भाषा

ENहिગુ
ग्रंथ पाठ

मोक्षोपाय · अध्याय 5.28

5.28.1

अथ ते दानवास् तत्र बडेर् अनुचरास् तदा ।
तद्गृहं स्फाटिकं सौधम् उच्चैर् आरुरुहुः क्षणात् ॥

5.28.2

डिम्बाद्या मन्त्रिणो वीरास् सामन्ताः कुकुहादयः ।
सुराद्याश् चैव राजानो वृत्राद्या बलहारिणः ॥

5.28.3

हयग्रीवादयस् सभ्याश् शुकुन्दाद्याश् च बन्धवः ।
लुडङ्गाद्याश् च सुहृदः पल्मूलाद्याश् च लालकाः ॥

5.28.4

कुबेरयमशक्राद्या उपायनकरास् सुराः ।
यक्षा विद्याधरा नागास् सेवावसरकाङ्क्षिणः ॥

5.28.5

रम्भातिलोत्तमाद्याश् च चामरिण्यो वराङ्गनाः ।
सरितस् सागराश् शैला दिशश् च विदिशस् तथा ॥

5.28.6

सेवार्थम् आययुस् तस्य तं प्रदेशं तदा बडेः ।
अन्ये च बहवस् सिद्धास् त्रैलोक्योदरवासिनः ॥

5.28.7

ध्यानमौनसमाधिस्थं चित्रार्पितम् इवाचलम् ।
नमत्किरीटावलयो ददृशुर् बडिम् आदृताः ॥

5.28.8

तं दृष्ट्वा कृतकर्तव्याः प्रणेमुस् ते महासुराः ।
विषादविस्मयानन्दभयमन्थरतां ययुः ॥

5.28.9

मन्त्रिणो ऽथ विचार्यात्र किं प्राप्तम् इति दानवाः ।
भार्गवं चिन्तयाम् आसुर् गुरुं सर्वविदां वरम् ॥

5.28.10

चिन्तनानन्तरं दैत्या भार्गवं भासुरं पुरः ।
ददृशुः कल्पितप्राप्तं गन्धर्वनगरं यथा ॥

5.28.11

पूज्यमानो ऽसुरगणैर् निविष्टो गुरुविष्टरे ।
ददर्श ध्यानमौनस्थं भार्गवो दानवेश्वरम् ॥

5.28.12

विश्रम्य स क्षणम् इव प्रेमवान् अवलोक्य च ।
बडिं विचारयन् दृष्ट्या परिक्षीणभवभ्रमम् ॥

5.28.13

देहरश्मिशतैर् दन्तदीप्तिभिः क्षीरसागरे ।
क्षिपन्न् इव सभाम् आह हसन् वाक्यम् इदं गुरुः ॥

5.28.14

अहो चित्रम् इदं दैत्यास् स्वविचारणयैव यत् ।
सम्प्राप्तविमलालोकस् सिद्धो ऽयं भगवान् बडिः ॥

5.28.15

अयं तद् एवम् एवेह तिष्ठन् दानवसत्तमाः ।
स्वात्मनि स्थितिम् आप्नोतु पदं पश्यत्व् अनामयम् ॥

5.28.16

श्रान्तो विश्रान्तिम् आयातः क्षीणचिन्ताभरभ्रमः ।
शान्तसंसारनीहारो बोधनीयो न दानवाः ॥

5.28.17

स्व एवालोक एतेन सम्प्राप्तो ऽज्ञानसङ्क्षये ।
शान्ते ऽभ्रसम्भ्रमे सौरो दिनेनेव करोत्करः ॥

5.28.18

स्वयम् एव हि कालेन प्रबोधम् अयम् एष्यति ।
बीजकोशात् स्वसंवित्त्या सुप्तमूर्तिर् इवाङ्कुरः ॥

5.28.19

कुरुध्वं स्वानि कार्याणि सर्वे दानवनायकाः ।
बडिर् वर्षसहस्रेण समाधेर् बोधम् एष्यति ॥

5.28.20

इत्य् उक्ते गुरुणा तत्र भयहर्षविषादजाम् ।
दैत्याश् चिन्तां जहुश् शुष्कां मञ्जरीम् इव पादपाः ॥

5.28.21

वैरोचनिसभासंस्थां विधाय प्राग्व्यवस्थया ।
स्वव्यापारपरास् तस्थुस् सर्व एवासुरास् ततः ॥

5.28.22

नरा महीम् अहिपतयो रसातलं ग्रहा नभस् त्रिदशगणास् त्रिविष्टपम् ।
दिशो ऽद्रयो जलपतयश् च कन्दरान् वनेचरा गगनचराश् च खं ययुः ॥

मूल पाठ: Mokṣopāya · Edition: Susanne Krause-Stinner Das erste und zweite Buch: Vairāgyaprakaraṇa; Mumukṣuvyavahāraprakaraṇa Wiesbaden Harrassowitz Walter Slaje Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe 1 Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission / Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Stu · Data entry Walter Slaje Susanne Krause-Stinner Peter Stephan Anett Krause Jürgen Hanneder Stanislav Jager · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc