौ शनैः प्रशमिते विभौ ।
क्वापि याते समाश्वस्तसुरसंरम्भपूजिते ॥
मृतशिष्टा दनुसुताः प्रह्लादपरिपालिताः ।
दग्धं स्वं देशम् आजग्मुस् सरश् शुष्कम् इवाण्डजाः ॥
तत्र कालोचितां कृत्वा स्वनाशपरिदेवनाम् ।
और्ध्वदैहिकसत्कारं चक्रुः प्रभुषु बन्धुषु ॥
हृतबन्दीजनं प्लुष्टबन्धुबान्धवमण्डलम् ।
शनैर् आश्वासयाम् आसुर् मृतशिष्टं स्वकं जनम् ॥
चित्रार्पितोपमदुराकृतयो निरीहा दीनाशया हिमहताम्बुरुहोपमानाः ।
शोकोपतप्तमनसो ऽसुरनायकास् ते दग्धद्रुमा इव निरस्तविकासम् आसन् ॥
मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0